अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 428, कुल 540 में से
संदर्भ में पढ़ें३४६ अभिज्ञानशाकुन्तलम्
**प्रतीहारी—**सुट्ठु भणसि। [ सुष्ठु भणसि ] ( इति निष्क्रान्ता )
**राजा—**अहो दुष्यन्तस्य संशयमारूढाः पिण्डभाजः। कुतः—
अस्मात्परं बत ^१यथाश्रुति संभृतानि को नः कुले निवपनानि ^२नियच्छतीति।
नूनं प्रसूतिविकलेन मया प्रसिक्तं ^३धौताश्रुशेषमुदकं पितरः पिबन्ति ॥ २५ ॥
( इति मोहमुपगतः )
**प्रतीहारी—**सुष्ठु भणसि = समीचीनं कथयसि ( इति = एवमुक्त्वा निष्क्रान्ता = निर्गता )।
**राजा—**अनपत्यतया न केवलमिह लोकस्य, अपितु परलोकस्यापि कल्याणस्य विघात उपस्थितम् उत्पन्नं शोचति—अहो = हन्त दुष्यन्तस्य मम संशयं = संकटम् अतः परमस्माकं पिण्डलोपो भविष्यतीति सन्देहम् आरूढाः = प्राप्ताः पिण्डभाजः = पिण्डभोगिनः पितरः नूनमन्नकृच्छ्रमुत्पश्यन्ति पितरः।
**अन्वयः—**नूनं बत अस्मात् परं नः कुले यथाश्रुति संभृतानि निवपनानि कः करिष्यति ? इति पितरः प्रसूतिविकलेन मया प्रसिक्तम् उदकम् धौताश्रुशेषं पिबन्ति।
सन्तत्यभावादस्मात्परं पिण्डदातुरभावात् पितरः संशयारूढा जायन्ते। इति तेषां तात्कालिकीं स्थितिं संभावयन् प्रजा ब्रवीति—अस्मात्परमिति। बत = हन्त, अस्मात् इतो दुष्यन्तात् परं = पश्चात् नः = अस्माकं कुले = वंशे पुरुवंशे श्रुतिमतिक्रम्य यथाश्रुति = वेदोदितेन विधिना, वेदोक्तविधानपूर्वकम् संभृतानि सञ्चितानि, बहूपकरणयुक्तानि निवपनानि श्राद्धादीनि पितृतर्पणादीनि पिण्डदानानि ‘पितृदानं निवापः स्यात्’ इत्यमरः। को नियच्छति = को दास्यति, न कोऽपीत्यर्थः। इति= एवं सञ्चित्य पितरः= पितृलोकं गताः मम पूर्वजाः प्रसूतिविकलेन प्रसृत्या = सन्तत्या विकलेन = रहितेन अनपत्येन मया दुष्यन्तेन प्रसिक्तम् = पितृभ्यः प्रदत्तम् उदकम् = जलम् तिलमिश्रितं जलं तिलाञ्जलि धौताश्रुशेषं धोतानि = क्षालितानि अश्रूणि = वाष्पजलानि येन तस्मात् शेषम् = अवशिष्टं यथा स्यात्तथा धौताश्रुशेषं पिबन्ति = आचामन्ति। शोकाश्रुणाविलं मुखं प्रक्षाल्येव तर्पणजलं पिबन्ति। ( इति = एवमुक्त्वा मोहमुपगतः = मूर्छितः )
**अयं भावः—**इदानीं यावत् मया वेदविधानानुसारं श्राद्धतर्पणादिभिः संभाविताः परलोकं गता मे पितरः ममानपत्यतया मत्तः परं तेभ्यः कः श्राद्धादिकं करिष्यति। मन्ये, अग्रे कोऽपि पिण्डोदकादिदाता नास्तीति रुदन्तस्ते मयार्पितेन तर्पणोदकेन पूर्वं वाष्पं प्रमाज्यं पश्चात्तच्छेषं जलं पिबन्तीति भावः। अत्रोत्प्रेक्षाकाव्यलिङ्गालङ्कारौ वसन्ततिलकावृत्तं च ॥ २५ ॥
**प्रतिहारी—**ठीक कह रही हो। ( ऐसा कहकर बाहर निकल जाती है )।
**राजा—**ओह, मेरे पितर संशय में पड़ गये हैं, क्योंकि—
बड़े खेद की बात है कि मेरे बाद मेरे वंश में वेदोक्तविधि से तैयार किये गये श्राद्ध तथा तर्पण को कौन प्रदान करेगा, यह सोचकर निश्चय ही हमारे पितर लोग सन्तानहीन मेरे द्वारा दिये गये जल के अश्रुमार्जन से अवशिष्ट भाग को ही पाते हैं। ( ऐसा कहकर मूर्च्छित हो जाता है )
**पाठा०—**१. यथास्मृति। २. करिष्यतीति। ३. धौताश्रुसेकमुदकं।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA