अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 453, कुल 540 में से
संदर्भ में पढ़ेंसप्तमोऽङ्कः ३७१
मातलिः—साधु दृष्टम् (सबहुमानमवलोक्य) अहो ^१उदाररमणीया पृथिवी ।
राजा—मातले ! कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसनिष्यन्दः सान्ध्य इव ^२मेघपरिघः सानुमानालोक्यते ।
मातलिः—आयुष्मन् ! एष खलु हेमकूटो नाम किंपुरुषपर्वतस्तपःसंसिद्धिक्षेत्रम् ।
पश्य—
यान्ति । यत्र यत्र दूरात् सूक्ष्मताया जलं न दृष्टं, सहसा सजला नद्यस्तत्र दृश्यन्ते । इदमप्याश्चर्यं वेगादेव भुवनं = मनुष्यलोकः उत्क्षिपता = ऊर्ध्वं प्रेरयता केनापि = अतिसुरासुरत्वेन सत्वेन मत्पार्श्वं = मम समीपम् आनीयते इव उपस्थाप्यत इव, वस्तुतस्तु अहमेवाधः पतामि, वेगात्पुनर्भुवनमुत्पततीव भाति । यद् दूरादेकपृष्ठमेकवर्णं च भाति स्म तदेव भुवनं सहसा गिरितरुसरसादिरूपेण विभक्तपृष्ठभागमुत्पततीवेत्यहो आश्चर्यम् । तस्मादाश्चर्यदर्शनोऽयं मनुष्यलोक इति सत्यमिति भावः ।
अत्रोत्प्रेक्षाकाव्यलिङ्गस्वभावोक्तिसंसृष्टालङ्काराः शार्दूलविक्रीडितं च छन्दः ॥ ८ ॥
मातलिः—राजोक्तिमनुमोदमानो मातलिर्वदति—साधु दृष्टम्=सम्यगवलोकितं भवता शोभनमुत्प्रेक्षितम् सबहुमानं = सादरमवलोक्य = दृष्ट्वा । अहो = आश्चर्यम्, उदाररमणीया उदारा = विशाला च रमणीया = सुन्दरी चेति उदाररमणीया = अतिदर्शनीया पृथिवी = मेदिनी ।
राजा—मातले ! = इन्द्रसारथे ! पूर्वापरसमुद्रावगाढः—पूर्वापरसमुद्रयोः=पूर्वपश्चिमसागरयोः अवगाढः = प्रविष्टः, सम्बद्धः पूर्वपश्चिमसमुद्रद्वयविनिविष्ट प्रान्तभागः कनकरसनिष्यन्दः कनकरसस्य = सुवर्णद्रवस्य निष्यन्दः = स्रव इति कनकरसनिष्यन्दः = द्रवसुवर्णोद्गारी, कनकमयधातुरसनिस्यन्दी सान्ध्यः सन्ध्यायां भवः सान्ध्यः = सन्ध्याकालोद्भवः मेघपरिघः = परिघाकारो मेघः कतमः = कः सानुमान् = पर्वतः ? आलोक्यते दृश्यते ?
मातलिः—आयुष्मन् = चिरजीविन् ! एषः = पुरो दृश्यमानः समीपवर्ती खलु हेमकूटो नाम = हेमकूट इति प्रसिद्धः किंपुरुषपर्वतः = किम्पुरुषवर्षस्य मर्यादापर्वतः तपःसंसिद्धिक्षेत्रम् तपसः = तपस्यायाः संसिद्धेः = सफलतायाः क्षेत्रं = स्थानमिति तपः संसिद्धिक्षेत्रम् हेमकूटः = कैलासः । तथाहि महाभारतस्य भीष्मपर्वणि—
हेमकूटस्तु महान् कैलासो नाम पर्वतः ।
यत्र वैश्रवणो राजा गुह्यकैः सह मोदते ॥—६।४।१
किम्पुरुषवर्षस्य मर्यादापर्वतत्वमुक्तं श्रीमद्भागवतस्य पञ्चमे स्कन्धे—
मातलि—आयुष्मन् ! आपने बहुत ठीक देखा, ऐसी ही बात है (अत्यन्त आदर के साथ देखकर) वह यह पृथिवी कितनी चित्ताकर्षक और विशाल है ।
राजा—पूर्व और पश्चिम सागर में घुसा हुआ सुवर्ण के रस को बहाने वाला सायंकालीन बादलों की तरह पीला या लाल यह कौन सा पर्वत है ?
मातलि—आयुष्मन् ! यह किंपुरुष वर्ष का हेमकूट नामक पर्वत है, जो तपस्वियों की तपस्या का सर्वश्रेष्ठ स्थान है । देखिए—
पाठा०—१. उदग्ररमणीया पृथिवी । २. मेघः सानुमानवलोक्यते ।