अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 461, कुल 540 में से
संदर्भ में पढ़ेंसप्तमोऽङ्कः ३७९
मातलिः—उत्सर्पिणी खलु महतां प्रार्थना । (परिक्रम्य आकाशे) अये वृद्ध-शाकल्य किमनुतिष्ठति भगवान् मारीचः ? किं ब्रवीषि ? दाक्षायण्या पतिव्रताधर्ममधिकृत्य पृष्टस्तस्यै महर्षिपत्नीसहितायै कथयतीति ।
राजा—(कर्णं दत्वा)—अये प्रतिपाल्यावसरः खलु प्रस्तावः ।
मातलिः—(राजानमवलोक्य)—अस्मिन्नशोकवृक्षमूले तावदास्तामायुष्मान् यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि ।
राजा—यथा भवान् मन्यते । ( इति स्थितः )
मातलिः—दुष्यन्तस्योक्त्यनन्तरं विस्मयस्य नावकाश इत्याशयेन मातलिर्ब्रूते—महतां = महाजनानां प्रार्थना = इच्छा अभिलाषा उत्सर्पिणो-इत् उर्ध्वं सर्पति तच्छीला उत्सर्पिणी उर्ध्वंगामिनी भवति खलु निश्चयेन । एते इतोऽपि महत्फलं कैवल्यादिकमभिलषन्तस्तपस्यन्तीतिभावः । (परिक्रम्य = मण्डलाकृतिं गत्वा आकाके = व्योम्नि ) अये = भो वृद्ध शाकल्य = तापसविशेष । इदानीं भगवान् मारीचः = पूज्यः मरीचिपुत्रः कश्यपः किमनुतिष्ठति = किं करोति ? किं ब्रवोषि=वदसि दक्षस्यापत्यं स्त्री दाक्षायणी तया दाक्षायण्या = दक्षपुत्र्या अदित्या पतिव्रताधर्मं = सतीनां कतंव्यं पुण्यमधिकृत्य विषयीकृत्य पृष्टः महर्षिपत्नीसहितायै = ऋषिभार्यायुक्तायै तस्यै = अदित्यै कथयति = वदति दक्षकन्यया सतीत्वमाहात्म्यविषयके प्रश्ने कृते महर्षीणां भार्याभिः सहितायै तस्यै उत्तरं ददाति ब्रवीति किम् ?
राजा--(कर्णं दत्वा = श्रवणमभिनय ) अये ! = भोः प्रतिपाल्यावसरः प्रतिपाल्यः= प्रतीक्ष्यः अवसरः = उचितः कालः यस्य स प्रतिपाल्यावसरः = प्रतीक्षणीयावसरः प्रस्तावः = प्रसङ्गः प्रस्तुतोऽर्थः । कथासमाप्तौ सत्यवसरे तस्य दर्शनं स्यादितिभावः ।
मातलिः—( राजानवलोक्य वदति )—अस्मिन् = एतस्मिन् अशोकवृक्षमूले = अशोकपादपतले तावत् = तावत्पर्यन्तम् आयुष्मान् = भवान् आस्ताम्=उपविशताम् यावत्= यावत्कालम् इन्द्रगुरवे = सुरपतिपित्रे कश्यपाय निवेदयितुम् = सूचयितुम् अन्तरान्वेषी अन्तरं = अवसरम्, अवकाशं वा अन्विष्यति=मृगयते इति अवसरान्वेषी भवामि=स्याम् ।
राजा—यथा भवान् मन्यते = यत् त्वं समर्थयसि, यथेच्छति भवान् तथैव स्यात् । ( इति = एवमुक्त्वा स्थितः । )
मातलि—महापुरुषों की इच्छाएँ सदा ऊँची ही ऊँची रहा करती हैं । अर्थात् इन उपलब्ध वस्तुओं से भी अधिक श्रेष्ठ ब्रह्मानन्द को प्राप्त करने के लिए ये मुनिगण यहाँ भी कठिन तपस्या कर रहे हैं । ( कुछ चलकर आकाश में स्वयं दूसरे के नाम से प्रश्नोत्तर करता हुआ ) हे वृद्ध शाकल्य ! पूज्य कश्यप जी क्या कर रहे हैं ? क्या कह रहे हो कि दाक्षायणी=दक्षकन्या अदिति ने पतिव्रताधर्म के विषय में उनसे कुछ पूछा था और वे महर्षि-पत्नियों के सहित उनसे उसके विषय में कह रहे हैं ?
राजा—( कान देकर ) अच्छा, तब तो हम लोगों को कुछ देर प्रतीक्षा करनी ही पड़ेगी । पतिव्रता धर्म का प्रसंग ही ऐसा है कि उसकी समाप्ति की प्रतीक्षा करनी ही चाहिए ।
मातलि—( राजा की ओर देखकर ) आयुष्मान् ! आप तब तक इस अशोक वृक्ष में नीचे ठहरें, जबतक मैं इन्द्र के पिता महर्षि कश्यप से आपके आने की सूचना देने का अवसर ढूँढ़ता हूँ ।
राजा—जैसी आपकी इच्छा ( खड़े हो जाते हैं )