अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 448, कुल 540 में से
संदर्भ में पढ़ें३६६ || अभिज्ञानशाकुन्तलम्
राजा—मातले असुरसंप्रहारोत्सुकेन पूर्वेद्युर्दिवमधिरोहता मया न लक्षितः स्वर्गमार्गः तत् कतमस्मिन् मरुतां पथि वर्तामहे ।
नाहंम् अर्थजातं = पदार्थसमूहं, पदावलीम् विचिन्त्यं = विचार्यं काव्यं विरच्य सुर-सुन्दरीणां=देवाङ्गनानां अप्सरसाम् कल्पलतांशुकेषु कल्पलतानामंशुकानि कल्पलतांशुकानि तेषु कल्पलतांशुकेषु = कल्पवृक्षसमुत्थितेषु निजवनिता वसनेषु विच्छित्तेः शेषा विच्छित्ति-शेषाः तैः विच्छित्तिशेषैः = अङ्गरागावशिष्टैः वर्णैः = कुङ्कुमकस्तूरीहरिचन्दनादिनिर्मितैः वर्णकैः सितपीतादिभिर्वर्णैः वा त्वच्चरितं = दानवविजयानुरूपं तवावदानं जीवनगाथां लिखन्ति = अङ्कयति । लिपिबद्धं कुर्वन्तीत्यर्थः ।
अयं भावः—भूपते ! अवलोकय भवद्यशः सौभाग्यं स्वर्गमधिरोहति समुद्धृतासुर-कण्टका निश्चिन्ता अमी देवा निजकरकमलैः स्वप्रियतमानामङ्गेषु हरिचन्दनादिलेपैः तिलकालङ्कारान् परिकल्प्य तदवशिष्टैर्वर्णकैः तासां वसनेषु ताभिर्गेयं-त्वदीयं चरितं सम्यग् विचार्यं लिखित्वा भवदुपकृतं त्रिदशलोकोत्तरं भवदीयं चरितमेव स्वसुन्दरीभिः साकं सहर्षं गायन्ति । अत्रोदात्तपरिणामानुप्रासालङ्कारा उपजातिच्छन्दश्च ।
राजा—महापुरुषत्वात् राजर्षे दुष्यन्तस्यात्मप्रशंसाश्रवणं लज्जाकरमिति मातलि विषयान्तरे संचारयन्नाह—मातले ! असुराणां = दानवानां संप्रहारे = युद्धे समुत्सुकेन = उत्कण्ठितेन दिवं = स्वर्गम् अधिरोहता = आरोहता मया = दुष्यन्तेन पूर्वेद्युः पूर्वस्मिन् दिने न लक्षितं = न दृष्टः सम्यग् न निरूपितः स्वर्गमार्गः = स्वर्गारोहणपदवी तत् तस्मात् कथय मम परिचयार्थं प्रबोधय मरुतां वायूनां कतमस्मिन् पथि = सप्तसु वायुमार्गेषु कस्मिन् वायुमार्गे वयं संप्रति वर्तामहे = गच्छामः। कस्मिन् वायुमार्गे तिष्ठाम इति न ज्ञायते इति भावः । सप्तवायुमार्गा महाभारते प्रसिद्धाः । तथाहि—
आवहः प्रवहश्चैव ततश्चानुवहस्तथा । संवहो विवहश्चैव ततश्चोर्ध्वंपरवहः ॥ द्विजा परिवहश्चैव वायोर्वे सप्त नेमयः ॥
सिद्धान्तशिरोमणौ भास्कराचार्यस्तु—
भूवायुरवह इति प्रवहस्तदूर्ध्वं स्यादुद्वहस्तदनु संवहसंज्ञकश्च । अन्यस्ततोऽपि सुवहः प्रतिपूर्वकोऽस्मात् वाह्यः परावह इमे पवनाः प्रसिद्धाः ॥
अपना आवश्यक कर्तव्य समझते हैं । इसमें साधारण पत्र और स्याही की आवश्यकता नहीं चरित्र और चरित्र में अन्तर है आचरण को चरित्र एवं जीवन की घटनाओं को भी चरित कहते हैं ।
सुगन्धित द्रव्यों से मुख-मस्तक आदि के सजाने को विच्छित्ति कहते हैं । कल्पवृक्ष स्वर्गनिवासियों के धारण करने के योग्य सूक्ष्म रेशमवस्त्र प्रदान करते हैं ।
राजा—मातले ! दुर्जय असुरों के साथ युद्ध करने की उत्कण्ठा में मैंने जाते समय स्वर्गमार्ग को विशेष रूप से नहीं देखा, तो बताओ सात वायुमण्डलों में से इस समय हमलोग वायु के किस मार्ग में चल रहे हैं ?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA