भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 439, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 439

षष्ठोऽङ्कः ३५७

स भवानात्तशस्त्र एव इदानीं ^१तमैन्द्ररथमारुह्य विजयाय प्रतिष्ठताम्।

राजा—अनुगृहीतोऽहमनया मघवतः संभावनया। अथ माधव्यं प्रति भवता किमेवं प्रयुक्तम्।

मातलिः—तदपि कथ्यते। किञ्चिन्निमित्तादपि मनः संतापादायुष्मान्मया विक्लवो दृष्टः। पश्चात्कोपयितुमायुष्मन्तं तथा कृतवानस्मि। कुतः—

ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते।
^२प्रायः स्वं महिमानं क्षोभात् प्रतिपद्यते हि जनः॥ ३१ ॥

स भवान् = दुष्यन्तः, आत्तशस्त्र एव = गृहीतशस्त्र एव, इदानीं = सम्प्रति, इन्द्र-रथम् = देवराजयानम्, आरुह्य = आरोहणं कृत्वा, विजयाय = जयकरणाय, प्रतिष्ठताम् = प्रस्थितो भवतु।

राजा—अनया = अमुया मघवतः = इन्द्रस्य सम्भावनया = सम्मानदानेन अहं = दुष्यन्तः अनुगृहीतोऽस्मि = नितरामनुकम्पितोऽस्मि। यदि देवेन्द्रोऽत्र कर्मणि मां समर्थं मन्यते तर्हि तस्य महाननुग्रह इति भावः। अथ प्रस्तुतमुपसंहृत्य माधव्यपरिभवे प्रस्तावमारभते मातलिं प्रति = मम मित्रस्यस्य विदूषकस्य विषये एवं = ईदृशमाक्रमणादिकं भवता किमर्थं प्रयुक्तं = अनुष्ठितम् ?

मातलिः—इन्द्रसारथिरुत्तरयति-तदपि = तदाक्रमणात्मककर्मणः कारणमपि कथ्यते = भण्यते, अस्ति विशिष्टः कारण इत्याशयः। श्रूयतां—किञ्चित् = किमपि अज्ञातं वस्तु निमित्तं = कारणं यस्य स तस्मात् किञ्चिन्निमित्तादपि = कुतोऽपि हेतोः समुत्थितात् मनःसन्तापात = मानसक्लेशात् आयुष्मान् = चिरञ्जीवी भवान् मया विक्लवः = आकुलः दृष्टः = वीक्षितः पश्चात् = ततः कोपयितुं = क्रुद्धं कर्तुं आयुष्मन्तं = चिरञ्जीविनं भवन्तं तथा = तादृशं पूर्वोक्तं कृतवान् = विहितवान् अस्मि भवन्नयनार्थमागतवानहं मोहंगतं च भवन्तं दृष्ट्वा भवन्मित्रं माधव्यमाक्रान्तवानस्मीतिभावः। कुतः = यतः।

अन्वयः—अग्निः चलितेन्धनः (सन्) ज्वलति। पन्नगः विप्रकृतः (सन्) फणां कुरुते, हि जनः प्रायः क्षोभात् स्वं महिमानं प्रतिपद्यते ॥ ३१ ॥

राज्ञो दुष्यन्तस्य क्रोधोत्पत्तेः कारणं कथयन् मातरिन्द्रसारथिः कथयति—ज्वलतीति। अग्निः = वह्निः, चलितेन्धनः चलितानि = घट्टितानि इन्धनानि एधांसि यस्य स तादृशः


आप हथियार लेकर ही इस इन्द्र रथपर सवार होकर विजय के लिए चल पड़ें।

राजा—मैं देवराज इन्द्र के इस सम्मान से अनुगृहीत हूँ। अच्छा आपने मेरे मित्र माधव्य के साथ ऐसा व्यवहार क्यों किया?

मातलि—उसे भी कह रहा हूँ, सुनिए—मैंने आपको किसी कारण वश मानसिक सन्ताप से विकल देखा। अतः आपको कुपित करने के निमित्त मैंने वैसा किया, क्योंकि अग्नि इन्धन के हिला देने से प्रज्वलित हो जाता है, सर्प अपमानित होने पर अपने फन को फैलाता है। इसी प्रकार तेजस्वी पुरुष भी किसी बात से क्षोभ दिखाए जाने पर ही प्रायः अपने तेज, पौरुष या वीरता का स्मरण करते हैं।

विशेष—जब जलती लकड़ियों से ठीक-ठीक लपट न निकलने पर उसे कुछ ठोक ठाक करके ठीक कर दिया जाता है तब बीच में हवा पहुँचने से आग धधकने लगती है।


पाठ०—१. देवरथमारुह्य।
२. तेजस्वी संक्षोभात्प्रायः प्रतिपद्यते तेजः।