अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 146, कुल 262 में से
संदर्भ में पढ़ें132 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
राजा-(सादरम्) किमार्याभिः प्रेषितः।
दौवारिकः-अध इं। (अथ किम्।)
राजा-तेन हि प्रवेश्यताम्।
दौवारिकः-(निष्क्रम्य पुनः करभकेण सह प्रविश्य) करभअ। एसो भट्टा उवसप्पदु भवं। (करभक, एषः भर्ता। उपसर्पतु भवान्।)
करभकः-(उपसृत्य प्रणम्य च) जअदु जअदु भट्टा। देवीओ विण्णवेन्ति। (जयतु जयतु भर्ता। देव्यः विज्ञापयन्ति।)
राजा-किमाज्ञापयति।
करभकः-आगामिचउत्थुद्दिअसे पुत्तपिण्डपारणो णाम उववासो भविस्सदि। तत्थ दीहाउणा अवस्सं अम्हे सम्भाविदव्वाओ त्ति। (आगामिचतुर्थदिवसे पुत्रपिण्डपालनो नाम उपवासः भविष्यति। तत्र दीर्घायुषा अवश्यं वयं सम्भावितव्याः इति।)
राजा-इतस्तपस्विकार्यमितो गुरुजनाज्ञा। उभयमप्यनतिक्रमणीयम्। तत्किमत्र प्रतिविधेयम्।
विदूषकः-(विहस्य) भो, तिसङ्कू विअ अन्तरा चिट्ठ। (भोः त्रिशङ्कुः इव अन्तरा तिष्ठ।)
राजा-सत्यमाकुलीकृतोऽस्मि।
कृतयोर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः।
पुरः प्रतिहतं शैले स्रोतः स्रोतोवहं यथा॥२-18॥
(विचिन्त्य) सखे, त्वमार्याभिः पुत्र इव गृहीतः। स भवान् इतः प्रतिनिवृत्य तपस्विकार्यव्यग्रताम् अस्माकं निवेद्य, तत्रभवतीनां पुत्रकार्यमनुष्ठातुमर्हति।
एष पुनर्न्नगराद् देवीनां सकाशात् करभक आगतः। आर्याभिर्मातृभिः। अथ किं बाढम्। एष भर्ता उपसर्पतु भवान्। जयति जयति भर्ता। देव्य आज्ञापयन्ति।
आगामिचतुर्थदिवसे पुत्रपिण्डपालना नामोपवासो भविष्यति। पिण्डपर्युपासन इति शङ्करः पठति। पुत्रपिण्डपालनं पुत्रपुष्टिप्रदं व्रतम्, “पुत्रराज” इति ख्यातम्। पिण्डो बले देहमात्रे निवापे च निगद्यते इति मेदिनी। अत्र दीर्घायुषा त्वयावश्यं वयं सम्भावयितव्या इति।।
विहस्येति।। मधुरस्वनं विहसितमिति भरतः। भोस्त्रिशङ्कुरिवान्तरा मध्ये तिष्ठ। त्रिशङ्कु-कथा प्रसिद्धेव। व्याहरनामा नाट्यालंकारोऽयम्। तदुक्तम्-
साकूतं सावलेपञ्च यद्वाक्यं हास्यलेशतः।
प्रत्यक्षार्थतया रूढं व्याहार इति कीर्तितः।।
कृत्य०। (2-18)। कृत्ययोः कार्ययोः। स्रोतोवहं नदीसम्बन्धिस्रोतः प्रवाहः। उपमा।।