भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 447, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 447

सप्तमोऽङ्कः । १६५

मातलिः—सदृशमेवैतत् । ( स्तोकमन्तरमतीत्य ) आयुष्मन्, इतः पश्य नाकपृष्ठ-प्रतिष्ठितस्य सौभाग्यमात्मयशसः ।

विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैरमी कल्पलतांशुकेषु ।
विचिन्त्य गीतक्षममर्थजातं दिवौकसस्त्वच्चरितं लिखन्ति ॥ ५ ॥

कर्मसु = कष्टसाध्येष्वपि गुरुषु कार्येषु नियोज्याः = सेवकाः भृत्या सिद्ध्यन्तिः = सिद्धिमन्तो भवन्ति कार्यनिष्पादका जायन्ते इति यत् भृत्याना या कृतार्थता ताम ईश्वराणां = शक्तिमतां स्वामिनां संभावनानुगुणं — संभावना = नियोज्यविषयको बहुमानः तस्य गुणम् उत्कर्षम्, महिमानं वा अवेहि जानीहि । प्रभुमहत्त्वेनैव तत्कार्यसिद्धिः सेवकगुणो न कोऽपि वर्तत इति भावः । अरुणः = विनतासुतः सूर्यसारथिः तमसां = ध्वान्तानाम् अन्धकाराणां विभेत्ता = नाशकः किं वा अभविष्यत् = कथमभविष्यत् चेत् = यदि तं = अरुणं सहस्रकिरणः = सहस्रांशुः सूर्यः धुरि = अग्रे यानमुखे न अकरिष्यत् = नास्थापयिष्यत् ।

अयं भावः— हे देवराजसारथे ! नाहं प्रशंसाहंम् किन्तु महेन्द्रस्यैवायं महिमा यत्तेन मद्ध्वारा तत् कार्यं सम्पादितम् । पश्य महत्सु कार्येषु नियुक्ताः सेवकाः यदि कार्याणि सम्यक् सम्पादयन्ति तत् स्वामिनामेव महिमा न तु भृत्यानाम्, चलितुमक्षमोऽपि वनितातनयोजनूररुणो यदि भगवता सूर्येण स्वरथाग्रभागे न स्थापितोऽभविष्यत् तर्हि स कथं तमसां विभेत्ताऽभविष्यत् । तस्माद्दुर्जयदानवगणो महेन्द्रमहिम्नैव विनष्टो न स्वकीयात् प्रभावादित्याशयः । अत्र-दृष्टान्तानुप्रासाऽप्रस्तुतप्रशंसाऽलङ्काराः वसन्ततिलका वृत्तञ्च ॥ ४ ॥

मातलिः—एतत् = विनयवचनम् सदृशमेव = भवदनुरूपमेव योग्यमेव शूरा अविकत्थना भवन्तीतिभावः । ( स्तोकमन्तरमतीत्य = स्वल्पमवकाशमतिक्रम्य ) आयुष्मन् = चिरञ्जीविन् । नाकपृष्ठप्रतिष्ठितस्य–नाकेपृष्ठे = स्वर्गंतले प्रतिष्ठां प्राप्तस्य स्थिरीकृतस्य आत्मयशसः = निजकीर्तेः सौभाग्यं = अहोभाग्यं, लालनीयत्वम् लोकप्रियत्वं इतः = अत्र प्रदेशे पश्य = अवलोकय सौभाग्यमेवोपपादयति-विच्छित्तिरिति ।

अन्वयः— अमी दिवौकसः गीतक्षमम् अर्थजातम् विचिन्त्य सुरसुन्दरीणां कल्पलतांशुकेषु विच्छित्तिविशेषैः वर्णैः त्वच्चरितं लिखन्ति ॥ ५ ॥

राज्ञो दुष्यन्तस्य सुयशसः सौभाग्यं कथयन् मातलिर्वदति—विच्छित्तिरिति । अमी= दूरे दृश्यमानाः दिवौकसः = स्वर्गवासिनो देवाः गीतक्षमम् = गातुं योग्यं सुरसुन्दरीभिर्गा-

किरणवाले भगवान् सूर्य विराजमान रहते हैं, जिससे अन्धकार भागता है । इस प्रकार मुझमें दानवों को मारने की योग्यता नहीं है, प्रतापी इन्द्र का प्रताप मेरा पृष्ठपोषक है, जिससे भयभीत हो दानव-गण भग गये, मुझे यश मिल गया । इस प्रकार दुष्यन्त ने अपनी नम्रता की पराकाष्ठा कर दी है ।

मातलि— यह कथन आपके लिए उचित ही है ( थोड़ी दूर जाकर ) चिरजीविन् ! इधर स्वर्गंतल पर प्रतिष्ठित अपने सुयश के सौभाग्य को देखिए—

ये स्वर्गवासी देवता लोग गाने के योग्य अर्थसमूह को सोचकर देवाङ्गनाओं के अंगराग के बचे हुए रंग से कल्पवृक्ष से निर्मित रेशमी वस्त्रों पर आपके चरित्र को लिख रहे हैं ॥ ५ ॥

विशेष— यहाँ अङ्गराग से अवशिष्ट रंग लिखने का साधन है, कल्पवृक्ष द्वारा दिया गया रेशम् वस्त्र लिखने का आधार है और देवता लिखने वाले हैं । साधन, आधार तथा लेखक ये तीनों विशिष्ट हैं । समस्त जीवन गाथा लिखना संभव नहीं । अतः विशेष गेय अंश ही लिखे जा रहे हैं । अब देवता लोग कल्पवृक्ष द्वारा दिये गये वस्त्र पर देवाङ्गनाओं के अङ्गराग से आपका सुयश लिखन।