भारतकोश
अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

पृष्ठ 143, कुल 262 में से

संदर्भ में पढ़ें
पृष्ठ 143

अभिज्ञानशकुन्तलम् द्वितीयोऽङ्कः 129

विदूषकः-किं णु क्खु दिट्ठमेत्तस्स ज्जव भवदो अङ्कं आरोहदु। (किन्नु खलु दृष्टमात्रस्यैव भवतः अङ्कमारोहतु।)

राजा-सखीभ्यां मिथःप्रस्थाने पुनस्तत्रभवत्या मयि भूयिष्ठमाविष्कृतो भावः। तथा हि

दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा। आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम्॥२-१३॥

विदूषकः-गहिदपाधेओ किदो सि ताए। ता अणुरत्तं तवोवणे तुमं तक्केमि। (गृहीतपाथेयः कृतः असि तया। तदनुरक्तं तपोवने त्वां तर्कयामि।)

राजा-सखे, चिन्तय तावत्केनापदेशेन पुनराश्रमपदं गच्छामः।

विदूषकः-को अवरो अवदेसो। णं भवं राआ। (कः अपरः अपदेशः। ननु भवान् राजा।)

राजा-ततः किम्।

विदूषकः-णीवारछट्ठभाअं मे तावसा उवहरन्तु त्ति। (नीवारषष्ठभागं मे तापसाः उपहरन्तु इति।)

राजा-मूर्ख, अन्यमेव भागमेते तपस्विनो निर्वपन्ति यो रत्नराशीनपि विहायाभिनन्द्यते। पश्य-

यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तद्धनम्। तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः॥२-१४॥

(नेपथ्ये) हन्त, सिद्धार्थौ स्वः।

राजा-(आकर्ण्य) अये, धीरप्रशान्तः स्वरः। तत्तपस्विभिर्भवितव्यम्।


दर्भों०। (२-१३)। काण्डमवसरः। अनवसर इत्यर्थः। अनिमित्तमिति शङ्करः। विवृत्तवदना विवृत्तमुखी मदवलोकनायेति भावः। असक्तम् अलग्नम् अनेनानुरागव्यक्तिरुक्ता। तदुक्तम्-आकारेणात्मनो भावं या नारी तु प्रकाशयेत्। क्षिप्रमेवानुरक्ता सा प्रथमे चापि दर्शने इति। समाधिरलंकारः। बीजस्यालम्बनं यत्तु स समाधिरिति स्मृत इति।

गृहीतपाथेयस्तया कृतोऽसि। पाथेयः सम्बलं, तस्मादनुरक्तं तपोवने त्वां तर्कयामि। अपदेशो व्याजाः। कोऽन्योऽपदेशो, ननु भवान् राजा। नीवारषष्ठभागं मे तापसा उपहरन्त्विति। बीजमाह -

यदति०। (२-१४)। उत्तिष्ठति मिलति उपोऽनूर्ध्व चेष्टायामित्यात्मनेपदं न चेष्टया अभावात्। ग्रामाच्छतमुत्तिष्ठतीति प्रत्युदाहृतं दुर्घटीकायां वर्णेभ्यो ब्राह्मणादिभ्यः। षड्भागं षष्ठभागं पूरणप्रत्ययलोपात् हि हेतौ। हन्त हर्षे अनायासेनैव नृपदर्शनात् कृतार्थौ भवावः आवामिति शेषः। धीरो धैर्यशाली प्रशान्तोऽनुत्कण्ठः।