अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 144, कुल 262 में से
संदर्भ में पढ़ें130 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
(प्रविश्य) दौवारिकः—जअदु जअदु भट्टा। एदे क्खु दुवे इसिकुमारआ पडिहारभूमिं उवट्ठिदा।
राजा—अविलम्बितं प्रवेशय।
दौवारिकः—जं भट्टा आणवेदि। (इति निष्क्रम्य ऋषिकुमाराभ्यां सह प्रविश्य च) इदो इदो एध। (यद् भर्ता आज्ञापयति। इतः इतः एतम्।)
एकः—(राजानमवलोक्य) अहो, दीप्तिमतोऽपि विश्वसनीयता वपुषः। अथवा उपपन्नमेवैतद् ऋषिकल्पे राजनि। कुतः—
अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये
रक्षायोगादयमपि तपः प्रत्यहं सञ्चिनोति।
अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः
पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥२-१५॥
द्वितीयः—सखे, अयं स बलभित्सखो दुःषन्तः।
प्रथमः—अथ किम्।
द्वितीयः—तेन हि
नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्री-
मेकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति।
आशंसन्ते समितिशु सुराः सक्तवैरा हि दैत्यै-
रस्यान्यधिज्ये धनुषि विजयं पौरहूते च वज्रे ॥२-१६॥
उभौ—(उपेत्य) विजयस्व राजन्।
राजा—(आसनादुत्थाय) अभिवादये भवन्तौ।
जयति जयति भर्ता। एतौ खलु द्वावृषिकुमारकौ प्रति(ती)हारभूमिं द्वारमुपस्थितौ। यद् भर्ता आज्ञापयति। इत इत एतम् आगच्छतम्। विश्रेति सौम्यताम्।।
अ०। (2-15)। सर्वभोगार्हे गार्हस्थ्ये। चारणद्वन्द्वं गन्धर्वमिथुनं, यद्वा दिगन्ते ये यशः प्रापयन्ति ते चारणाः। मागधभेदाः तन्मिथुनम्। एतेन राज्ञः परिजनस्यापि निर्विघ्नं अर्द्धगमनागमनमुक्तमिति भावमाह शङ्करः। पुण्यः पुण्यहेतुत्वात् कीर्तिं स्वर्गफलमाहुरिति दर्शनात् व्यतिरेकालंकारः।।
नैतदिति० ।(2-16) उदधीति आसमुद्रादित्यर्थः। नगरेति परिघस्यातिस्थौल्यदैर्घ्ये गम्यते भुनक्तिं पालयति। हेतुमाह। हि यस्मात् युद्धेष्वस्य धनूषि इन्द्रस्य च वज्रे देवा विजयमभिलषन्ति। कीदृशाः, दैत्यैः सह कृतवैराः। शङ्करस्तु यच्च विजयमभिलषन्ति तदप्यस्योचितमित्यर्थः। अत एव दीपकालंकार इत्याह। अपवार्य राजानम् अर्थात्। ऋषिकुमारकावित्यर्थः इत्यन्यस्तद्विचार्यम्। एष इदानीन्तेऽनुकूलो गलहस्तः। यद्देव आज्ञापयति।।