अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 436, कुल 540 में से
संदर्भ में पढ़ें| ३५४ | अभिज्ञानशाकुन्तलम् |
|---|
( ततः प्रविशति विदूषकमुत्सृज्य मातलिः )
मातलिः—राजन् !
कृताः शरव्यं हरिणा तवासुराः शरासनं तेषु विकृष्यतामिदम् । प्रसादसौम्यानि सतां सुहृज्जने पतन्ति चक्षूंषि न दारुणाः शराः ॥ २९ ॥
राजा—( ससंभ्रममस्त्रमुपसंहरन् ) अये मातलिः । स्वागतं ^१महेन्द्रसारथेः ।
( ततः = तदनन्तरं मातलिः = इन्द्रसारथिः विदूषकं = माधव्यं ब्राह्मणम् उत्सृज्य = त्यक्त्वा प्रविशति = रङ्गमञ्चे दृश्यते । )
**मातलिः—**अथेन्द्रसारथिः स्वागमनकार्यं निवेदयितुं राज्ञः कोपप्रशमनायचोपक्रमते—कृता इति ।
**अन्वयः—**हरिणा असुराः तव शरव्यं कृताः, तेषु इदं शरासनं विकृष्यताम् । सतां सुहृज्जने प्रसादसौम्यानि चक्षूंषि पतन्तिः दारुणाः शराः न ॥ २९ ॥
नृपतिं दुष्यन्तं क्रुद्धमवगत्य विदूषकं परित्यज्य मातलिर्ब्रूते—कृता इति । हरिणा = इन्द्रेण असुराः = दैत्याः तव = दुष्यन्तस्य शरव्यं = लक्ष्यं कृताः = विहिताः, दैत्याः त्वया हन्तव्या इति हरेरभिलाषेत्यर्थः । 'लक्षं लक्ष्यं शरव्यं च' इत्यमरः । अतः तेषु = लक्ष्यीभूतेषु दैत्येषु इदं = सज्जं शरासनं = संहितशरं धनुः विकृष्यताम् = आकृष्यताम्, तदर्थमेवाहमागतोऽस्मि, स्वयमिन्द्रेण प्रार्थितस्त्वं दैत्यान् जहि, मास्तु ते मयि शरत्यागः इति भावः । सतां = सज्जनानां म्वादृशां सुहृज्जने = स्वमित्रादिबन्धुवर्गे प्रसादसौम्यानि प्रसादेन = प्रसन्नतया सौम्यानि = अनुग्राह्याणि, आह्लादकानि प्रसादमधुराणि चक्षूंषि = नेत्राणि पतन्ति, दृष्टयो निधीयन्ते न तु दारुणाः = भयङ्कराः मर्मभेदिनः शराः = बाणाः न निपतन्ति । अतस्त्वमपि मयि सुहृदि बन्धुवर्गे स्नेहमसृणे लोचने निक्षिप न खलु तव शरपातोचितोऽहम् । अहं हि बान्धवतया समागतो भवतः प्रसन्नदृष्टेरेव पात्रमस्मि न वाणपातस्येति संह्रियतां निजमायुधमिति भावः । अत्राथ्रान्तरन्यास-परिसंख्या-काव्य-लिङ्गमलङ्कारा। वंशस्थं वृत्तञ्च ।
राजा—( नृपः ससंभ्रमं-संभ्रमेण = संभ्रान्त्या सह ससंभ्रमम् अस्त्रम् = आयुधम् उपसंहरन्=प्रत्यावर्तयन् ) अये = कथम् मातलिः, स्वागतं = अभिनन्दनम् महेन्द्रसारथेः = इन्द्ररथचालकस्य ।
( तदनन्तर विदूषक को छोड़कर मातलि प्रवेश करता है )
**मातलि—**राजन् ! इन्द्र के द्वारा राक्षस आपके बाण का लक्ष्य बनाये गये हैं, आप उनके ऊपर यह धनुष चलाइए । सज्जनों के अपने मित्रोंपर कृपावश शान्त नेत्र ही पड़ते हैं, भयङ्कर बाण नहीं।
**विशेष—**यहाँ श्लोक में पूर्वार्द्ध में मातलिने अपने आने का उद्देश्य और इन्द्र का सन्देश बताया, उत्तरार्द्ध में राजा को सज्जन कहकर उनकी प्रशंसा की और अपने को उनका मित्र बताया । मित्र ! बाण मेरे ऊपर क्यों छोड़ते हैं, शत्रुओं पर छोड़िए यह कहकर मातलि मनोरञ्जक ढंग से अपने को दुष्यन्त के समक्ष प्रस्तुत करता है । मातलि इन्द्र के सारथि का नाम है ।
राजा—( शीघ्रता से साथ बाण को धनुष से उतारते हुए ) अरे मातलि, हे देवराज के सारथि, आपका स्वागत है । आइए, आइए !
पाठा०—१. देवराजसारथे ।