अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 503, कुल 540 में से
संदर्भ में पढ़ें| सप्तमोऽङ्कः | ४२१ |
|---|
मारीचः— तपःप्रभावात्प्रत्यक्षं सर्वमेव तत्रभवतः ।
राजा— अतः खलु मम नातिक्रुद्धो मुनिः ।
मारीचः— तथाप्यसौ प्रियमस्माभिः श्रावयितव्यः । कः कोऽत्र भोः ।
( प्रविश्य )
शिष्यः— भगवन् अयमस्मि ।
मारीचः— गालव ! इदानीमेव विहायसा गत्वा मम वचनात्तत्रभवते कण्वाय प्रियमावेदय यथा—पुत्रवती शकुन्तला तच्छापनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीता इति ।
भवत्या = यदहमिच्छामि तदेव भवत्या देव्या अदित्या भणितं = प्रस्तुतमित्यर्थः । मम हृदयेऽप्येवमस्ति यत्तातओऽवगच्छतु वृत्तान्तमिमम् ।
मारीचः—तपःप्रभावात् = तपस्यामहिम्ना तपोबलेन तत्र भवतः मान्यस्य कण्वस्य सर्वमेव = सकलमेव वृत्तम् प्रत्यक्षं = दृश्यम् । कण्वस्य महर्षेः सति ध्याने सकलमेव प्रत्यक्षमवगतं भवति । अतो न तत्र सन्देष्टव्यमित्यर्थः ।
राजा—अतः = अस्माद्धेतोः ध्यानबलाद्विदित सकलवृत्तान्तत्वादेव मुनिः = महर्षिः कण्वः नातिक्रुद्धः = नातिकुपित किन्तु लघूकोप एव, अत एव मां न शप्तवानित्यर्थः ।
मारीचः— अथ मारीचः लौकिकं विचारमनुस्मरन् ब्रवीति—तथापि कण्वे ध्यानबलात् विदितवृत्तान्तेऽपि असौ = स अस्माभिः प्रष्टव्यः = प्रियमेतद् वृत्तं विदितं किं ते इत्याभाषितव्य श्रावयितव्यो वा कः कोऽत्र भोः = क इह तिष्ठति ?
शिष्यः—भगवन् = श्रीमन् अयं = अहमस्मि उपस्थितोऽस्मि, आज्ञापयेत्यर्थः ।
मारीचः—गालव ! इदानीं = साम्प्रतम्, विहायसा = आकाशमार्गेण शीघ्रं गत्वा मम वचनात् = मम वचनमवलम्ब्य तत्र भवते मान्याय कण्वाय प्रियं = प्रियकरं वृत्तम् आवेदय = कथय यथा = यत् पुत्रवती = पुत्रसहिता शकुन्तला तच्छापनिवृत्तौ तस्याः शापः तच्छापः तस्य निवृत्तौ = समाप्तौ अवसाने स्मृतिमता = लब्धस्मृतिना दुष्यन्तेन प्रतिगृहीता = स्वीकृता इति ।
मारीच—यद्यपि अपने तप के प्रभाव से यह वृत्तान्त पूर्णरूप में भगवान् कण्व को पहले ही से विदित है ।
राजा—इसीलिए कण्वमुनि मेरे ऊपर अधिक क्रुद्ध नहीं हुए ।
मारीच—तथापि पुत्रसहित अपनी पुत्री शकुन्तला का उसके पति के द्वारा पुनः स्वीकार कर लेने का शुभ समाचार हमें कण्व को सुनाना ही है । बाहर कौन है ?
( प्रवेश करके )
शिष्य—भगवन् मैं उपस्थित हूँ, क्या आज्ञा है ?
मारीच—गालव ! तुम अभी आकाशमार्ग से जाकर मेरी ओर से आदरणीय कण्व से यह प्रिय समाचार सुना दो कि पुत्रसहित शकुन्तला अपने शाप की समाप्ति पर स्मरण करने वाले दुष्यन्त के द्वारा प्रसन्नतापूर्वक ग्रहण कर ली गई है ।