अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
सप्तमोऽङ्कः ३७९
मातलिः—उत्सर्पिणी खलु महतां प्रार्थना । (परिक्रम्य आकाशे) अये वृद्ध-शाकल्य किमनुतिष्ठति भगवान् मारीचः ? किं ब्रवीषि ? दाक्षायण्या पतिव्रताधर्ममधिकृत्य पृष्टस्तस्यै महर्षिपत्नीसहितायै कथयतीति ।
राजा—(कर्णं दत्वा)—अये प्रतिपाल्यावसरः खलु प्रस्तावः ।
मातलिः—(राजानमवलोक्य)—अस्मिन्नशोकवृक्षमूले तावदास्तामायुष्मान् यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि ।
राजा—यथा भवान् मन्यते । ( इति स्थितः )
मातलिः—दुष्यन्तस्योक्त्यनन्तरं विस्मयस्य नावकाश इत्याशयेन मातलिर्ब्रूते—महतां = महाजनानां प्रार्थना = इच्छा अभिलाषा उत्सर्पिणो-इत् उर्ध्वं सर्पति तच्छीला उत्सर्पिणी उर्ध्वंगामिनी भवति खलु निश्चयेन । एते इतोऽपि महत्फलं कैवल्यादिकमभिलषन्तस्तपस्यन्तीतिभावः । (परिक्रम्य = मण्डलाकृतिं गत्वा आकाके = व्योम्नि ) अये = भो वृद्ध शाकल्य = तापसविशेष । इदानीं भगवान् मारीचः = पूज्यः मरीचिपुत्रः कश्यपः किमनुतिष्ठति = किं करोति ? किं ब्रवोषि=वदसि दक्षस्यापत्यं स्त्री दाक्षायणी तया दाक्षायण्या = दक्षपुत्र्या अदित्या पतिव्रताधर्मं = सतीनां कतंव्यं पुण्यमधिकृत्य विषयीकृत्य पृष्टः महर्षिपत्नीसहितायै = ऋषिभार्यायुक्तायै तस्यै = अदित्यै कथयति = वदति दक्षकन्यया सतीत्वमाहात्म्यविषयके प्रश्ने कृते महर्षीणां भार्याभिः सहितायै तस्यै उत्तरं ददाति ब्रवीति किम् ?
राजा--(कर्णं दत्वा = श्रवणमभिनय ) अये ! = भोः प्रतिपाल्यावसरः प्रतिपाल्यः= प्रतीक्ष्यः अवसरः = उचितः कालः यस्य स प्रतिपाल्यावसरः = प्रतीक्षणीयावसरः प्रस्तावः = प्रसङ्गः प्रस्तुतोऽर्थः । कथासमाप्तौ सत्यवसरे तस्य दर्शनं स्यादितिभावः ।
मातलिः—( राजानवलोक्य वदति )—अस्मिन् = एतस्मिन् अशोकवृक्षमूले = अशोकपादपतले तावत् = तावत्पर्यन्तम् आयुष्मान् = भवान् आस्ताम्=उपविशताम् यावत्= यावत्कालम् इन्द्रगुरवे = सुरपतिपित्रे कश्यपाय निवेदयितुम् = सूचयितुम् अन्तरान्वेषी अन्तरं = अवसरम्, अवकाशं वा अन्विष्यति=मृगयते इति अवसरान्वेषी भवामि=स्याम् ।
राजा—यथा भवान् मन्यते = यत् त्वं समर्थयसि, यथेच्छति भवान् तथैव स्यात् । ( इति = एवमुक्त्वा स्थितः । )
मातलि—महापुरुषों की इच्छाएँ सदा ऊँची ही ऊँची रहा करती हैं । अर्थात् इन उपलब्ध वस्तुओं से भी अधिक श्रेष्ठ ब्रह्मानन्द को प्राप्त करने के लिए ये मुनिगण यहाँ भी कठिन तपस्या कर रहे हैं । ( कुछ चलकर आकाश में स्वयं दूसरे के नाम से प्रश्नोत्तर करता हुआ ) हे वृद्ध शाकल्य ! पूज्य कश्यप जी क्या कर रहे हैं ? क्या कह रहे हो कि दाक्षायणी=दक्षकन्या अदिति ने पतिव्रताधर्म के विषय में उनसे कुछ पूछा था और वे महर्षि-पत्नियों के सहित उनसे उसके विषय में कह रहे हैं ?
राजा—( कान देकर ) अच्छा, तब तो हम लोगों को कुछ देर प्रतीक्षा करनी ही पड़ेगी । पतिव्रता धर्म का प्रसंग ही ऐसा है कि उसकी समाप्ति की प्रतीक्षा करनी ही चाहिए ।
मातलि—( राजा की ओर देखकर ) आयुष्मान् ! आप तब तक इस अशोक वृक्ष में नीचे ठहरें, जबतक मैं इन्द्र के पिता महर्षि कश्यप से आपके आने की सूचना देने का अवसर ढूँढ़ता हूँ ।
राजा—जैसी आपकी इच्छा ( खड़े हो जाते हैं )
३८० अभिज्ञानशाकुन्तलम्
मातलिः—आयुष्मन् साधयाम्यहम् । ( इति निष्क्रान्तः ) राजा—( निमित्तं सूचयित्वा )—
मनोरथाय नाशंसे किं बाहो स्पन्दसे ^१वृथा । पूर्वावधीरितं श्रेयो दुःखं हि ^२परिवर्तते ॥ १३ ॥
( नेपथ्ये ) मा खु चावलं करेहि । कहं गदो जेव अत्तणो पकिदिं । [ मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम् । ]
मातलिः—हे आयुष्मन् ! अहं साधयामि = गच्छामि ( एति = एवमुक्त्वा निष्क्रान्तः रङ्गमञ्चाद्बहिर्गतः )
राजा—( निमित्तं = शकुन सूचयित्वा = प्रकटीकृत्य ) तस्य प्रियाप्राप्तिसूचकत्वेन समुद्बुद्धप्रियार्थपरित्यागखेदो राजा सानुशयमाह—मनोरथायेति ।
अन्वयः--हे बाहो ! मुधा कि स्पन्दसे मनोरथाय न आशंसे, श्रेयः पूर्वम् अवधीरितम्, दुःखं हि परिवर्द्धते ।
कश्यपाश्रमे स्पन्दमानदक्षिणभुजो नृपतिः दुष्यन्तः तत्स्पन्दनस्य शकुन्तलोपलब्धि-सूचकत्वात् तदसंभाव्यत्वात् सानुशयमाह—मनोरथायेति । हे बाहो ! = अयि मम दक्षिणहस्त ! मुधा = व्यर्थं किं स्पन्दसे = किं स्फुरसि यतः मनोरथाय = शकुन्तला-प्राप्तिरूपाय स्वाभिलषिताय, न आशंसे = नहि आशां करोमि, शकुन्तलायाः प्राप्तये हृदि आशां न धारयामि, हि = यतः पूर्वावधीरितम्-पूर्वं = प्राक् अवधीरितं = पूर्वावधीरितम् श्रेयः = कल्याणम् सुखसाधनं प्रियादुःखं = कृच्छ्रेण परिवर्तते = निवर्तते, पुनरायाति यद्वा दुःखरूपेण परिवर्तते = परिणमति, यद्वा श्रेयो मया स्वयमेव तिरस्कृतं, सम्प्रति दुःखमात्रमेवावशिष्यते । अतः क्व सुखम् ? अहेतु केवलं दुःखमागस्मि । अर्थात् हे दक्षिणहस्त ? वृथा ते स्फुरणम् प्रियाप्राप्तिविषये सर्वथाऽहं निराशः । अत्रार्थान्तरन्यासातिशयोक्त्यलंकारौ छन्दश्चानुष्टुप् ॥ १३ ॥
बालप्रवेशमुपक्रमते ( नेपथ्ये ) उपमातृस्थानीये द्वे तापस्यौ केसरीकिशोरकं कर्षन्तं कमपि बालं निषेधयतः—मा खलु चापलं कुरु = चञ्चलतां अकृत्यं न विधेहि, आत्मनः
मातलि—आयुष्मन्, मैं जा रहा हूँ । ( निकल जाता है )
राजा—( शुभ शकुन की सूचना का अभिनय करके ) हे दक्षिण बाहु ! मैं यहाँ शकुन्तला रूप अभीष्टप्राप्ति की आशा नहीं करता हूँ । व्यर्थ क्यों फड़क रहे हो ? निश्चय ही पहले तिरस्कृत किया गया कल्याण दुःख के रूप से बदल जाता है ॥ १३ ॥
विशेष—पुरुष का दक्षिण तथा स्त्रियों का वाम भाग फड़कना शुभ होता है । पुरुष की दक्षिण भुजा का फड़कना और स्त्रियों के वामभाग का फड़कना अपने प्रियजन के समागम की सूचना देता है । वाल्मीकि रामायण में धनुर्भंग के प्रसङ्ग में लिखा हुआ है कि उस समय जानकी जी की और परशुर मजी की बाईं आँख फड़कने लगी थी, परिणाम स्वरूप सीताजी को शुभ राम की प्राप्ति हुई और परशुरामजी की अशुभ पराजय हुई है—
अस्पन्द लोचनं वामं जानकीजामदग्नयोः ।
( नेपथ्य में ) अरे बालक ! ऐसी चञ्चलता मत कर । जिस किसी के आगे भी तूँ अपनी चपल प्रकृति को दिखलाया ही करता है ।
पाठ—१. मुधा । २. परिवर्धते ।
सप्तमोऽङ्कः
३८१
राजा— (कर्णं दत्त्वा) अभूमिरियमविनयस्य। को नु खल्वेष निषिध्यते। (शब्दानुसारेणावलोक्य सविस्मयम्) अये को नु खल्वयमनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः।
अर्धपीतस्तनं मातुरामर्दक्लिष्टकेसरम्।
¹प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥ १४ ॥
स्वस्य क्षत्रियस्य बालस्य वा प्रकृतिं = स्वभावं गतः = प्राप्त एव, स्वभावचापलं कृतवानेवेति भावः।
राजा— कर्णं ददानः तच्छृण्वन् राजा स्वगतमाह—इयम् = एषा तपोवनभूमिः अविनयस्य = औद्धत्यस्य चपलतायाः अभूमिः = अस्थानम्, अत्र मारीचाश्रमे अविनयस्यावकाशो नास्तीतिभावः। दुष्यन्तः सकौतुकमाह—अये = भोः को नु = कः खलु अयम् = एषः तपस्विनीभ्यां = तापसीभ्याम् अनुबध्यमानः = अनुगम्यमानः, बालस्य = शिशोः सत्त्वं = बलमिव बलं यस्य स बालसत्त्वः न बालसत्त्वः अबालसत्त्वः अथवा अबालस्येव प्रौढस्येव सत्त्वं यस्यासौ अबालसत्त्वः युवेव महाबलः बालः=शिशुः बालकस्याबालसत्त्वमुपपादयति—
अन्वयः— प्रक्रीडितुम् आमर्दक्लिष्टकेसरम् अर्धपीतस्तनं सिंहशिशुं बलात्कारेण मातुः कर्षति।
तथाविधं बालकं विलोक्य नृपतिर्दुष्यन्तः सकौतुकमाश्चर्यसहितं च वचोऽवोचत्—अर्धपीतस्तनमिति। प्रक्रीडितुं = क्रीडां कर्तुं, मनोविनोदार्थम्, आमर्दक्लिष्टकेसरम्—आमर्देन = स्वकृताकर्षणवेगेन, मातृजिह्वया लेहनेन, उधसो हननेन वा क्लिष्टाः = विकीर्णा केशराः = गलबालाः सटाः यस्य सः तं आमर्दक्लिष्टकेसरम् अर्धपीतस्तनं = अर्धं = असमग्रं अपूर्णं यथा स्यात्तथा पीतः = पानंकृतः स्तनो येन सः तम अर्द्धपीतस्तनम्, किञ्चिदपीतस्तन्यम् सिंहशिशुं = केसरकिशोरम् बलात्कारेण प्रसह्य मातुः = जनन्याः सिंहाः सकाशात् सिंहिकोपमगणयित्वा कर्षति = अपनयति।
अयं भावः— तथाविधं शिशुभवलोक्य सकौतुकं राजर्षिर्दुष्यन्तः स्वमनसि विचारयति—कोऽयमबालसत्त्वो बालः, यः किल क्रीडया मनोविनोदमात्रमेव कर्तुं सिहीस्तनं पिबन्तं केसरकिशोरकं बलात्कारेण कर्षति। अत्रोदात्तः स्वभावोक्तिश्चालङ्कारौ अनुष्टुप् छन्दश्च॥ १४॥
राजा— (कान लगाकर) यह स्थान तो उद्दण्डता का नहीं है। तो यह कौन रोका जा रहा है? (जिधर से शब्द आया था, उधर देखकर आश्चर्यपूर्वक) दो तपस्विनियों के द्वारा अनुगमन किया जाता हुआ प्रौढोचित्त बल से सम्पन्न यह बालक कौन है? और किसका है?
जो कि सिंह बच्चे को उसकी माता सिंहनी के स्तनों को पूरा-पूरा पीने के पहले ही उसके केसर के बालों को पकड़कर खेलने के लिए जबरदस्ती हाथ से ही खींच रहा है॥ १४॥
विशेष— साधारण जीव के बच्चों को भी उसकी इच्छा के विरुद्ध खींचना कठिन है, फिर भी सिंह के बच्चे को उसकी मां की गोद से आधा ही स्तन पीने पर खींचना तो असंभव-सा प्रतीत होता है। भरत अभी अल्पवय का बालक था, किन्तु उसमें साहस कूट कूटकर भरा था। ऐसा साहसिक कर्म करता था कि साधारण बालकों में संभव न था। इसके लिए उसमें अबालसत्त्व बताया गया है।
पाठा०— १. विलम्बिनं सिंहशिशुं करेणाहत्य कर्षति।
३८२ | अभिज्ञानशाकुन्तलम्
( ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां सह बालः )
बालः—जिंभ सिंघ दंताइं दे गणइस्सं । [ जृम्भस्व सिंह दन्तांस्ते गणयिष्ये । ]
प्रथमा—अविणीद किं णो अपच्चणिव्विसेसाणि सत्ताणि विप्पअरेसि । हंत वड्ढइ दे संरंभो । ठाणे खु इसिजणेण सव्वदमणो त्ति किदणामहेओ सि । [ अविनीत किं नोऽपत्यनिर्विशेषाणि सत्त्वानि विप्रकरोषि । हन्त वर्धते तव संरंभः । स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि । ]
राजा—( आत्मगतम् ) किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः । नूनमनपत्यता मां वत्सलयति ।
( ततः = तत्पश्चात् यथानिर्दिष्टकर्मा — यथानिर्दिष्ट = निर्देशानुरूपं सिंहशावका-कर्षणरूपं कर्म = कार्यं यस्यासौ यथानिर्दिष्टकर्मा तापसीभ्यां = तपस्विनीभ्यां सह = साकं बालः = बालकः प्रविशति = रङ्गमञ्चे दृश्यते )
बालः—हे सिंह ! = हे शार्दूल ! जृम्भस्व = मुखं व्यादेहि ते = तव दन्तान् = रदान् गणयिष्ये यदा त्वया मुखं व्यादास्यते तदा मया ते दन्ताः गणयिष्यन्ते इति भावः ।
प्रथमा—अविनीत = दुःशील ! रे उच्छृङ्खल । किं = किमर्थं नः = अस्माकम्, अपत्येभ्यः = सन्तानेभ्यः निर्विशेषाणि सदृशानि पुत्रवत्पालितानि सत्त्वानि सिंह-व्याघ्रादिजीवान् विप्रकरोषि क्रोशयसि उत्पीडयसि कुपितान् करोषि । हन्त = हा तव = ते संरम्भः = धाष्टर्यं निर्बन्धः वर्द्धते = एधते । स्थाने = युक्तमेव उचितमेवास्ति यत् ऋषिजनेन = मुनिगणेन सर्वदमन सर्वान् दमयति = अभिभवतीति सर्वेषां दमनकरणा दन्वर्थनामाधेय इति = इत्थं नामधेयं = नामकृतं विहितम् असि = वर्तसे ।
राजा—स्वस्वरूपस्य पुत्रस्य दर्शनेन वात्सल्याकुलहृदयो विमृशति--किन्तु खलु = निश्चयेन अस्मिन् = पुरतोदृश्यमाने बाले शिशौ औरसे उरसो हृदयाज्जायते इत्यौरसः तस्मिन् औरसे = स्वेन उत्पादिते, आत्मजे पुत्रे = तनये इव मे = मम मनः = मानसं स्निह्यति = अनुरज्यते ! नूनं = निश्चयेन अनपत्यता = सन्तानराहित्यमेव, मां वत्सलयति = स्नेहयति, स्नेहे प्रवर्तयति । अनपत्यो हि अन्यस्य बालं विलोक्य तस्मिन् स्वबालवत् स्निह्यति । अहमनपत्योऽस्मीतं हेतोरेव सुन्दराकारेऽस्मिन् बालके मम चेतः स्नेहेन समाकृष्टं भवतीति भावः ।
( तत्पश्चात् दो तपस्विनियों के साथ शेर के बच्चे का केशर पकड़ कर जबरदस्ती खींचते हुए बालक का प्रवेश )
बालक—अरे सिंह के बच्चे ! तू अपना मुँह खोल, मैं तेरे दांतों को गिनूँगा ।
पहली तापसी--अरे अविनीत ! हमारे द्वारा पुत्रों की तरह पाले हुए जीवों को इस प्रकार कष्ट क्यों देता है ? हा हन्त तेरी धृष्टता तो प्रतिदिन बढ़ती ही जा रही है, ऋषि लोगों ने तेरा नाम सर्वदमन ठीक ही रखा है । तू किसी से भी नहीं डरता ।
राजा—( मन ही मन ) न मालूम क्यों इस बालक के प्रति मेरे हृदय में अपने औरस पुत्र की तरह स्नेह हो रहा है ? ठीक है, मेरी सन्तानहीनता ही मुझे दूसरे के बच्चों में स्नेह पैदा कर रही है ।
विशेष—यहाँ विचित्र नाटकीय स्थिति का दिग्दर्शन है । अपने औरस पुत्र को भी दूसरे
सप्तमोऽङ्कः ३८३
द्वितीया—एषा खु केसरिणी तुमं लंघेदि जइ से पुत्तअं ण मुंचेसि । [ एषा खलु केसरिणी त्वां लङ्घयिष्यति यदि तस्या पुत्रकं न मुञ्चसि ।
बालः—( सस्मितम् ) अम्हह बालअ खु भीता म्हि । [ अहो बलीयः खलु भीतोऽस्मि ] ( इत्यधरं दर्शयति । )
राजा—
महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे ।
स्फुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः ॥ १५ ॥
द्वितीया—एषा = इयं पुरोदृश्यमाना । केशरिणी = सिंधी लङ्घयिष्यति = अभिभविष्यति प्रहरिष्यति यदि = चेत् तस्याः सिंह्याः पुत्रकं = शिशुं न मुञ्चसि = न मोक्ष्यसे ।
बालः—( सस्मितं प्राह-- ) अहो, बलीयः = अत्यर्थम्, खलु = निश्चयेन भीतः = भययुक्त, अस्मि । ( इति = ततः, अधरं = अधरोष्ठं दर्शयंति, सिंहतो न मनामपि बिभेमि, नैनं मुञ्चामि तत् दृष्टाऽपीतिभावः ) ।
**अन्वयः—**महतः तेजसः बीजम् अयम् बालः स्फुलिङ्गावस्थया एधापेक्षः स्थितः वह्निः इव मे प्रतिभाति ॥ १५ ॥
आत्मानं भीषयन्तीं तपस्विनीमधरप्रदर्शनेनावहेलनां केसरिकिशोरेण क्रीडन्तं बालकं वीक्ष्य तस्य स्वाभाविकों ओजस्विता निश्चिन्वन् राजा दुष्यन्तः कथयति—महत इति । महतः = प्रबलस्य तेजसः = प्रतापस्य बीजं = निदानम् यथा बीजमङ्कुरादिक्रमेण महातरुर्भर्वति तथा महातेजा भविष्यन् अयं = पुरोवर्ती सिंहशिशुमाकर्षयन् बालः स्फुलिङ्गावस्थया स्फुलिङ्गस्य = अग्निकणस्य अवस्था = रूपं तथा स्फुलिङ्गावस्थया = अग्निकणावस्थया एधापेक्षः एधान् = इन्धनानि अपेक्षते इत्येषापेक्षः = काष्ठापेक्षः स्थितः वह्निः = अनल इव = यथा मे = मम प्रतिभाति = प्रकाशते ।
का पुत्र समझते हुए राजा दुष्यन्त यह नहीं समझ पा रहे हैं कि क्यों इस बालक के प्रति मेरा हृदय आकृष्ट हो रहा है । वे इसमें अपनी अनपत्यता को ही कारण समझते हैं । वस्तुतः सन्तानहीन व्यक्ति का हृदय सन्तान के प्रति इतना लालायित रहता है कि किसी के शिशु को देखकर उनसे परम आनन्द मिलता है । इसीलिए शास्त्रों में येन केन प्रकारेण पुत्र की प्राप्ति करना आगे की पीढी को चलाने के निमित्त आवश्यक माना गया है । यदि अपना पुत्र नहीं तो दत्तक ही सही— “अपुत्रस्य गतिर्नास्ति स्वर्गं नैव च नैव च”।
मनुस्मृति में “पुत्रान् द्वादशनाह नृणां स्वायंभुवो मनुः” के अनुसार पुत्र १२ प्रकार के वर्णित है औरस, क्षेत्रज, दत्तक, कृत्रिम आदि । उनमें अपनी विवाहित धर्मपत्नी में अपने पति के द्वारा संसर्ग के परिणामस्वरूप जो पुत्र उत्पन्न होता है, उसे औरस पुत्र कहा जाता है । औरस पुत्र की महत्ता सबसे श्रेष्ठ है । “उरसा जातः औरसः” । औरस का लक्षण इस प्रकार है—
स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम् ।
तमौरसं विजानीयात् पुत्रं प्रथमकल्पिकम् ॥ ( मनुस्मृति ९।१६६ )
**दूसरी तापसी—**देख, यदि तू इस सिंहिनी के बच्चे को नहीं छोड़ेगा तो यह सिंहनी तेरे ऊपर आक्रमण कर बैठेगी ।
बालक—( मुस्कराता हुआ व्यङ्ग्यरूप से ) अरी मैयारी मैया ! तुम्हारे कहने से तो मैं बहुत ही डर गया हूँ । ( ओठ निकालकर मुँह चिढ़ाता है । )
**राजा—**यह बालक तो मुझे किसी बड़े भारी तेजस्वी पुरुष का वीर्य–अंश ही प्रतीत होता है और जैसे स्फुलिङ्ग की दशा में स्थित अग्नि केवल काष्ठों को ही अपेक्षा करती है और इन्धन
३८४ | अभिज्ञानशाकुन्तलम्
प्रथमा--वच्छ इदं बालमिदंअं मुंच । अवरं दे कीलणअं दाइस्सं । [ वत्स एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामि । ]
बालः--कंहि । देहि णं । [ कुत्र । देहि तत् । ] ( इति हस्तं प्रसारयति । )
राजा--( बालस्य हस्तमवलोक्य ) कथं चक्रवर्तिलक्षणमप्यनेन धार्यते । तथा ह्यस्य--
प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः ।
अलक्ष्यपत्रान्तरमिद्धरागया नवोषसा भिन्नमिवैकपङ्कजम् ॥ १६ ॥
अयं भावः--अणुरप्यग्नेः स्फुलिङ्गः काष्ठसंयोगाद् यथा प्रवृद्धो महते तेजसे सम्पद्यते तथैवायं बालः अनल्पस्य महापुरुषतेजसो बीजमिव समयापेक्षो वर्द्धिष्णुर्विभाव्यते अत्रोपमानुप्रासौ अलङ्कारौ छन्दश्चानुष्टुप् ॥ १५ ॥
प्रथमा--वत्सः = पुत्रः ! एनं = इमं बालमृगेन्द्रं सिंहशिशुं मुञ्च तदाकर्षणं परित्यज अपरं अन्यत् ते = तुभ्यं, क्रीडनकम् = क्रीडासाधनं दास्यामि = वितरामि ।
बालः--कुत्रः = क्व, देहि = वितर तत् क्रीडनकम् ( इति = एवमुक्त्वा क्रीडन-कादानार्थं हस्तं = प्रसारयति )
राजा--शिशोः प्रसारिते करे राजचिह्नानि पश्यन् राजा साश्चर्यं कथयति--अनेन = अमुना बालकेन चक्रवर्तिलक्षणम् चक्रे = राजमण्डले वर्तते यः स चक्रवर्ती तस्य लक्षणं = चिह्नम् इति चक्रवर्तिलक्ष्म = सामुद्रिकोक्तं साम्राज्यचिह्नं ध्वजचापाङ्कुशशशाङ्कं च धार्यते तथाहि पश्य बालस्य ।
अन्वयः--प्रलोभ्यवस्तु प्रणयप्रसारितः जालग्रथिताङ्गुलिः अस्य करः इद्धरागया नवोषसा भिन्नम् अलक्ष्यपत्रान्तरम् एकपङ्कजमिव विभाति ।
क्रीडनकायाचनाय तपस्विन्याः समक्षे पाणिं प्रसारयतो बालकस्य हस्ते लौहित्यातिशयं विलोक्य चक्रवर्तिलक्षणं निर्धारयन् राजा वदति--प्रलोभ्येति । वस्तुतः प्रणयेन = अभिलाषेण प्रकर्षेण लोभ्यं प्रलोभ्यं, प्रलोभ्यं च तद्वस्तु प्रलोभ्यवस्तु तस्मिन् प्रणयेन प्रसारितः प्रलोभ्यवस्तुप्रणयप्रसारितः = लोभनीयक्रीडनकयाञ्चाप्रसारितः, जलवद्
मिलते ही वह स्फुलिङ्ग बढ़कर अतिप्रचण्डरूप हो जाता है, वैसे ही यह बालक समय पाकर बड़ा भारी तेजस्वी, प्रतापी तथा वीर हो जायेगा, ऐसा मुझे मालूम पड़ता है ॥ १५ ॥
विशेष--जैसे आग की चिनगारी इन्धन की अपेक्षा रखती है। इसके मिलते ही वह महान लपटों को फेंकती हुई असह्य हो जाती है। ठीक इसी प्रकार तेज का बीजभूत यह बालक भी भविष्य में यौवन सहारा पाकर अत्यन्त प्रतापी होगा।
पहली तापसी--बेटा, इस सिंहशावक को छोड़ दो तुम्हें दूसरा खिलौना दूँगी।
बालक--कहाँ है दो वह मुझे। ( ऐसा कहकर हाथ पसारता है )
राजा--( बालक के हाथ को देखकर ) क्या यह चक्रवर्ती राजा के लक्षण को धारण करता है ? जैसे कि इसका--
ललचाने वाली वस्तु के लिए प्रेम के कारण फैलाया गया, जाल की तरह गूँथी अँगुलियों से युक्त इसका हाथ समृद्ध लालिमा से सम्पन्न नवगत उषा के द्वारा विकसित किये गये जिसकी पंखुड़ियों का मध्यभाग दिखाई नहीं पड़ता अपूर्व कमल की भाँति प्रतीत होता है ॥ १६ ॥
विशेष--यहाँ हाथ की उपमा कमल से दी गई है। अंगुलियों के बीच के भागों में छिद्र नहीं
सप्तमोऽङ्कः । १८५
द्वितीय— सुव्वदे! ण एक्को एसो वाआमेत्तेण विरम्यिदुं। गच्छ तुमं। ममकेरए उडए मकंडेअस्स इसिकुमारअस्स वण्णचित्तिदो मत्तिआमोरओ चिट्ठदि। तं से उवहर। [ सुव्रते ! न शक्य एष वाचामात्रेण विरमयितुम्। गच्छ त्वम् मदीये उटजे मार्कण्डेयस्यर्षिकुमारस्य वर्णचित्रितो मृत्तिकामयूरस्तिष्ठति। तमस्योपहर। ]
प्रथमा— तह। [ तथा। ] ( इति निष्क्रान्ता )
ग्रथिता अङ्गुलयो यस्यासौ जालग्रथिताङ्गुलिः = जालवत्संश्लिष्टाङ्गुलिः जालेषु = छिद्रेषु ग्रथिता अङ्गुलयो यस्येति विग्रहे अन्तरालसंश्लिष्टाङ्गुलिः उक्तं च सामुद्रिके—
अतिरिक्तः करो यस्य ग्रथिताङ्गुलिको मृदुः ।
चापाङ्कुशाङ्कितः सोऽपि चक्रवर्ती भवेद् ध्रुवम् ॥
अस्य बालकस्य करः = हस्तः, पाणिः इद्धरागया इद्धः = समृद्धः रागः = लोहित्यं यस्या सा तया इद्धरागया, समृद्धलौहित्यया नवोषसा नवया = अचिरप्रदतथा उषसा = प्रभातेन भिन्नं = स्फुटितं, अलक्ष्यपत्रान्तरं = अलक्ष्याणि पत्राणामन्तराणि यस्य स अलक्ष्यपत्रान्तरम् = अप्रकटितपत्रसन्धिः, एकपङ्कजम् एकं च तत् पङ्कजमित्येकपङ्कजं = श्रेष्ठकमलम् विभाति = शोभते, रक्ततलोऽस्य बालस्येत्यर्थः। मिलिताङ्गुलिः पाणिः मृदुलतरं कमलमिव भासते।
अयं भावः— अक्रीडनकं याचितुं तापस्या अग्रे करं प्रसारयतोऽस्य शिशोः उषःप्रारम्भे प्रस्फुटितं मृदुलतरं श्रेष्ठं कमलमिव शोभते। तस्मादनेन चक्रवर्तिना राजकुमारेण भाव्यमितिभावः। अत्रोपमाकाव्यलिङ्गाषलङ्कारौ वंशस्थं वृत्तञ्च ॥ १६ ॥
द्वितीया— सुव्रते ! वाचामात्रेण = केवलेन वचसा कथनमात्रेण एषः = बालः विरमयितुं = निवर्तयितुं निरोद्धुं न शक्यः। यावदस्य हस्ते क्रीडनकं न दीयते तावन्नासौ संरम्भाद्विरमिष्यतीतिभावः। गच्छ = व्रज, त्वम् मदीये = मम उटजे = पर्णशालायां मार्कण्डेयस्य = मार्कण्डेयनाम्नः ऋषिकुमारस्य = ऋषिपुत्रस्य वर्णैः = रक्तपीतनीलादिनानावर्णै चित्रितः = निवेशसुन्दर। मृत्तिकायाः मयूरः = बर्हिः तिष्ठति = वर्तते, तं = मृत्तिकामयूरं अस्य = सर्वदमनस्य उपहर = उपकल्पय। अनीयस्मै देहीतिभावः।
प्रथमा— तथा = आम्, आनयामि, ( इति = एवमुक्त्वा निष्क्रान्ता। = निर्गता ) ।
है, जैसे प्रातःकाल में खिले हुए कमल की पंखुड़ियों के बीच में छिद्र नहीं होते। अँगुलियों के बीच में छिद्र न होना सौभाग्य का सूचक माना गया है। सामुद्रिक शास्त्रों में इसे चक्रवर्ती राजा का चिह्न बताया गया है—
अतिरिक्तः करो यस्य ग्रथिताङ्गुलिको मृदुः ।
चापाङ्कुशाङ्कितः सोऽपि चक्रवर्ती भवेद् ध्रुवम् ॥
दूसरी तापसी— सुव्रते ! इसे छोड़। कहने मात्र से यह बालक मानने वाला नहीं है, अतः जो मेरी कुटी में ऋषिकुमार मार्कण्डेय का मिट्टी का बना हुआ रंगीन मोर रखा हुआ है। वही लाकर इसको दे दो।
पहली तापसी— अच्छा, लाती हूँ ( यह कहकर चली जाती है )
२५ शाकु०
३८६ | अभिज्ञानशाकुन्तलम्
बालः—इमिणा एव्व दाव कोलिस्सं। [ अनेनैव तावत्क्रीडिष्यामि । ] ( इति तापसीं विलोक्य हसति )
राजा—स्पृहयामि खलु दुर्ललितायास्मै—
आलक्ष्यदन्तमुकुलाननिमित्तहासै- रव्यक्तवर्णरमणीयवचःप्रवृत्तीन् । अङ्काश्रयप्रणयिनस्तनयान् वहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥ १७ ॥
बालः—अनेनैव सिंहशिशुनैव तावत् = यावन्मृगमयूरो नानीयते तावत्पर्यन्तं क्रीडिष्यामि ( इति = इदमुक्त्वा तापसीं = तपस्विनीम् विलोक्य = दृष्ट्वा हसति=विहसति ) ।
तथाविधं दृष्ट्वा राजा स्वगतं वदति—खलु = निश्चयेन दुर्ललिताय = दुर्दान्ताय, धृष्टाय अस्मै = बालकाय स्पृहयामि = वाञ्छामि, एनमालोक्य नितरां प्रसीदामि । धृष्टेऽस्मिन् बालके बाढमाकृष्टं मे चेत इति भावः ।
अन्वयः—धन्याः अनिमित्तहासैः आलक्ष्यदन्तमुकुलान् अव्यक्तवर्णरमणीयवचःप्रवृत्तीन् अङ्काश्रयप्रणयिनः तनयान् वहन्तः तदङ्गरजसा मलिनीभवन्ति ॥ १७ ॥
तथाविधं बालकमवलोक्य समुद्बुद्धानपत्यताखेदो राजा दुष्यन्तः स्वगतमेवानुशोचति—आलक्ष्येति । धन्याः=सुकृतिनो जनाः अनिमित्तहासैः = निष्कारणप्रहासैः, निरभिसन्धिभिः हासैः आलक्ष्य दन्तमुकुलान् आ = ईषल्लक्ष्यं आलक्ष्यं ईषददृशाः दन्तमुकुलाः = दन्ताः मुकुलानीवेति दन्तमुकुला दशनाङ्कुरा अभिनवोद्गता दन्ता येषां ते तान्—आलक्ष्यदन्तमुकुलान् = ईषद्विकसितदन्तमुकुलान्, अव्यक्ताः = अपरिस्फुटाः वर्णाः = अक्षराणि यासु ता अव्यक्तवर्णा अत एव रमणीया = श्राव्या वचसां प्रवृत्तिः=वाक्यप्रसारः वाक्योच्चारणं येषां ते तान् अव्यक्तवर्णरमणीयवचःप्रवृत्तीन् । अङ्काश्रयप्रणयिनः—अङ्के=उत्सङ्गे यः आश्रयः = स्थितिः तत्र प्रणयः = वाञ्छा अस्ति येषां ते तान् अङ्काश्रयप्रणयिनः तनयान् = औरसान् पुत्रान् वहन्तः = क्रोडे कुर्वन्तः तदङ्गरजसा = तदङ्गपङ्करागेण मलिनी भवन्ति = धूलिधूसरा जायन्ते ।
अर्थात् ये खलु सुकृतिनः त एवेदृशान् तनयान् कोडे कुर्वन्तः तदङ्गमृण्मलिना भवन्ति। अत एव ते धन्याः, अहन्तु अधन्य एवास्मि नेदृशं मे मागधेयमितिभावः । अत्रस्वभावोक्तिरप्रस्तुतप्रशंसा चालङ्कारौ वसन्ततिलकावृत्तञ्च ॥ १७ ॥
बालक—इस सिंह के बच्चे से ही तबतक खेलूँगा। (यह कहकर तापसी को देख हँसता है।)
राजा—इस हठीले बालक को देखकर प्यार करने के लिए मेरा मन ललच रहा है।
बिना कारण हँसने से जिसके दांतों की पंक्तियाँ कुछ-कुछ विकसित-सी दिखाई पड़ रही हैं। तोतली बोली से जिनका बोलना मनोहर लगता है, और जो गोद में बैठने के लिए ललच रहे हैं, ऐसे अपने पुत्रों को गोद में बैठाकर उनकी धूलि से कोई भाग्यशाली एवं पुण्यात्मा लोग ही मलिन एवं धूलिधूसरित होते हैं। अर्थात् मिट्टी में खेलते हुए बालक भाग्यवान् पुरुषों की ही गोद में आकर बैठते हैं और उनको भी धूलिधूसरित करते रहते हैं ॥ १७ ॥
३८९ ३८
सप्तमोऽङ्कः
तापसी—होदु । ण मं अअं गणेदि । ( पार्श्वमवलोकयति ) को एत्थ इसि-कुमाराणं ? ( राजानमवलोक्य ) भद्दमुह एहि दाव । मोए हि इमिणा दुम्मोअहत्थ-गहेण डिंभलीलाए बाहीअमाणं बालमिइदं । [ भवतु । न मामयं गणयति । कोऽत्र ऋषिकुमाराणाम् । भद्रमुख, एहि तावत् मोचयानेन दुर्मोकहस्तग्रहेण डिम्भलीलया बाध्यमानं बालमृगेन्द्रम् । ]
राजा—( उपगम्य सस्मितम् ) अयि भो महर्षिपुत्र ।
एवमाश्रमविरुद्धवृत्तिना ^१संयमः किमिति जन्मतस्त्वया ।
सत्त्वसंश्रयसुखोऽपि दूष्यते कृष्णसर्पशिशुनेव ^२चन्दनम् ॥ १८ ॥
तापसी—भवतु = अस्तु तावत् अलं न माभू अयं बालः गणयति = किमपि मद्वचनं न शृणोति, नायं सिंहशिशुं मुञ्चति मामनादृत्य केसरिकिशोरेण क्रीडां करोति । बालकं स्वयं वारयितुमशक्ता पार्श्वमालोक्य मुनिकुमारानाह्वयति—मुनिपुत्राणां = ऋषिकुमाराणां मध्ये कोऽत्र = समीपेऽस्माकं तिष्ठति स सिंहशावकमोचनाय सर्वदमनवारणार्थं चायातु । भद्रमुख ! सौम्य ! 'सौम्य भद्रमुखेत्येवं वाच्यो राजसुतौ भवेत्' इत्यभियुक्तोक्तेः । दुर्मोक-हस्तग्रहेण दुर्मोकः = मोचयितुमशक्यः हस्तेन ग्रहः = ग्रहणं मुष्टिः यस्य स तेन दुर्मोकहस्त-ग्रहेण दृढतरमुष्टिबद्धशालिना अनेन बालकेन डिम्भलीलया = बालसुलभक्रीडया बाध्य-मानं = पीड्यमानं बालमृगेन्द्रं = सिंहशिशुं मोचय तावदित्यर्थः ।
राजा—( उपगम्य सस्मितं— ) अयि = भोः महर्षिपुत्र = मुनिकुमार ।
अन्वयः—एवम् आश्रमविरुद्धवृत्तिना त्वया जन्मतः सत्त्वसंश्रयसुखोऽपि संयमः कृष्णसर्पशिशुना चन्दनं इव किमिति दूष्यते ॥ १८ ॥
तपस्विन्या बालककरात् केसरिकिशोरकं मोचयितुं अभ्यर्थितो राजा दुष्यन्तः शिशोः समीपं गत्वा सस्मितं ब्रूते—एवमिति । एवं = अनेन प्रकारेण सिंहं शिशुपीडनादिना आश्रमविरुद्धवृत्तिना—आश्रमस्य = तपोवनस्य विरुद्धा = प्रतिकुला वृत्तिः = व्यापारो
तापसी—अच्छा यह मुझको कुछ भी नहीं समझ रहा है ( अगल बगल देखकर ) यहाँ कौन ऋषिकुमार है ! ( राजा को देखकर ) भले मानुष ! जरा आप ही इधर आ जाइए । बाल-क्रीडा के द्वारा परेशान किये जाते हुए इस सिंह शावक को इस बालक के हाथों से छुड़ा दीजिए, मुझसे यह नहीं छुड़ाया जा सकता है, क्योंकि इसने बच्चे को जोर से पकड़ रखा है ।
राजा—( पास में जाकर मुस्करा कर ) हे महर्षिपुत्र !
इस आश्रम के विपरीत आचरण से तुम्हारे द्वारा जन्मकाल से ही, जीवों का आश्रय देने के कारण सुखप्रद संयम-प्रधान आश्रम को काले सांप के बच्चे द्वारा चन्दन वृक्ष की तरह क्यों दूषित किया जा रहा है ? अर्थात् जैसे काले नाग का छोटा बच्चा भी जन्म से ही चन्दन-वृक्ष को दूषित कर देता है, वैसे ही तू भी अपने जन्म से ही इस तपोवन के विरुद्ध वृत्ति धारण कर प्राणिमात्र को अभय देने वाली प्रशंसनीय शान्ति को क्यों दूषित कर रहा है ? ॥ १८ ॥
विशेष—यहां जन्मतः का अर्थ बचपन है । शेर के बच्चे को कष्ट देना हिंसा है, जो आश्रम के संयम = अहिंसा आदि के विरुद्ध है । संयम और चन्दन की तुलना है । शीतलता के कारण प्राणी चन्दन के आश्रम से सुख पाता है. पर सर्प उससे लिपटकर प्राणियों को काट लेता है ।
पाठा०—१. संयमी । २. चन्दनः ।
| ३८८ | अभिज्ञानशाकुन्तलम् |
|---|
तापसी—भद्दमुह ण खु अअं इसिकुमारओ। [ भद्रमुख न खल्वयं ऋषिकुमारः । ]
राजा—आकारसदृशं चेष्टितमेवास्य कथयति । स्थानप्रत्ययात्तु वयमेवं तर्किणः । ( यथाभ्यर्थितमनुतिष्ठन् बालस्पर्शमुपलभ्य आत्मगतम् )—
यस्य स तादृशेन आश्रमविपरीताचारेण त्वया = बालेन जन्मतः = जन्मन् आरभ्य सत्त्व-संश्रयसुखोऽपि सुखयतीतिसुखः, सत्त्वानां संश्रयेण सुखः सत्त्वसंश्रयसुखः यद्वा सत्त्वस्य संश्रयः सत्त्वसंश्रयः सत्त्वसंश्रयश्चासौ सुखश्चेति सत्त्वसंश्रयसुखः = सकलजीवाभयदान-स्पृहणीयः, संयमः = अहिंसादिनियमः आत्मदमनम्, कृष्णसर्पशिशुना—कृष्णसर्पस्य शिशुना = शावकेन उद्दीप्तगरलजातीयकृष्णसर्पबालकेन चन्दनमिव तदाख्यो गन्धवृक्ष-मिव किमिति = कुतो नु कथं, दूष्यते = कलुषी क्रियते ।
अयं भावः—अयि, भोः ऋषिकुमार ! आश्रमवासिजनस्वभावविपरीतं सत्त्वपीडनं बाल्यादेव त्वयि कथमाविर्भूतम् ? नहि ऋषिकुमाराणामेवंविधा वृत्तिरुचितेति सर्पशिशुना चन्दनमिव त्वया तपोवनमिदं दूष्यते । तस्मान्नेदमुचितं ब्राह्मणशिशोस्तव, मुञ्चैनं केसरि-किशोरकमिति । अत्रोपमानुप्रासावलङ्कारौ स्वागता वृत्तञ्च ॥ १८ ॥
तापसी:—भद्रमुख ! भद्रं = शोभनं मुखं = वदनं यस्यासौ तत्सम्बुद्धौ हे भद्रमुख । न खलु = निश्चयेन अयं = एष बालः ऋषिकुमारः = मुनेर्बालकः तस्मान्न ब्राह्मणबालक इत्यर्थः ।
राजा--अस्य = बालकस्य आकारस्य = आकृते सदृशं = तुल्यम् अनुरूपं चेष्टितं = कर्मैव कथयति = सूचयति प्रत्याययति । आकारव्यापाराभ्यां नायमृषिकुमार इत्यवगम्यते स्थानप्रत्ययात्तु —स्थानस्य = प्रदेशविशेषस्य, प्रत्ययात् = ऋषिकुमारजुष्टमिदं स्थानं अत्र तिष्ठता बालकेन तत्कुमारेणैव भवितव्यमिति विश्वासात् तु वयं = अहम्, एवं तर्किणः = तथानुमानकारकाः ऋषिकुमारोऽयं स्यादिति तर्कितवन्तो वयमितिभावः ।
( यथाभ्यर्थितं —अभ्यर्थितमनतिक्रम्य यथाभ्यर्थितं = तापसी प्रार्थितं सिंहशिशुमोच-नम् अनुतिष्ठन् = कुर्वन् तापसीप्रार्थनया बालं शिशुं मोचयन् बालस्य = शिशोः स्पर्शसुखमु-पलभ्य = प्राप्य आत्मगतं = स्वगतम् ।)
‘न वाससां न रामाणां नापां स्पर्शस्तथाविधः ।’ इतिमहाभारतोक्त्या बालस्पर्शेन कमप्यनिर्वचनीयं मोदमनुभवन् राजा आत्मगतं विमृशति--अनेनेति ।
तापसी—हे भद्रमुख ! यह ऋषिकुमार नहीं है ।
राजा—स्वरूप के सदृश इसका यह व्यवहार ही बता रहा है कि यह ऋषिकुमार नहीं है, किन्तु यहाँ केवल ऋषियों के आश्रम होने के कारण ही मैंने इस बालक को ऋषिकुमार समझा था ( तपस्वी की प्रार्थना के अनुसार बालक के हाथों से सिंहशावक को छुड़ाता हुआ उस बालक के स्पर्श-सुख का अनुभव कर मन ही मन ) ।
विशेष—जैसा स्थान होता है, उसी के अनुसार विश्वास होता है । आश्रम में किसी के रहने से यह विश्वास हो जाता है कि यह ऋषि या ऋषिकुमार है, यह आश्रम है अथवा यह ऋषियों का निवास स्थान है । अतः वह भी ऋषिपुत्र ही होगा । इसी विश्वास से मैंने इसे ऋषिकुमार कहा है ।
सप्तमोऽङ्कः ३८९
अनेन कस्यापि कुलाङ्कुरेण १स्पृष्टस्य गात्रेषु सुखं ममैवम् ।
कां निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमङ्गात्कृतिनः २प्ररूढः ॥ १९ ॥
तापसी—( उभौ निर्वर्ण्य ) अच्छरिअं अच्छरिअं । [ आश्चर्यमाश्चर्यम् । ]
राजा— आर्ये किमिव ।
तापसी— इमस्स वालअस्स दे वि संवादिणी अकिदी त्ति विम्हाविदम्हि । अपरिइदस्स वि दे अप्पडिलोभो संवुत्तो त्ति । [ अस्य बालकस्य तेऽपि संवादिन्याकृतिरिति विस्मापितास्मि । अपरिचितस्यापि तेऽप्रतिलोमः संवृत्त इति । ]
अन्वयः— कस्यापि कुलाङ्कुरेण अनेन स्पृष्टस्य मम गात्रेषु एवम् सुखम् । यस्य कृतिनः अङ्गात् प्ररूढः तस्य चेतसि कां निर्वृत्तिं कुर्यात् ॥ १९ ॥
तापसीप्रार्थनया केसरिकिशोरं मोचयन् शिशुस्पर्शं चानुभवन् राजा दुष्यन्तो ब्रवीति— अनेनेति । कस्यापि अज्ञातस्य पुंसः कुलाङ्कुरेण कुलस्य = वंशस्य अङ्कुरेण = प्ररोहेण कुलदीपकेन अनेन = एतेन बालकेन गात्रेषु = शरीरावयवेषु, सर्वस्मिन् शरीरे वा 'गात्रमङ्गे कलेवरे' इति विश्वः । स्पृष्टस्य = कृतस्पर्शस्य मम = दुष्यन्तस्य एवं = अनुभवैकगम्यम्, वाचा वर्णयितुमशक्यं वर्णनातीतं सुखं = आह्लादः भवति । अयं = एषः बालः कृतिनः = कृतकृत्यस्य भाग्यवतः यस्य पुरुषस्य अङ्गात् = देहात्, प्ररूढः = उत्पन्न वृद्धि प्राप्तः वर्द्धितः तस्य पुंसः चेतसि = हृदये, मनसि कां निर्वृति = किं प्रभूतं सुखं कुर्यात् = विदध्यात् इति न ज्ञायते ।
अर्थ भावः— कुलादिसम्बन्धं विनापि क्षणमात्रपरिचितोऽयं बालकः शरीरसम्पर्कमात्रादपि यदि मामेवं सुखयति तर्हि यस्याङ्के चिरात् प्रवर्द्धितः तस्य कीदृशं सुखं विदध्यादिति न शक्यते वर्णयितुम् । सर्वथा धन्याः खलु पुत्रवन्तः प्राणिनः । अत्रार्थापत्ति-रूपकालङ्कारौ वृत्तञ्चोपजातिः ॥ १९ ॥
तापसी— राजानं बालकं चेत्युभौ निर्वर्ण्य वदति—आश्चर्यम्, आश्चर्यम् = विस्मयः, विस्मयः ।
राजा— आर्ये किमिव ? = किमाश्चर्यं संजातम् ?
तापसी— अस्य = अमुष्य, बालस्य = शिशोः ते = तवापि संवादिनी = सदृशी
किसी भी अन्य कुल के अङ्कुरस्वरूप इस बालक के स्पर्श से जब मुझे ऐसा सुख मिलता है, तो जिसका यह पुत्र है और जिसने इसको पाला-पोसा है उसके हृदय में इसका स्पर्श कैसा सुख देता होगा ॥ १९ ॥
विशेष— राजा दुष्यन्त सन्तानहीन है । अतः वंश लुप्त हो जाने के कारण वह अपने को अभागा समझता है । अतः उसकी दृष्टि में वे लोग परम सौभाग्यशाली हैं, जिनकी गोद में धूलधूसरित बालक खेला करते हैं ।
तापसी— (दोनों को देखकर) आश्चर्य की बात है ? ओह, यह तो बड़े आश्चर्य की बात है ।
राजा— आदरणीया, वह क्या बात है, जिससे आपको आश्चर्य हो रहा है ?
तापसी— इस बाल का और आपका आकार बिल्कुल मिलता जुलता है । इसलिए मैं आश्चर्य-चकित हो रही हूँ । और भी यह अत्यन्त हठी होने पर भी आपके अनुकूल चुपचाप शान्त हो गया । यह भी कम आश्चर्य की बात नहीं ।
पाठा०— १. स्पृष्टेषु । २. प्रसूतः ।
३९० अभिज्ञानशाकुन्तलम्
राजा—(बालकमुपलालयन्)—न चेन्मुनिकुमारोऽयम् अथ कोऽस्य व्यपदेशः। तापसी—पुरुवंसो। [ पुरुवंशः। ] राजा—(आत्मगतम्) कथमेकान्वयो मम। अतः खलु मदनुकारिणमेनम्-भवती मन्यते। अस्त्येतत्पौरवाणामन्त्यं कुलव्रतम्।
भवनेषु १रसाधिकेषुपूर्वं क्षितिरक्षार्थमुशन्ति ये निवासम्। २नियतैकपतिव्रतानि पश्चात्तन्मूलानि गृहीभवन्ति तेषाम्॥ २०॥
आकृतिः = आकारः, अपरिचितस्य = अदृष्टपूर्वस्यात् अपि ते अप्रतिलोमः = अविरुद्धः अनुकूलः संवृत्तः = जातः इति = हेतोः विस्मापिता = आश्चर्य पतिताऽस्मि।
अथ राजा बालकमुपलालयन् इच्छानुरूपं प्रवर्तमानं बालं प्रेरयन् तापसीं पृच्छति-हे आर्ये ! न चेत् यदि अयं = एषः न मुनिकुमारः = ऋषिपुत्रः अथ = तदा कः अस्य = बालकस्य व्यपदेशः ? = वंशः ? यद्यसौ न मुनिकुमारः तर्हि किं कुलमस्य ?
तापसी—पुरुवंशः = पुरुवंशोत्पन्नोऽयम्।
राजा--कथं = किम् मम = दुष्यन्तस्य एकान्वयः एकः = समानः अन्वयः = वंशो यस्य स एकान्वयः = समानवंश ममापि पुरुवंशोद्भूतत्वेन पौरवत्वात् अतः = अनेन कारणेन खलु = निश्चयेन मामनुकरोतीति मदनुकारी तं मदनुकारिणं, एनं बालकं अत्र-भवती = पूज्या तापसी मन्यते = संभावयति (किन्तु) पौरवाणां = पुरुवंशोत्पन्नानां राज्ञां एतत् अन्ते भवमन्त्यं = वानप्रस्थाश्रमकालपालनीयम् कुलस्य व्रतं कुलव्रतं = कुलाचारः, वंशपरम्पराप्राप्तो नियमः। क्षत्रियाणां वानप्रस्थाश्रम एवान्त्याश्रमः, तेषां सन्यासानधिकारात्। तथा च स्मृतिः--
मुखजानामयं धर्मः यद्विष्णोलिङ्गधारणम्। बाहुजातोरुजातानामयं धर्मो न विद्यते ॥
अन्वयः-- पूर्वं ये क्षितिरक्षार्थं रसाधिकेषु भवनेषु निवासमुशन्ति पश्चात्तेषां नियतैक-यतिव्रतानि तन्मूलानि गृहीभवन्ति।
पुरुवंश समुद्भूवोऽयं बाल इति तपस्विन्या उत्तरं श्रुत्वा आश्रमसद्भावसंगति
राजा—(उस बालक का लाड़ प्यार करता हुआ) यदि वह मुनिकुमार नहीं है तो, इसका वंश क्या है? **तापसी--**यह पौरववंश का क्षत्रिय कुमार है। राजा—(अपने आप) क्या मेरा सगोत्र (एक वंशवाला) है। यही कारण है कि पूज्या तपस्विनी इसे मेरे समान आकार वाला मान रही है। पुरवंशियों का यह अन्तिम कुलव्रत भी है कि—
जो पहले युवावस्था में पृथ्वी का पालन करने के लिए भोगों में परिपूर्ण भव्य भवनों के निवास की इच्छा रखते हैं, वे ही पीछे वृद्धावस्था में नियमित रूप से यतिव्रत धारण कर वानप्रस्थ का जीवन बिताते हुए वृक्षों के नीचे अपना घर बनाकर निवास करते हैं ॥२०॥
विशेष—आदिकाल से ही भारतीय संस्कृति का यह उदात्त सिद्धान्त था कि युवावस्था में राजा लोग प्रजारञ्जन करते हुए अपने शासन द्वारा पृथ्वी का धर्मपूर्वक पालन करते थे। वृद्धावस्था में अपने योग्य उत्तराधिकारी पुत्र को राज्य पर अभिषिक्त करके विषयसुख से विमुख होकर
पाठा०—१. सुधासितेषु। २. विहृतैकयतिव्रतानि।
सप्तमोऽङ्कः
३९१
( प्रकाशम् ) न पुनरात्मगत्या मानुषाणामेष विषयः ।
तापसी—जह भद्दमुहो भणादि अच्छरासंबंधेण इमस्स जणणी एत्थ देवगुरुणो तवोवणे प्पसूदा । [ यथा भद्रमुखो भणत्यप्सरःसंबन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता । ]
वितर्कयन् दुष्यन्तो ब्रूते--भुवनेष्विति । पूर्वं वार्धकादर्वाचीने यौवने वयसि ये पुरुवंशोद्भूवा राजनः क्षितिरक्षार्थं = पृथ्वीपालनार्थं, नत्विन्द्रियसुखार्थम् रसाधिकेषु रसः= रागः शृङ्गारादिः मधुरादिः आस्वादश्चैते अधिकाः पर्याप्ताः येषु यद्वा एतैरधिकानि उत्तमानि तेषु रसाधिकेषु अथवा रसैः = भोगैः अधिकेषु आढ्येषु भवनेषु = गृहेषु प्रासादेषु च निवासं = स्थितिम्, उशन्ति = वाञ्छन्ति । पश्चात् = अन्ते वयसि, वार्द्धक्ये तेषां = पुरुवंशीयानां राज्ञां नियतैकव्रतानि नियतं = नियमयुक्तं व्यवस्थितम् एकं पावनं यतिव्रतं = वानप्रस्थव्रतं येषु तानि नियतैकयतिव्रतानि, तरुमूलानि, वृक्षतलानि । नियतैकपतिव्रतानीति पाठे तु नियता=नियमयुक्ता तपःसन्तोषादियुक्ता एका = केवला पतिव्रता = धर्मपत्नी येषु तानि नियतैकपतिव्रतानि = निरन्तरतपस्विव्रतानुष्ठानोचितानि अथवा नियता नियमचारिणी, पुत्रादिरहिता एका पतिव्रता सहचरी येषु तानि नियतैकव्रतानि तरुमूलानि = वृक्षतलानि अगृहाणि गृहाणि भवन्तीति गृहीभवन्ति = निवासाय सम्पद्यन्ते ।
**अयं भावः—**धर्मशीलाः पौरवाः धर्मरक्षार्थमेव यौवने भव्येषु राजप्रासादेषु निवसन्ति । वार्द्धक्ये तु मुनिव्रतं ग्रहीतुकामाः सुयोग्ये तनये राज्यरक्षणभारं विन्यस्य एकया पतिव्रतया प्रधानभार्यया साकं वानप्रस्थाश्रमे तपोवने निवसन्ति । तेषामेवान्यतमस्य कस्यापि राजर्षेरयं बालकः सम्भवतीति तपोवनेऽपि पुरुवंशोद्भवस्यास्य निवासो युक्त एव प्रतिभाति । अत्र रूपकानुप्रासावलङ्कारौ मालभारिणी वृत्तञ्च ॥ २० ॥
अस्त्वेतत् पौरवाणा कुलव्रतं ( प्रकाशम् ) तथापि एषः = हेमकूटः न पुनः आत्मगत्या = स्वस्यस्वरूपेण मानवगत्या मानुषाणां = मनुष्याणाम् एव विषयः = गोचरः । अयं हेमकूटो मनुष्याणामभूमिः कथमयं मानुषो बालः अत्रागत इति तावत् पृच्छामीतिभावः ।
तापसी—भद्रमुखः = सौम्यः यथा भणति = वदति तथैव = भवदुक्तं सत्यमेव मनुष्या अत्रागन्तुमशका अप्सरःसम्बन्धेन = अप्सरोभिः देवाङ्गनाभिः सम्बन्धस्तेन अप्सरःसम्बन्धेन देवाङ्गनासम्बन्धेन अस्य बालकस्य जननी = जनयित्री माता इह देवगुरोः = देवतानां गुरोः पितुः महर्षेः कश्यपस्य तपोवने = आश्रमे मारीचाश्रमे प्रसूता = एनं बालं प्रसुषुवे ।
अपनी अर्द्धाङ्गिनी = धर्मपत्नी के साथ जंगल में जाकर पतिव्रत लेकर वृक्षों के नीचे तपस्या करते हुए अपने जीवन को चरितार्थ करते थे। यहाँ यतिव्रत का तात्पर्य वानप्रस्थ है। वानप्रस्थावस्था में पत्नी नियमयुक्त रहती है। अतः यहाँ पुत्रजन्म की संभावना नहीं। वह आश्रम कश्यप और अदिति आदि देवजाति का है। यहाँ मनुष्य पुरुवंशी बालक का होना असंभव है।
( प्रकट में ) यह स्थान मनुष्य के लिए अपनी स्वाभाविक गति का विषय नहीं है। अर्थात् मनुष्य अपनी शक्ति से यहाँ नहीं पहुँच सकता। इस बालक के माता-पिता मनुष्य होकर यहाँ कैसे पहुँच गये?
**तापसी—**हाँ, भलेमानुष ! आप ठीक कह रहे हैं? अप्सरा मेनका से सम्बन्ध होने के कारण इसकी मां ने यहाँ देवपिता कश्यप के आश्रम में इसको पैदा किया है।
३९२ | अभिज्ञानशाकुन्तलम्
राजा—( अपवार्य ) हन्तः ¹द्वितीयमिदमाशाजननम् । ( प्रकाशम् ) अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी ।
तापसी- को तस्स धम्मदारापरिच्चाइणो णाम संकीतिदुं चितिसदि । [ कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्तयिष्यति । ]
राजा—( स्वगतम् ) इयं खलु कथा मामेव लक्ष्यीकरोति । यदि तावदस्य शिशोर्मातरं नामतः पृच्छामि । अथवाऽनार्यः परदारव्यवहारः ।
राजा—हन्त, हर्षं द्वितीयं- प्रथमं भुजस्पदनं ततोऽन्यत् इदं = अप्सरसःसम्बन्धः अथवा प्रथमं पौरववंशतया द्वितीयमप्सरःसम्बन्धतया आशाजनकमित्यर्थः शकुन्तलाया मेनका-पत्यत्वात् आशायाः = मनोरथस्य जननं = उत्पत्तिरिति आशाजननम् = अभिलाषपूर्ति-हेतुः ( प्रकाशम् ) पृच्छति-**अथ सा=**तत्र भवती=अस्य बालकस्य जननी किमाख्या यस्य स तस्य किमाख्यस्य = किन्नामधेयस्य राजर्षेः = राज्ञः पत्नी = धर्मपत्नी ?
तापसी—धर्मदारपरित्यागिनः = धर्मार्थंदाराः धर्मदाराः धर्मदारान् परित्यजति तच्छीलः = धर्मदारपरित्यागी तस्य धर्मदारापरित्यागिनः = धर्मभार्यापरित्यागपरस्य अकारणं पत्नीं परित्यक्तवतः नाम = नामधेयं संकीर्तयितुं = कथयितुं उच्चारयितुमपि कः चिन्तयिष्यति = चिन्तामपि करिष्यति । तस्मात् पापिनः तस्य नाम न कथयामीति भावः ।
राजा—( स्वगतं चिन्तयन्नाह ) इदं कथा = एतद्बालविषयिणी कथा, दारपरित्याग-कथा चर्चा वा मामेव लक्ष्यी करोति = सूचयति । यदि = चेत् तावत् यद्येषा पितुर्नाम न कथयति तर्हि अस्य शिशोः = अमुष्य बालकस्य नामतः = नाम्ना मातरं = जननीं पृच्छामि, किन्नामास्य मातुरिति पृच्छामि अथवा = किन्तु परदारव्यवहारः परस्य = अन्यस्य दाराणां = पत्नीनां व्यवहारः चर्चा, अनार्यः आर्यजनविगर्हितः अनुचितः परदार-सम्बन्धिनी जिज्ञासा ।
राजा—( मुँह को दूसरी ओर फेरकर तथा हाथ से आड़कर ) वाह, यह दूसरी आशा-जनक बात है ( प्रगट रूप से ) अच्छा, आदरणीया जी, वह इस बालक की मां किस राजर्षि की अर्द्धाङ्गिनी हैं ?
विशेष— राजा के लिए प्रथम आशाजनक बात यह थी कि यह बालक पुरुवंश से सम्बन्ध रखने वाला है । दूसरी आशाजनक बात यह है कि इसकी मां अप्सरा से सम्बद्ध है । राजा दुष्यन्त को यह बात भली भाँति विदित थी कि शकुन्तला मेनका अप्सरा की पुत्री है । जिसकी यह उपेक्षा नहीं कर सकती है । इसलिए दुष्यन्त को इस प्रसंग से अपनी ओर दृढ़ता होती चली जा रही है ।
तापसी— अपनी धर्मपत्नी का त्याग करने वाले उस पापी व्यक्ति का नाम लेने का कौन विचार करेगा ।
विशेष— अपनी धर्मपत्नी का परित्याग धर्मशास्त्रों में अधर्म माना गया है । अतः अधार्मिक व्यक्ति का नाम लेना पापजनक होता है । इसलिए तापसी कह रही है कि अर्द्धांगिनी धर्मपत्नी के त्यागरूप पाप करने वाले उस पुरुष नाम कौन लेगा ?
राजा—( मन ही मन ) मालूम होता है—यह कथा तो मुझे ही लक्ष्य करती है । यह क्या बात है । अच्छा इसकी माता का नाम पूछता हूँ । ( कुछ सोचकर ) अथवा परस्त्री का नाम आदि पूछना तो भले मनुष्यों का काम नहीं है । स्त्री का नाम पूछना अशिष्टता है ।
पाठा०—१. द्वितीयमिदमाश्वासजननम् ।
सप्तमोऽङ्कः
३९३
( प्रविश्य मयूरहस्ता )
तापसी--सव्वदमण सउंदलावण्णं पेक्ख । [ सर्वदमन शकुन्तलावण्यं प्रेक्षस्व । ]
बालः--( सदृष्टिक्षेपम् ) कहिं वा मे अज्जू ? [ कुत्र वा मम माता ? ]
उभे--णामसारिस्सेण वंचिदो माउवच्छलो । [ नामसादृश्येन वञ्चितो मातृवत्सलः । ]
द्वितीया--वच्छ इमस्स मित्तिआमोरअस्स रम्मत्तणं देख त्ति भणिदो सि । [ वत्स अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि । ]
राजा--( आत्मगतम् ) किं वा शकुन्तलेत्यस्य मातुरार्या । सन्ति पुनर्नामधेयसादृश्यानि । अपि नाम मृगतृष्णिकेव नाममात्रप्रस्तावो मे विषादाय कल्पते ।
( अथ मृण्मयूरहस्ता मृदः = मृत्तिकाया मयूरः = शिखी हस्ते = करे यस्याः सा मृण्मयूरहस्ता प्रविश्य = अन्तरङ्गत्य )
तापसी--हे सर्वदमन ! शकुन्तस्य पक्षिणो मृत्तिकामयूरस्य लावण्यं = सौन्दर्यं प्रेक्षस्व = पश्य ।
बालः--सदृष्टिक्षेपं = चतुर्दिक्षु चक्षुःपातपूर्वकं शकुन्तलावण्यमित्यस्य शकुन्तलावर्णमित्यर्थं कल्पयित्वा पृच्छति-मम = मे माता=जननी शकुन्तला कुत्र=क्व वा ? शकुन्तलावर्णमित्यस्य प्राकृतच्छायाभेदेनार्थद्वयं भवति-शकुन्तलस्य पक्षिणोमयूरस्य लावण्यं सौन्दर्यं शोभां वा यद्वा शकुन्तलायाः वर्णं = रूपमिति ।
उभे--नामसादृश्येन नाम्नः सादृश्येन तुल्यतया वञ्चितः = भ्रान्तः मातृवत्सलः = मातुः = जनन्याः वत्सलः = प्रियतरः एष बालकः, शकुन्तलेतिमातृनामाक्षराण्याकर्ण्य तत्सादृश्येन वञ्चित इति भावः ।
द्वितीया--अन्यथाविप्रतिपत्तिं व्यपोहति--वत्स ! अस्य शकुन्तस्य मृत्तिकामयूरस्य लावण्यं = रम्यत्वं पश्य = विलोकयेति भणितः = कथितोऽसि, न शकुन्तलायाः स्वमातुर्वर्णं प्रेक्षस्वेति भणितोऽसीति भावः ।
राजा--बालकस्य तापस्याश्च व्यवहारात् अवगतमर्थमात्मगतं चिन्तयति-अस्य =
( मिट्टी के बने मोर को लेकर तापसी का प्रवेश )
तापसी—सर्वदमन ! इस शकुन्त ( पक्षी ) के लावण्य-सौन्दर्य को देखो, या शकुन्तला के वर्ण को देखो ।
बालक—( इधर उधर आँख घुमाकर देखता है ) कहाँ है मेरी मां ?
विशेष—यहाँ 'शकुन्त-लावण्यम्' के प्राकृत अनुवाद में वक्रोक्ति श्लेष के होने के कारण दो अर्थ होते हैं । ( १ ) शकुन्तस्य पक्षिणः लावण्यं = सौन्दर्य प्रेक्षस्व ( २ ) शकुन्तलायाः वर्णं-रूपं पश्य । इस प्रकार इस पद के दो अर्थ होने के कारण सर्वदमन 'शकुन्तला के वर्ण रूप को देख' यह दूसरा ही अर्थ समझकर कहता है कि यहाँ है तेरी माता शकुन्तला ?
दोनों—नाम के सादृश्य से ही मातृभक्त यह बेचारा बालक ठगा गया और अपनी माता को देखने के लिए उत्सुक हो गया है ।
दूसरी तापसी—अरे, मैंने तो कहा है कि इस शकुन्त = पक्षी मोर का लावण्य = सौन्दर्य को देख ।
राजा—( मन ही मन ) क्या शकुन्तला इसकी मां का नाम है किन्तु नामों की समानता तो बहुत मिलती है । क्या मृगतृष्णा की तरह शकुन्तला नाम का आ जाना मेरे दुःख के लिये है ।
३९४ | अभिज्ञानशाकुन्तलम्
**बालः--**अज्जए ! रोअदि मे एसो भद्दमोरओ। [ मातः ! रोचते म एष भद्रमयूरः । ] ( इति क्रीडनकमादत्ते )
प्रथमा--( विलोक्य सोद्वेगम् ) अम्हहे रक्खाकरंडअं से मणिबंधे ण दीसदि। [ अहो रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते । ]
**राजा--**अलमलमावेगेन । ^१नन्विदमसस्य सिंहशावविमर्दोत्परिभ्रष्टम् । ( इत्यादातुमिच्छति )
बालकस्य मातुः = जनन्या आख्या = नाम किं वा शकुन्तलेति = अस्ति किम् ? अस्य माता शकुन्तला तदर्थं मत्पुत्र एवेति भावः । इदं तृतीयमाशाजनकं विधूय पुनरयमाशङ्कते सन्ति = भवन्ति पुनः = तु नामधेयस्य = नाम्नः सादृश्यानि = तुल्यता नाममात्रसादृश्यं बहुत्र दृश्यते इत्यर्थः नाममात्रप्रस्तावः = नामधेयमात्रप्रसङ्गः मृगतृष्णिकेव = मृगमरीचिकेव यथा मृगतृष्णिकायां जलभ्रान्ति न वस्तुतस्तत्र जलं भवति तथैवात्रशकुन्तलेति नाममात्रसादृश्यं न मे प्रिया सा स्यादिति मे = मम विषादाय = विषादं जनयितुं खेदाय अपि नाम कल्पते = किं स्विज्जायते ।
बालः—मात ! एषः = अयं भद्रमयूरः = सुन्दरः शिखी मे = मह्यं रोचते, प्रीतोऽहमनेन सुन्दरेण शिखिना ।
प्रथमा—( विलोक्य ससंभ्रमं वदति ) अहो रक्षार्थं बद्धं करण्डकं-रक्षाकरण्डकं = रक्षार्थं बद्धं ओषधिग्रन्थिभेदः रक्षावीटिका 'काण्डे मधु कोशे स्याद्वीटिका खड्गकोशयोः।' अस्य = बालकस्य मणिबन्धे = प्रकोष्ठे करतलमूले बद्धो न दृश्यते = नावलोक्यये । तद्दर्शनात्तापस्या उद्वेगः ।
राजा—अलमावेगेन = आवेगो न कर्तव्यः अङ्गुल्या निर्दिशन् प्राह-इदं रक्षाकरण्डकम्, ननु सिंहशावकविमर्दात् = सिंहशावकेन केसरिकिशोरेण यो विमर्दः = संघर्षः तस्मात् परिभ्रष्टं च्युतं सत् भूमौ पतितम् ( इति = एवमुक्त्वा तत् आदातुमिच्छति = ग्रहीतुमपक्रमते ।
**बालक—**मां ? वह सुन्दर मोर मुझे बहुत अच्छा लग रहा है। ( ऐसा कहकर खिलौने को हाथ में लेता है )
पहली तपस्विनी—( देखकर घबड़ाहट के साथ )। अरी मैया री मैया, इसके हाथ में तो वह रक्षा-सूत्र नहीं दिखाई दे रहा है ?
**विशेष—**देवताओं में लोग अपने कल्याण को कामना से या बच्चों के मङ्गल की इच्छा से पीले वस्त्र या सूत्र में देवी-देवता का भस्म, जड़ी-बूटी आदि बाँध देते हैं, जिसे ताबीज या रक्षासूत्र भी कहते हैं। हिन्दुशास्त्रों के अनुसार रूप से संस्कार १६ माने जाते हैं, उनमें चतुर्थ संस्कार जातकर्म संस्कार है। इस संस्कार में बालक के जन्म के अनन्तर पिता नाल काटने के पहले ही नवजात शिशु की जीभ पर सुवर्ण शलाका से ॐ लिख देता है तथा उसे घृत एवं मधु चटाता है—
प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते।
मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥ म० स्मृ० २।२९
**राजा—**आर्ये, आप घबड़ाइए मत, सिंह शिशु के रगड़ से इसका रक्षा-सूत्र हाथ से यहाँ गिर पड़ा है। ( यह कहकर राजा उसे उठाना चाहता है। )
पाठ०—१. नन्वयमस्य ।
सप्तमोऽङ्कः ३९५
उभे--मा खु एवं अवलंबिअ। कहं गहीवं णेण। [ मा खल्विदमवलम्ब्य। कथं गृहीतमनेन। ] ( इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः )
राजा--किमर्थं प्रतिसिद्धा स्मः ?
प्रथमा--सुणादु महाराओ। एसा अवराजिदा णाम ओसही इमस्स जातकम्म-समए भववदा मारीएण दिण्णा। एत किल मादापिदरो अप्पाणं च वज्जिअ अवरो भूमिपडिदं ण गेण्हादि। [ शृणोतु महाराजः ! एषाऽपराजितानामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता। एतां किल मातापितरावात्मानं च वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति। ]
राजा--अथ गृह्णाति।
उभे—तापस्यौ राजानं निषेधयतः-मा खलु अवलम्ब्य = आदाय, मा खलु नहि नहि एतत्त्वया ग्राह्यम् म्रियसे इति वाक्यशेषः। राजा तदादत्ते न म्रियते ते आहतुः कथं गृहीतमनेन इति विस्मयात् = आश्चर्येण तापस्यौ ते। उरोनिहितहस्ते उरसि-वक्षसि निहितः स्थापितः हस्तः=करो याभ्यान्ते उरोनिहितहस्ते परस्परं=अन्योन्यमवलोकयतः=पश्यतः। प्रायो विस्मये स्त्रीणां हस्त उरसि निहितो भवति।
राजा—किमर्थं-केन कारणेन प्रतिषिद्धाः = निवारिताः स्मः, रक्षाकरणमाददाना वयं भवतीभ्यां कस्माद्धेतोः निषिद्धामहे इति भावः।
प्रथमा—ओषध्या विकाराभावादयमस्य बालकस्य जनकः सम्भवतीति निश्चिन्वाना वदति-शृणोतु = आकर्णयतु महाराजः = श्रीमान्, एषा अपराजिता नाम औषधिः अस्य=बालकस्य जातकर्मसमये = जातकर्मनामकसंस्कारावसरे भगवता = श्रीमता मारीचेन = मरीचिपुत्रेण कश्यपेन दत्ता = समर्पिता। एतामोषधिं किल = खलु मातापितरौ = जननीजनकौ आत्मानं स्वं च वर्जयित्वा = त्यक्त्वा अपरः = अन्यः भूमौ = पृथिव्यां पतितां=निहितम् नादत्ते = न गृह्णाति। भूमिपतिते मातापितृभ्यामात्मना च ग्रहीतुं शक्यते नेतरेणेति भावः। जातकर्मसंस्कारो नाभिकर्तनात् पूर्वं क्रियते। तथाहि—
प्राङ्नाभिकर्तनात् पुंसो जातकर्म विधीयते।
मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥
राजा—अथ गृह्णाति = यदि अन्यः कश्चन गृह्णाति तर्हि किं स्यादित्यर्थः।
दोनों तापसी—अरे आप इसे मत छुइए, मत छुइए (देखकर) क्या इसे इन्होंने उठा लिया ? (ऐसा कहकर दोनों तापसियाँ आश्चर्य से छाती पर हाथ रखकर परस्पर देखती हैं।)
राजा—आप लोगों ने इस यंत्र को उठाने में मुझे क्यों रोका था ?
पहली तापसी—महाराज ! सुनें, यह अपराजिता नामकी महाप्रभावशाली दिव्य महौषधि है। यह इस बालक के जातकर्म के समय पूज्य कश्यपजी ने इसके हाथ में बाँध दी थी। इसको भूमि पर गिर जाने पर, या तो स्वयं बालक अथवा इस बालक के माता-पिता ही इसे उठा सकते हैं, अन्य कोई नहीं उठा सकता।
राजा—यदि इसे कदाचित् कोई अन्य उठा ले, तो क्या होता है ?
३९६ | अभिज्ञानशाकुन्तलम्
प्रथमा--तदो तं सप्पो भविअ दंसइ । [ ततस्तं सर्पो भूत्वा दशति । ]
राजा--भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया ?
उभे--अणेअसो [ अनेकशः ] ।
राजा--( सहर्षं आत्मगतम् ) कथमिव संपूर्णमपि मे मनोरथं नाभिनन्दामि । ( इति बालं परिष्वजते )
द्वितीयाः--सुव्वदे ! एहि ! इमं वुत्तंतं णिअमव्वावुडाए सउंदलाए णिवेदम्ह । [ सुव्रते एहि । इमं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै निवेदयावः । ] ( इति निष्क्रान्ते )
बालः--मुच्च मं । जाव अज्जाए सआसं गमिस्सं । [ मुञ्च माम् । यावन्मातुः सकाशं गमिष्यामि । ]
प्रथमा--ततः तं = ग्रहीतारं सर्पो भूत्वा दशति, एषा औषधिः भूमिपतिता यदि अन्येन गृह्यते तर्हि सैव सर्पो भूत्वा तं दशतीत्यर्थः ।
राजा--भवतीभ्यां युवाभ्यां कदाचित् = जातुचित्, अस्याः विक्रिया = सर्पत्वे परिणतिरूपो विकारः = परिवर्तनम्, प्रत्यक्षीकृता = साक्षात् दृष्टा किम् ?
उभे--अनेकशतः = बहुशः बहुषु कालेषु अस्या औषधेः = विक्रिया प्रत्यक्षीकृतेत्यर्थः ।
राजा--अथौषधिविक्रियांभावदयं शिशुः ममैवौरस इति निश्चिन्वानः पौरवो राजा दुष्यन्तः सहर्षमात्मगतं विचिन्तयति--कथमिव = किमिव सम्पूर्णमपि मे मनोरथम् = समस्तमपि निजं मनोऽभिलाषम् अनुरूपपुत्रलाभरूपं नाभिनन्दामि = न सम्भावयामि न प्रशंसामि ? अनुचितमेतत् सर्वथाऽभिनन्दनीयमेव पुत्रं प्राप्तवानस्मीतिभावः ( इति एवमुक्त्वा ततो बालं = शिशुं परिष्वजते = आलिङ्गति बालपरिष्वङ्गेनानन्दमनुभवति । )
द्वितीया--सुव्रते ! एहि = आगच्छ, इमं = पूर्वोक्तं वृत्तान्तं, नियमव्यापृतायै नियमे-पूजादौ वियोगिनीव्रते च व्यापृतायै प्रसक्तायै = रतायै शकुन्तलायै प्रियसख्यै निवेदयावः = सूचयावः ( इति--एमुक्त्वा ततो निष्क्रान्ते = निर्गते ) ।
बालः--राज्ञा दुष्यन्तेन परिष्वक्तो बालो राजनं वदति--मुञ्च = त्यज मां यावत् मातुः = जनन्या सकाशं = समीपे गमिष्यामि = यास्यामि ।
पहली तापसी--तो यह महौषधि सर्प होकर उसे डस लेती है।
राजा--क्या इस बात की कभी आप लोग ने मेरे सिवा कहीं अन्यत्र परीक्षा की है।
दोनों तापसी--एक बार नहीं, किन्तु अनेकों बार हम लोग इस बात की परीक्षा कर चुकी हैं। जब-जब किसी दूसरे ने उठाया है तब-तब इस महौषधि ने सर्प बनकर उसे काट लिया है।
राजा--( हर्षपूर्वक मन ही मन ) तब तो मैं अपने पूर्ण हुए मनोरथ ( = शकुन्तला और अपने पुत्र की प्राप्ति ) का अभिनन्दन = प्रशंसा क्यों न करूँ। ( बालक को उठाकर अपनी छाती से लगाता है। )
दूसरी तापसी--सुव्रते ! आओ चलें और अपराजिता महौषधि आदि के इस वृत्तान्त को नियमव्रतशीला तपस्विनी शकुन्तला को जाकर सुनायें ( ऐसा कहकर दोनों चली जाती हैं )
विशेष--यहाँ 'नियम व्यापृतायै' पद से व्यक्त होता है कि शकुन्तला अबतक अपने पति दुष्यन्त की प्राप्ति के लिए हमेशा प्रयास करती थीं।
बालक--मुझे छोड़ दो, मुझे छोड़ दो, मैं तो अपनी माता के पास जाऊँगा।
सप्तमोऽङ्कः
३९७
राजा— पुत्रक ! मया सहैव मातरमभिनन्दिष्यसि ।
बालः— मम खु तादो दुस्सदो। ण तुमं। [ मम खलु तातो दुष्यन्तः। न त्वम् ]
राजा— ( सस्मितम् )—एष विवाद एव प्रत्याययति ।
( ततः प्रविशत्येकवेणीधरा शकुन्तला )
शकुन्तला— विआरकाले वि पकिदित्थं सव्वदमणस्स ओसहिं सुणिअ ण मे आसा आसि अत्तणो भाअहेएसु । अहा जहा साणुमदीए आचक्खिदं तह संभावी-अदि एदं । [ विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न मे आशासीदात्मानो भागधेयेषु । अथवा यथा सानुमत्याख्यातं तथा संभाव्यत एतत् । ]
राजा— पुत्रक ! आयुष्मन् ! मया सह = साकमेव मातरं स्वस्य जननीं अभिनन्द-यिष्यसि = मया सहैव मातुः सकाशं गमिष्यसि, न तु एकल इत्यर्थः ।
बालः— राज्ञा पुत्रक इत्यामन्त्रितो बालः तं पुनर्वदति—मम खलु तातः = पिता दुष्यन्तः न त्वम्—अहं हि दुष्यन्तस्य पुत्रोऽस्मि स एव मां पुत्रक इति आमन्त्रयितुं शक्नोति, न त्वमित्यर्थः ।
राजा— बालकस्य वचनेन प्रहृष्टो राजा सस्मितमाह—एष विवाद एव विरुद्धो वादः विवादः—पुत्रक इत्यामन्त्रणस्य विरुद्धः प्रतिवादः प्रत्यायति = प्रत्ययं जनयति मम खलु तातो दुष्यन्त इति स्पष्टोक्तेः प्रत्यय इत्यर्थः ।
( ततः = तदनन्तरं, पश्चात् एकवेणीधरा = एकस्या वेण्याः धरा एकवेणीधरा एकामेव वेणीं धारयन्ती शकुन्तला प्रविशति = रङ्गमञ्चे दृश्यते ।
प्रोषितभर्तृकायाः एकवेणीधारणमाचारः, विरहचिह्नमिदम् )
शकुन्तला— अथ सानुमत्या कथितेन वृत्तान्तेन किञ्चिदाश्वस्ता पुनः तापसीभ्यां निवे-दितं वृत्तान्तं निशम्य शकुन्तला चिन्तयति—विकारस्य = परिवर्तनस्य कालेऽपि समयेऽपि विकारयोग्यकालेऽपि सर्वदमनस्यौषधि सर्वदमनस्य = शिशोः। ओषधिं रक्षाकरण्डकवर्ति-नीम् अपराजितां प्रकृतिस्थाम् = अविकाराम् श्रुत्वापि = आकर्ण्यापि तच्छ्रवणेन स्वभागमने
राजा— प्यारे बेटे ! मेरे साथ ही अपनी माता के पास चलकर उसे अभिनन्दित करना ।
बालक— मेरे पिता तो राजा दुष्यन्त हैं, तुम नहीं ?
राजा— ( मुसकराकर ) यह विवाद ही मुझे विश्वास दिलाता है कि मैं ही तेरा पिता दुष्यन्त हूँ ।
विशेष— इसके पहले नाम वृत्तान्त, आदि प्रमाणों में कुछ शङ्का का अवसर था, किन्तु सर्वदमन ने अब दुष्यन्त को अपना पिता बताकर उनके संदेह का सर्वथा निराकरण कर दिया । अनन्तर राजा ने उसे पुत्रक सम्बोधन कर अपना लिया ।
( तदनन्तर एक चोटी को धारण की हुई शकुन्तला प्रवेश करती है )
विशेष— भारतीय धर्मशीला नारियों की यह प्रथा है कि वे अपने पति के वियोग में एक ही चोटी धारण करती हैं । इस प्रकार शकुन्तला का एक चोटी धारण करना दुष्यन्त के विरह का प्रतीक है ।
शकुन्तला— परिवर्तन के अवसर पर सर्वदमन की औषधि को अविकृत सुनकर भी मुझे अपने भाग्य पर ऐसी आशा न थी कि पतिदेव मुझे खोजते हुए कभी यहाँ आयेंगे अथवा जैसा सानुमती के द्वारा कहा गया था, उससे यह संभव भी है। अर्थात् माता-पिता के अतिरिक्त उठाये जाने पर सर्प हो जाने वाली सर्वदमन के हाथ में बँधी हुई अपराजिता महौषधि उठाने पर भी
३९८ अभिज्ञानशाकुन्तलम्
राजा—( शकुन्तलां विलोक्य )— ^१अये ^२सेयमत्रभवती शकुन्तला यैषा—
वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः ।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति ॥ २१ ॥
निश्चितेऽपि आत्मनः = स्वस्य भागधेयेषु = भाग्येषु मे = मम आशा = सम्भावना नासीत् अथवा = पक्षान्तरे मे आशास्थानमस्ति यथा = यत् सानुमतया = सानुमती नामका-प्सरसा आख्यातं = कथितं तथा तत् सम्भाव्यते = सम्भवम् एतत् = पुरो दृश्यमानम् भर्तृस्वीकरणम् ।
शकुन्तलामालोकयन् राजा प्राह—अये = अहो सा = पूर्वानुभूता इयं = एषा पुरो-दृश्यमाना अत्रभवती = मान्या शकुन्तला या एषा = पुरतः, शकुन्तलां वर्णयति—वसने इति ।
अन्वयः—( या एषा ) परिधूसरे वसने वसाना नियमक्षाममुखी धृतैकवेणी सा इयं शुद्धशीला शकुन्तला अतिनिष्करुणस्य मम दीर्घविरहव्रतं बिभर्ति ।
उपस्थितां शकुन्तलामालोक्य नृपतिर्दुष्यन्ती निजमनसि विमृशति—वसने परिधूसरे वसानेति । या एषा दृश्यमाना परितः = सर्वतः धूसरे इति परिधूसरे = मलिने वसने = द्वे वस्त्रे उत्तरीयोपसंव्याने, अधरोत्तरवस्त्रे वस्त्रयुगलं वसाना = परिदधाना नियमक्षाममुखीनियमैः = व्रताङ्गैः उपवासादिभिः क्षामं मुखं = वदनं यस्याः सा नियमक्षाममुखी, व्रतनियमाचरणादिशुष्कवदना धृता एका वेणी यया सा धृतैकवेणिः । एकवेणीधारिणी जटीभूतकेशधारिणी अत्रविशेषणत्रयेण विरहव्रतस्वरूपमुक्तम् । इतोमुखमागच्छन्ती सा इयं शुद्धशीला—शुद्धं निष्कलङ्कं शीलं स्वभावो यस्याः सा शुद्धशीला = साध्वी सदाचारा शकुन्तला = मुनिदुहिता अतिनिष्करुणस्य = अतिनिर्दयस्य सुतरां क्रूरस्य मम दीर्घविरहव्रतं दीर्घं = बहुकालं विरहस्य व्रतं विरहोचितमाचारं बिभर्ति = धारयति ।
अयं भावः—परिधूसरं युगलवस्त्रं परिदधानां व्रतनियमादिभिकृशाङ्गीं केवलमेक-
विकृत नहीं हुई यह बात सुनकर भी मुझे अपने भाग्य पर भरोसा नहीं था कि आर्यपुत्र मुझे लेने के निमित्त स्वयं आये हैं अथवा सानुमती ने जो मुझे उनके पश्चात्ताप तथा विरहदशा का जो वृत्तान्त सुनाया था, उससे तो यह बात सम्भव भी हो सकती है ।
राजा—( शकुन्तला को देखकर ) हाँ, यही वह माननीया शकुन्तला है, जो मैले-कुचैले पुराने कपड़े पहने हुए नियमों के पालन से क्षीण और उदास मुखवाली एक वेणी को धारण किये हुए शुद्धशीला, करुणाशून्य, अत्यन्त, निर्दयी मेरे लिए मेरे ही कारण से इस प्रकार विरहिणी व्रत का पालन कर रही है ॥ २१ ॥
**विशेष—**प्राचीन भारत से विरहिणी स्त्रियाँ अपने पति के वियोग में न तो आकर्षक वस्त्र पहनती थीं, न शरीर का प्रसाधन ही करती थीं । वे अपने शिर के बालों को दो नहीं एक ही चोटी बनाती थीं, तप, व्रत, उपवास आदि के द्वारा अपने शरीर को कृश बना डालती थीं । इससे उनकी प्रबल पतिभक्ति की सूचना मिलती थी । पति के स्थायी विरह में भी शृंगार न करना और एक चोटी ही रखना सती स्त्रियों का व्रत माना गया है । तप में लगा दुःखी व्यक्ति वस्त्र एवं सजावट से विमुख रहता है, जिससे कपड़े गन्दे हो जाते हैं ।
पाठ०—१. सहर्षखेदम् । २. इयमत्रभवती ।