भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 460, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 460

३७८ अभिज्ञानशाकुन्तलम्

ध्यानं ^१रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो ^२यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥ १२ ॥

पट्टेषु ध्यानं = समाधिः विधीयते विबुधस्त्रीसन्निधौ = विबुधानां स्त्रियः = अप्सरसः तासां सन्निधौ = समीपे संयमः = इन्द्रियनिग्रहः अभ्यस्यते, अन्ये = अपरे च ते मुनयः = ऋषय इति अन्यमुनयः = अपरे भूयिष्ठाः तपस्विनः तपोभिः = कृच्छ्रैः तपश्चरणैः यत् यद् वस्तु स्वर्गादिकं वा कल्पवृक्षस्वर्णपद्मादिकं काङ्क्षन्ति = इच्छन्ति तस्मिन् = तादृशे अपि अमी = इमे दृश्यमाना मुनयः = तापसा तपस्यन्ति = तपश्चरन्ति ।

अयं भावः—महर्षेः कश्यपस्य सकलभोगप्रगटकल्पपादपशोभिते आश्रमे सर्वतो विस्मयमनुभवन् राजर्षिर्दुष्यन्तो महेन्द्रसारथिं मातलिं कथयति—मातले अस्मिन्नाश्रमे सर्वत्रैव दृश्यं मे विस्मयजनकं प्रतीयते । अस्मिन् कल्पवृक्षकानने इच्छामात्रेणैव सर्वविधं स्वादु भोजनं लब्धुं शक्यते, परमात्र स्थिता एते तपस्विनो वायुमात्रमेव भक्षयित्वा तपश्चरन्ति । काञ्चनकमलकिञ्जल्कसदृशानि स्वच्छानि जलानि समीक्ष्य समेषां समुदेति स्नातुं विहर्तुं चामिलाषा, किन्त्वेते नियमनिवर्तनस्नानमात्रं कुर्वते । धर्म्याचरणार्थमेव स्नानं कुर्वन्ति ते, न तु तत्र देवाङ्गनाभिः सह जलक्रीडादिकामोपभोगार्थं स्नान्ति । रत्नमयशिलातले उपविश्य विहर्तुं भवति समेषां वाञ्छा, परमेते तत्रोपविश्य ध्यानधारणादीन्येव योगाङ्गानि समनुतिष्ठन्ति । एते रत्नशिलाफलकेष्वपि ध्यानमाचरन्ति । किञ्चैतस्ततोऽतिसुन्दर्यो देवाङ्गना विहरन्ति परमेते तासां सुरसुन्दरीणां सन्निधावपि निगृहीतेन्द्रियाः सन्तस्तपश्चरन्ति न तु तत्र सुरसुन्दरीभिः साकं सुरतक्रीडां संभोगादिकं कुर्वन्तीत्यहो तेषामिन्द्रियवशित्वम् । किंबहुना भूतलयर्तिनः तापसाः तपश्चरणफलत्वेन सुराङ्गनासंभोगार्थं यत् स्थानं स्वर्गादिभुवं प्राप्तुं प्रयतन्ते तत्रस्थिता एते तपस्यन्तीति विस्मयातिरेकजनकोऽयं कश्यपाश्रमः । अत्र व्यतिरेकविशेषोक्तिकाव्यलिङ्गालङ्काराः शार्दूलविक्रीडितं वृत्तञ्च ॥ १२ ॥


सन्ध्यार्थ ही वे स्नान कर रहे हैं (रतिक्रीड़ा और जलक्रीडा आदि नहीं करते) रत्नों की शिलाओं से विरचित भवनों में तथा कन्दराओं में बैठकर ये ध्यान करते हैं। और देवाङ्गनाओं के बीच रह कर भी ये इन्द्रिय निग्रह, ब्रह्मचर्य का ही पालन करते हैं। अन्य मुनिगण तपस्या करके जिन स्वर्ग के भोगों को प्राप्त करना चाहते हैं, वहाँ भी ये लोग तपस्या ही करते हैं ॥ ११ ॥

विशेष—अर्थात् अधिक तपस्वी इसी अभिलाषा से तप करते हैं कि मुझे कल्पवृक्ष का सान्निध्य मिलता तो हर इच्छाओं की पूर्ति करता, अपने पास सुवर्ण की ढेर लगा लेता, स्वर्ण कमल से पीत जल में विहार करता, रत्नोंकी शिलाओं पर बैठकर सुख लेता, मुझे अप्सरा मिल जाती तो भोग सुख प्राप्त होता, किन्तु धन्य हैं ये मुनिजन, जो इन्हें ठुकराकर तप के सदा संलग्न हैं। प्राणों को रक्षा आवश्यक समझकर ऋषिलोग वायु पान करते हैं, अन्यथा उसकी भी कामना नहीं है, कल्पवृक्ष पास है, पर उससे भोजन नहीं माँगते और, कमलपराग सुवर्ण सा है, पर उसका उपभोग नहीं करते हेमकूट देवभूमि है, यहाँ अप्सराएँ आती जाती रहती हैं, पर ये सब इन्द्रियसंयम कर तपस्या ही करते रहते हैं। अन्य ऋषि सकाम तप करते हैं, पर ये निष्काम होकर तपस्या करते ही जाते हैं यह इनकी विशेषता है।

पाठ०—१. रत्नशिलागृहेषु । २. यद्वाञ्छन्ति ।

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित) · पृष्ठ 460, कुल 540 में से · BharatKosha