भारतकोश
अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

पृष्ठ 142, कुल 262 में से

संदर्भ में पढ़ें
पृष्ठ 142

128 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

राजा- इदं च मे मनसि वर्तते।

अनाघ्रातं पुष्पं किसलयमलूनं कररुहै- रनामुक्तं रत्नं मधु नवमनास्वादितरसम्। अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति भुवि।।2-11।।

विदूषकः- तेण हि लहुं लहुं गच्छदु भवं मा दाव सा तवस्सिणी कस्स वि इङ्गुदीतेल्लचिक्कणसीसस्स हत्थे णिवडिस्सदि। (तेन हि लघु लघु गच्छतु भवान्। मा तावत्सा तपस्विनी कस्यापि इङ्गुदीतैलचिक्कणशीर्षस्य हस्ते निपतिष्यति।)

राजा- परवती खलु तत्रभवती न च सन्निहितगुरुजना।

विदूषकः- अध तुह उवरि कीदिसो उण से चित्तराओ। (अथ तवोपरि कीदृशः पुनः अस्याः चित्तरागः।)

राजा- वयस्य, स्वभावादप्रगल्भास्तपस्विकन्यकाः। तथापि

अभिमुखे मयि संवृतमीक्षितं हसितमन्यनिमित्तकथोदयम्। विनयवारितवृत्तिरतस्तया न मदनो विवृतो न च संवृतः।।2-12।।


शङ्करस्तु-तथापि मनसो नीरूपतया कथं तादृशरूपसम्पत्तिस्तत्राह। रूपोच्चयेन कृतेत्यनुषङ्गः। तत्रापि विशेषयति महतेत्याह। अन्ये तु मनसा कथमेवं कृतेत्याकाङ्क्षायां चित्ते निवेश्येति हेतुगर्भविशेषणम्। तेन द्विरुक्तिरित्याहुः। उत्प्रेक्ष्यम्। सर्वथा प्रत्यादेशः खण्डनं खलु सा रूपवतीनां।।

अनाघ्रातं०।। (2-11) अनाघ्रातमित्यनेनातिरमणीयत्वं गम्यते। एवमग्रेऽपि बोद्धव्यं पुष्पमिति सकलजनानन्दकारित्वात्। एवमग्रेऽपि यथोचितमुदाहरणीयम्। अनामुक्तं अपरिहितं आकराद् आनीतमात्रमित्यर्थः। मधु क्षौद्रम् अत्यन्तं संपूर्णम्। क्वचित् कदाचित् सुकृतविपाकोऽपि दुःखमिति तत् स्यादित्याह। अनघं प्रत्यवायहेतुरहितं तद्रूपं शकुन्ता(न्तला) सौन्दर्यम्। अत्र पूर्वार्द्धे अधिकारूढ-वैशिष्ट्यरूपकालङ्कारः। अधिकारूढवैशिष्ट्यरूपकं यत्तु देवतदिति लक्षणात् परार्द्धे चोपमेत्युभयसंसृष्टिः। इयञ्चतुर्थी कामावस्था। तदुक्तं चतुर्थं गुणकीर्तनमिति।

तेन हि लघु लघु अतिशीघ्रं परिणयतु भवान् शकुन्तलामर्थात् बीजमाह। मा तावत् सा तपस्विनी अनुकम्प्या कस्यापि इङ्गुदीतैलचिक्कणशीर्षस्य हस्ते निपतिष्यति। तपस्वी तापसे चानुकम्प्यायामिति मेदिनी। शङ्करमते मा तावदिति नास्ति। परवती पराधीना तर्हि गुरुरेव नान्यस्मै दास्यते। यद्वा गुरुरेव प्रार्थ्यतामित्याह “न चे”ति। अथ प्रश्ने, भवन्तमन्तरेण भवन्निमित्तम्। भवन्मध्य इति शङ्करदुर्बोधः। भवोपेवीति(?) पाठान्तरम्। कीदृशः पुनस्तस्याश्चित्तरागः। अन्तरमवकाशावधि परिधानान्तर्दिध भेद तादात्म्य इत्यमरः।।

अ०। (2-12)। हसितं प्रौढस्मितं, किञ्चित् लक्षितदन्तञ्च हसितन्त्वभिधीयत इति भरतः। किं नु खलु दृष्टमात्रेणैव भवतोऽङ्कमारोहतु।