अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 477, कुल 540 में से
संदर्भ में पढ़ेंसप्तमोऽङ्कः ३९५
उभे--मा खु एवं अवलंबिअ। कहं गहीवं णेण। [ मा खल्विदमवलम्ब्य। कथं गृहीतमनेन। ] ( इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः )
राजा--किमर्थं प्रतिसिद्धा स्मः ?
प्रथमा--सुणादु महाराओ। एसा अवराजिदा णाम ओसही इमस्स जातकम्म-समए भववदा मारीएण दिण्णा। एत किल मादापिदरो अप्पाणं च वज्जिअ अवरो भूमिपडिदं ण गेण्हादि। [ शृणोतु महाराजः ! एषाऽपराजितानामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता। एतां किल मातापितरावात्मानं च वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति। ]
राजा--अथ गृह्णाति।
उभे—तापस्यौ राजानं निषेधयतः-मा खलु अवलम्ब्य = आदाय, मा खलु नहि नहि एतत्त्वया ग्राह्यम् म्रियसे इति वाक्यशेषः। राजा तदादत्ते न म्रियते ते आहतुः कथं गृहीतमनेन इति विस्मयात् = आश्चर्येण तापस्यौ ते। उरोनिहितहस्ते उरसि-वक्षसि निहितः स्थापितः हस्तः=करो याभ्यान्ते उरोनिहितहस्ते परस्परं=अन्योन्यमवलोकयतः=पश्यतः। प्रायो विस्मये स्त्रीणां हस्त उरसि निहितो भवति।
राजा—किमर्थं-केन कारणेन प्रतिषिद्धाः = निवारिताः स्मः, रक्षाकरणमाददाना वयं भवतीभ्यां कस्माद्धेतोः निषिद्धामहे इति भावः।
प्रथमा—ओषध्या विकाराभावादयमस्य बालकस्य जनकः सम्भवतीति निश्चिन्वाना वदति-शृणोतु = आकर्णयतु महाराजः = श्रीमान्, एषा अपराजिता नाम औषधिः अस्य=बालकस्य जातकर्मसमये = जातकर्मनामकसंस्कारावसरे भगवता = श्रीमता मारीचेन = मरीचिपुत्रेण कश्यपेन दत्ता = समर्पिता। एतामोषधिं किल = खलु मातापितरौ = जननीजनकौ आत्मानं स्वं च वर्जयित्वा = त्यक्त्वा अपरः = अन्यः भूमौ = पृथिव्यां पतितां=निहितम् नादत्ते = न गृह्णाति। भूमिपतिते मातापितृभ्यामात्मना च ग्रहीतुं शक्यते नेतरेणेति भावः। जातकर्मसंस्कारो नाभिकर्तनात् पूर्वं क्रियते। तथाहि—
प्राङ्नाभिकर्तनात् पुंसो जातकर्म विधीयते।
मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥
राजा—अथ गृह्णाति = यदि अन्यः कश्चन गृह्णाति तर्हि किं स्यादित्यर्थः।
दोनों तापसी—अरे आप इसे मत छुइए, मत छुइए (देखकर) क्या इसे इन्होंने उठा लिया ? (ऐसा कहकर दोनों तापसियाँ आश्चर्य से छाती पर हाथ रखकर परस्पर देखती हैं।)
राजा—आप लोगों ने इस यंत्र को उठाने में मुझे क्यों रोका था ?
पहली तापसी—महाराज ! सुनें, यह अपराजिता नामकी महाप्रभावशाली दिव्य महौषधि है। यह इस बालक के जातकर्म के समय पूज्य कश्यपजी ने इसके हाथ में बाँध दी थी। इसको भूमि पर गिर जाने पर, या तो स्वयं बालक अथवा इस बालक के माता-पिता ही इसे उठा सकते हैं, अन्य कोई नहीं उठा सकता।
राजा—यदि इसे कदाचित् कोई अन्य उठा ले, तो क्या होता है ?