अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 458, कुल 540 में से
संदर्भ में पढ़ें३७६ | अभिज्ञानशाकुन्तलम्
**राजा—**नमस्ते कष्टतपसे।
मातलिः—(संयतप्रग्रहं रथं कृत्वा)—महाराज! एतावदितिपरिवर्धितमन्दारवृक्षं प्रजापतेराश्रमं प्रविष्टौ स्वः।
**राजा—**स्वर्गादधिकतरं निर्वृत्तिस्थानम्। अमृतह्रदमिवावगाढोऽस्मि !
मातलिः—(रथं स्थापयित्वा) अवतरत्वायुष्मान्।
निबन्धनेन क्लेशितः, अंसव्यापि अंसौ = स्कन्धौ व्याप्नोति तच्छीलिभिः अंसव्यापि = स्कन्धप्रसृतम् शकुन्तनोडनिचयं–शकुन्तानां = पक्षिणां नीडैः = कुलायैः निचितं व्याप्तमिति शकुन्तनोडनिचितं = पक्षिकुलव्याप्तम् जटामण्डलं = जटानां मण्डलं = समूहं जटाजूटं विभ्रत् = धारयन् अत एव स्थाणुरिव = काण्डशेषो वृक्ष इव अचलः = निष्पन्दः स्थिर। मुनिः = मरीचिपुत्रः कश्यपः अर्कबिम्बं = सूर्यमण्डलं अभिलक्ष्यीकृत्य यत्र स्थितोऽसौ मारीचाश्रमः।
अर्थात् राजन्? यत्र वल्मीकनिमग्नशरीरः स्कन्धोपरि लम्बमानं जटाजूटं विभ्राणः कश्यपमुनिः स्थाणुरिव सूर्यबिम्बं लक्ष्यीकृत्य तिष्ठति स एव मारीचाश्रमो भवतावगन्तव्यः। अत्र श्लेषोपमापरिकरालङ्काराः शार्दूलविक्रीडितवृत्तञ्च ॥ ११ ॥
**राजा—**तादृशं कश्यपं विलोक्य तं नमस्कुर्वन् राजा ब्रवीति—नमोऽस्मै कष्टतपसे कष्टं = कष्टकरं कृच्छ्रं तपो यस्य स तस्मै कष्टतपसे = उग्रतपसे ते = तुभ्य नमः = नमस्कारः।
मातलिः—(संयमितप्रग्रहं संयमिताः = नियमिताः प्रग्रहाः = रश्मिरज्जवः यस्य स तम् संयमितप्रग्रहं–नियमितरश्मिरज्जुम् रथं = स्यन्दनम् कृत्वा = विधाय) महाराज। एतो = इमो आवाम् अदितिपरिवर्धितमन्दारवृक्षम् अदित्या = कश्यपपत्न्या परिवर्धितः पालितः मन्दारवृक्षः = कल्पवृक्षो यत्र स तमदितिपरिवर्धितमन्दारवृक्षम् प्रजापते = कश्यपस्य आश्रमं = तपोवनं प्रविष्टौ स्वः।
**राजा—**अथ स्वभावतः सात्त्विको राजा सत्वोद्दीपकपुण्याश्रमसंसर्गेण प्रवृद्धसत्वगुणः प्रहृष्यन्नाह—स्वर्गादधिकतरं = स्वर्गापेक्षयाप्यधिकसौभाग्यास्पदं निर्वृत्तिस्थानं = निर्वृत्तेः = प्रसन्नतायाः स्थानम् = आस्पदम् अमृतह्रदमिव = सुधाकुण्डमिव अवगाढः = प्रविष्टः इवास्मि। नेदृशं स्वर्गेऽपि लभ्यं सुखं मयेति भावः।
मातलिः—(रथं = स्यन्दनं स्थापयित्वा = सुसंयतं कृत्वा) आयुष्मान् = भवान् अवतरतु।
को सूखा समझकर उनके जटाजूट में घोंसले लगा लिये थे। वल्मीक उसे कहते हैं, जिसमें दीमक मिट्टी लगाकर ढेर कर देते हैं। स्थाणु उस वृक्ष को कहते हैं, जिसमें पत्ते, पुष्प और फल लगते हों। प्रायः दीमक सूखे वृक्ष के ठूँठ पर मिट्टी चढ़ाकर ढेर कर देते हैं। इस प्रकार दीमकों ने ऋषि को निश्चल ठूँठ समझ लिया था।
**राजा—**इस प्रकार कठिन तपस्या करने वाले मुनि को मेरा प्रणाम है।
मातलि—(रथ की बागडोर खींचकर) अदिति द्वारा बढ़ाये गये मन्दार वृक्षवाले प्रजापति कश्यप के आश्रम में हमलोग आ गये हैं।
**राजा—**यह स्वर्ग से भी अधिक सुन्दर सुखप्रद स्थान है। यहाँ पर मैं मानो अमृत के तालाब में डूबा हुआ हूँ।
मातलि—(रथ को रोककर) चिरंजीवी! आप उतरें।