अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 145, कुल 262 में से
संदर्भ में पढ़ेंअभिज्ञानशकुन्तलम् द्वितीयोऽङ्कः 131
ऋषी-स्वस्ति भवते। (इति फलान्युपनयतः)
राजा-(सप्रणामं प्रतिगृह्य) आगमनप्रयोजनं ज्ञातुमिच्छामि।
ऋषी-विदितो भवानिह स्थितस्तपस्विभिस्ते च भवन्तमभ्यर्थयन्ते।
राजा-किमाज्ञापयन्ति।
ऋषी-तत्रभवतः कुलपतेरसांनिध्याद्रक्षांसि नस्तपोविघ्नमुत्पादयन्ति। तत्कतिपयरात्रं सारथिद्वितीयेन भवता सनाधीक्रियतामाश्रम इति।
राजा-अनुगृहीतोऽस्मि।
विदूषकः-(अपवार्य) अअं दाणिं दे अणुऊलो गलहत्थो। (अयम् इदानीं ते अनुकूलः गलहस्तः।)
राजा-रैवतक, उच्चतामस्मत्सारथिः सबाणकार्मुकं रथमुपस्थापयेति।
रैवतकः-जं देवो आणवेदि। (यद् देव आज्ञापयति।) (इति निष्क्रान्तः)
ऋषी-
अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि।
आपन्नाभयसत्त्वेषु दीक्षिताः खलु पौरवाः॥२-१७॥
राजा-गच्छतां भवन्तौ। अहमप्यनुपदमागत एव।
ऋषी-विजयस्व। (इति निष्क्रान्तौ)
राजा-माधव्य, अप्यस्ति ते शकुन्तलादर्शनं प्रति कुतूहलम्।
विदूषकः-पढमं अपरिबाधं आसि। संपदं रक्खसवृत्तन्तेण सपरिबाधं। (प्रथमम् अपरिबाधमासीत्। साम्प्रतम् राक्षसवृत्तान्तेन सपरिबाधम्।)
राजा-मा भैषीः, ननु मत्समीप एव वर्तिष्यसे।
विदूषकः-एसो क्खु तुह चक्करक्खी भूदो म्हि। (एषः खलु तव चक्ररक्षी भूतोऽस्मि।)
(प्रविश्य) दौवारिकः-सज्जो रधो भट्टिणो विजअपत्थाणं अवेक्खदि। एसो उण णअरादो देवीणं सआसादो करभओ आअदो। (सज्जः रथः भर्तुः विजयप्रस्थानमपेक्षते। एषः पुनः नगरात् देवीनां सकाशात् करभक आगतः।)
अनु०। (2-17)। पूर्वपुरुषाणां। सदृशे त्वयि। सर्वेषामुपकारिणीति पाठः शङ्करमतेन समीचीनः। युक्तरूपं योग्यम्। आपन्न आपत् प्राप्तः स्यादित्यमरः। अभयमेव सत्रं यज्ञः। दीक्षिता गृहीतव्रताः कृतप्रतिज्ञा इत्यर्थः। खलु यतः।।
अनुपदं पश्चात्। प्रथममपरिबाधमविघ्नमासीत्, सांप्रतं राक्षसनाम्ग्रहणेन सपरिबाधं कुतूहलमित्यनुषङ्गः। सपरिहासमाह-एष तव चक्ररक्षी भूतोऽस्मि। सज्जो रथो भर्तुर्विजयप्रस्थानमपेक्षते।