अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 467, कुल 540 में से
संदर्भ में पढ़ेंसप्तमोऽङ्कः । १८५
द्वितीय— सुव्वदे! ण एक्को एसो वाआमेत्तेण विरम्यिदुं। गच्छ तुमं। ममकेरए उडए मकंडेअस्स इसिकुमारअस्स वण्णचित्तिदो मत्तिआमोरओ चिट्ठदि। तं से उवहर। [ सुव्रते ! न शक्य एष वाचामात्रेण विरमयितुम्। गच्छ त्वम् मदीये उटजे मार्कण्डेयस्यर्षिकुमारस्य वर्णचित्रितो मृत्तिकामयूरस्तिष्ठति। तमस्योपहर। ]
प्रथमा— तह। [ तथा। ] ( इति निष्क्रान्ता )
ग्रथिता अङ्गुलयो यस्यासौ जालग्रथिताङ्गुलिः = जालवत्संश्लिष्टाङ्गुलिः जालेषु = छिद्रेषु ग्रथिता अङ्गुलयो यस्येति विग्रहे अन्तरालसंश्लिष्टाङ्गुलिः उक्तं च सामुद्रिके—
अतिरिक्तः करो यस्य ग्रथिताङ्गुलिको मृदुः ।
चापाङ्कुशाङ्कितः सोऽपि चक्रवर्ती भवेद् ध्रुवम् ॥
अस्य बालकस्य करः = हस्तः, पाणिः इद्धरागया इद्धः = समृद्धः रागः = लोहित्यं यस्या सा तया इद्धरागया, समृद्धलौहित्यया नवोषसा नवया = अचिरप्रदतथा उषसा = प्रभातेन भिन्नं = स्फुटितं, अलक्ष्यपत्रान्तरं = अलक्ष्याणि पत्राणामन्तराणि यस्य स अलक्ष्यपत्रान्तरम् = अप्रकटितपत्रसन्धिः, एकपङ्कजम् एकं च तत् पङ्कजमित्येकपङ्कजं = श्रेष्ठकमलम् विभाति = शोभते, रक्ततलोऽस्य बालस्येत्यर्थः। मिलिताङ्गुलिः पाणिः मृदुलतरं कमलमिव भासते।
अयं भावः— अक्रीडनकं याचितुं तापस्या अग्रे करं प्रसारयतोऽस्य शिशोः उषःप्रारम्भे प्रस्फुटितं मृदुलतरं श्रेष्ठं कमलमिव शोभते। तस्मादनेन चक्रवर्तिना राजकुमारेण भाव्यमितिभावः। अत्रोपमाकाव्यलिङ्गाषलङ्कारौ वंशस्थं वृत्तञ्च ॥ १६ ॥
द्वितीया— सुव्रते ! वाचामात्रेण = केवलेन वचसा कथनमात्रेण एषः = बालः विरमयितुं = निवर्तयितुं निरोद्धुं न शक्यः। यावदस्य हस्ते क्रीडनकं न दीयते तावन्नासौ संरम्भाद्विरमिष्यतीतिभावः। गच्छ = व्रज, त्वम् मदीये = मम उटजे = पर्णशालायां मार्कण्डेयस्य = मार्कण्डेयनाम्नः ऋषिकुमारस्य = ऋषिपुत्रस्य वर्णैः = रक्तपीतनीलादिनानावर्णै चित्रितः = निवेशसुन्दर। मृत्तिकायाः मयूरः = बर्हिः तिष्ठति = वर्तते, तं = मृत्तिकामयूरं अस्य = सर्वदमनस्य उपहर = उपकल्पय। अनीयस्मै देहीतिभावः।
प्रथमा— तथा = आम्, आनयामि, ( इति = एवमुक्त्वा निष्क्रान्ता। = निर्गता ) ।
है, जैसे प्रातःकाल में खिले हुए कमल की पंखुड़ियों के बीच में छिद्र नहीं होते। अँगुलियों के बीच में छिद्र न होना सौभाग्य का सूचक माना गया है। सामुद्रिक शास्त्रों में इसे चक्रवर्ती राजा का चिह्न बताया गया है—
अतिरिक्तः करो यस्य ग्रथिताङ्गुलिको मृदुः ।
चापाङ्कुशाङ्कितः सोऽपि चक्रवर्ती भवेद् ध्रुवम् ॥
दूसरी तापसी— सुव्रते ! इसे छोड़। कहने मात्र से यह बालक मानने वाला नहीं है, अतः जो मेरी कुटी में ऋषिकुमार मार्कण्डेय का मिट्टी का बना हुआ रंगीन मोर रखा हुआ है। वही लाकर इसको दे दो।
पहली तापसी— अच्छा, लाती हूँ ( यह कहकर चली जाती है )
२५ शाकु०