भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 457, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 457

सप्तमोऽङ्कः ३७५

मातलिः—एतावानेव शतक्रतोरायुष्मतश्च विशेषः।
राजा--मातले ? कतमस्मिन्प्रदेशे मारीचाश्रमः।
मातलिः—(हस्तेन् दर्शयन्)—

वल्मीकाग्रनिमग्नमूर्तिरुरसा संदष्टसर्पत्वचा
कण्ठे जीर्णलताप्रतानवलयेनोत्यर्थसंपीडितः।
अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥ ११ ॥


मातलिः—स्तुतिगर्भमनुवदति—एतावानेव = रथस्य भूतलस्पर्शाभाव एव शतक्रतोः= शतमखस्य आयुष्मतः=चिरजीविनो भवतः विशेषः=अन्तरम्—भुवि संचरणे शतक्रतो रथः अस्पृष्टो गच्छति, तव तु स्पृष्टो व्रजति। अन्यथा स इव भवान् अनाकवर्त्मतिभावः।

राजा—मारीचदर्शनस्यौत्सुक्यात् पुनः पृच्छति-मातले ! कतमस्मिन् प्रदेशे = कस्मिन् स्थाने मारीचाश्रमः मारीचस्य = काश्यपस्याश्रमः = तपोवनम्।

मातलिः—(हस्ते = उत्तानितेन पताकेन दर्शयन् वदति— ) वाल्मीकाग्रेति।

अन्वयः—यत्र असौ वल्मीकाग्रनिमग्नमूर्तिः सन्दष्टसर्पत्वचा उरसा जीर्णलताप्रतान-वलयेन कण्ठे अत्यर्थं संपीडितः अंसव्यापि शकुन्तनीडनिचितं जटामण्डलं बिभ्रत् स्थाणु-रिव अचलो मुनिः अभ्यर्कबिम्बं स्थितः।

कतमस्मिन् प्रदेशे मारीचाश्रम इति राज्ञा पृष्टो मातलिः हस्तेन तं दर्शयन् ब्रवीति—बल्मीकाग्रेति। यत्र = यस्मिन् प्रदेशे असौ = दूरे दृश्यमानः वल्मीकाग्रनिमग्नमूर्तिः वल्मीकस्य = पिपीलिकाकृतमृत्पुञ्जस्तूपविशेषस्य अग्रे यथा स्यात्तथा निमग्ना = निहिता मूर्तिः शरीरं यस्य सः यद्वा वल्मीकाग्रे निमग्ना मूर्तिर्यस्यासौ बल्मीकाग्रनिमग्नमूर्तिः वामलूरामृत्कूटसन्निविष्टः शरीराग्रः—'वामलूरश्च नाकुश्च बल्मीकं पुन्नपुंसकम्' इत्यमरः। सन्दष्टाः = संलग्ना सर्पस्य = अहेः त्वचः = निर्मोका यस्मिन् स सन्दष्टसर्पत्वचः = संसक्त-सर्पकञ्चुकेन उरसा = उरःस्थलेनोपलक्षितः जीर्णलताप्रतानवलयेन जीर्णानां शुष्कानां लताप्रतानानां=वलयाकाराणां बल्लोतन्तूनां वलयेन=वेष्टनेन पुराणलतामण्डलेन वलयित-लतातन्तुभिः कण्ठे = ग्रीवायाम् अत्यर्थंसम्पीडितः—अत्यर्थम् = अत्यन्तं संपीडितः =


मातलि—इतना ही इन्द्र के और आपके रथ में अन्तर (विशेषता) है।
राजा—मातले ! भगवान् मारीच = कश्यप जी का आश्रम किस जगह है?
मातलि—(हाथ से दिखाता हुआ) आयुष्मान् ! इधर देखिए—

चींटी और दीमकों से निकली हुई मिट्टी के बीच में जिनका आधा शरीर दब गया है, सर्पों की केंचुलियाँ जिनके शरीर पर दूसरे जनेऊ की तरह मालूम हो रही हैं। लटकी हुई लताओं के तन्तुओं से जिनका गला कस गया है। ऐसे ये महर्षि जिनमें पक्षियों ने घोसले बना लिए हैं ऐसे जटामण्डल को धारण किये हुए स्थाणु की तरह निश्चल हो सूर्य की ओर मुख करके खड़े हो तपस्या कर रहे हैं। यही मारीच ऋषि का आश्रम है॥ ११॥

विशेष—तपस्या करते हुए महर्षि कश्यप के बहुत दिन बीत गये थे, इसीलिए दीमकों द्वारा लाई गई मिट्टी से उनके शरीर का अधिकांश भाग ढँक गया था, इसी कारण पक्षियों ने भी उनके शरीर

पाठ०—१. नात्यन्तसंपीडितः।