भारतकोश
संग्रह पर लौटें

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

132 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

राजा-(सादरम्) किमार्याभिः प्रेषितः।

दौवारिकः-अध इं। (अथ किम्।)

राजा-तेन हि प्रवेश्यताम्।

दौवारिकः-(निष्क्रम्य पुनः करभकेण सह प्रविश्य) करभअ। एसो भट्टा उवसप्पदु भवं। (करभक, एषः भर्ता। उपसर्पतु भवान्।)

करभकः-(उपसृत्य प्रणम्य च) जअदु जअदु भट्टा। देवीओ विण्णवेन्ति। (जयतु जयतु भर्ता। देव्यः विज्ञापयन्ति।)

राजा-किमाज्ञापयति।

करभकः-आगामिचउत्थुद्दिअसे पुत्तपिण्डपारणो णाम उववासो भविस्सदि। तत्थ दीहाउणा अवस्सं अम्हे सम्भाविदव्वाओ त्ति। (आगामिचतुर्थदिवसे पुत्रपिण्डपालनो नाम उपवासः भविष्यति। तत्र दीर्घायुषा अवश्यं वयं सम्भावितव्याः इति।)

राजा-इतस्तपस्विकार्यमितो गुरुजनाज्ञा। उभयमप्यनतिक्रमणीयम्। तत्किमत्र प्रतिविधेयम्।

विदूषकः-(विहस्य) भो, तिसङ्कू विअ अन्तरा चिट्ठ। (भोः त्रिशङ्कुः इव अन्तरा तिष्ठ।)

राजा-सत्यमाकुलीकृतोऽस्मि।

कृतयोर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः।
पुरः प्रतिहतं शैले स्रोतः स्रोतोवहं यथा॥२-18॥

(विचिन्त्य) सखे, त्वमार्याभिः पुत्र इव गृहीतः। स भवान् इतः प्रतिनिवृत्य तपस्विकार्यव्यग्रताम् अस्माकं निवेद्य, तत्रभवतीनां पुत्रकार्यमनुष्ठातुमर्हति।


एष पुनर्न्नगराद् देवीनां सकाशात् करभक आगतः। आर्याभिर्मातृभिः। अथ किं बाढम्। एष भर्ता उपसर्पतु भवान्। जयति जयति भर्ता। देव्य आज्ञापयन्ति।

आगामिचतुर्थदिवसे पुत्रपिण्डपालना नामोपवासो भविष्यति। पिण्डपर्युपासन इति शङ्करः पठति। पुत्रपिण्डपालनं पुत्रपुष्टिप्रदं व्रतम्, “पुत्रराज” इति ख्यातम्। पिण्डो बले देहमात्रे निवापे च निगद्यते इति मेदिनी। अत्र दीर्घायुषा त्वयावश्यं वयं सम्भावयितव्या इति।।

विहस्येति।। मधुरस्वनं विहसितमिति भरतः। भोस्त्रिशङ्कुरिवान्तरा मध्ये तिष्ठ। त्रिशङ्कु-कथा प्रसिद्धेव। व्याहरनामा नाट्यालंकारोऽयम्। तदुक्तम्-

साकूतं सावलेपञ्च यद्वाक्यं हास्यलेशतः।
प्रत्यक्षार्थतया रूढं व्याहार इति कीर्तितः।।

कृत्य०। (2-18)। कृत्ययोः कार्ययोः। स्रोतोवहं नदीसम्बन्धिस्रोतः प्रवाहः। उपमा।।

अभिज्ञानशकुन्तलम् द्वितीयोऽङ्कः 133

विदूषकः-भो, मा रक्खसभीरुअं मं अवगच्छ। (भोः मा राक्षसभीरुकं मामवगच्छ।)
राजा-(स्मितं कृत्वा) भो महाब्राह्मण, कथमिदं त्वयि सम्भाव्यते।
विदूषकः-तेण हि राआणुणो विअ गन्तुं इच्छामि। (तेन हि राजानुजः इव गन्तुमिच्छामि।)
राजा-ननु तपोवनोपरोधः परिहरणीय इति, सर्वानैवानुयात्रिकांस्त्वयैव सह प्रेषयामि।
विदूषकः-(सगर्वम्) ही ही, जुअरावो म्हि संवुत्तो। (ही ही, युवराजोऽस्मि संवृत्तः।)
राजा-(आत्मगतम्) चपलोऽयं बटुः, कदाचिदिमामस्मत्प्रार्थनामन्तःपुरेभ्यो निवेदयेत्। भवत्वेवं तावत्। (विदूषकं हस्ते गृहीत्वा प्रकाशम्) सखे माधव्य, ऋषिगौरवाद् आश्रमपदं गच्छामि। न खलु सत्यमेव तापसकन्यायामभिलाषो मे। पश्य-
क्व वयं, क्व परोक्षमन्मथो मृगशावैः सह वर्धितो जनः।
परिहासविकल्पितं सखे परमार्थेन न गृह्यतां वचः॥२-19॥
विदूषकः-एवं णेदं। (एवं नु एतत्।)
(इति निष्क्रान्ताः सर्वे)
।। इति द्वितीयोऽङ्कः।।


भो मा राक्षसभीरुकं मामवगच्छ। तेन हि राजानुज इव गन्तुमिच्छामि। युवराजोऽस्मि संवृत्तः।
क्व०। (2-19)। परिहस्येति कौतुककल्पितम्। एवमेतत्।।
।। इति द्वितीयाङ्क-विवरणम्।।

।। अथ तृतीयोऽङ्कः ।।

(ततः प्रविशति कुशानादाय यजमानशिष्यः।)

शिष्यः-(विचिन्त्य सविस्मयम्) अहो, महाप्रभावो राजा दुःषन्तः। येन प्रविष्टमात्र एवात्रभवति निरुपप्लवानि नः कार्याणि संवृत्तानि।

का कथा बाणसन्धाने ज्याशब्देनैव दूरतः।
हुङ्कारेणेव धनुषः स हि विघ्नान् व्यपोहति।।3-1।।

यावदिमान् वेदीसंस्तरणार्थं दर्भान् ऋत्विग्भ्य उपहरामि। (परिक्रम्यावलोक्य च आकाशे) प्रियंवदे, कस्येदमुशीरानुलेपनं मृणालवन्ति च नलिनीदलानि नीयन्ते।

(आकर्ण्य) किं ब्रवीषि .....। आतपलङ्घनाद्बलवदसुस्थशरीरा शकुन्तला। तस्याः शरीरनिर्वापणायेति। प्रियंवदे, यत्नादुपचर्यताम्। सा हि तत्रभवतः कुलपतेरुच्छ्वसितम्। अहमपि वैतानं शान्त्युदकमस्यै एव गौतमीहस्ते विसर्जयिष्यामि।

(इति निष्क्रान्तः)

(प्रवेशकः)

(ततः प्रविशति मदनावस्थो राजा)

राजा-(सचिन्तं निःश्वस्य)

जाने तपसो वीर्यं सा बाला परवतीति मे विदितम्।
न च निम्नादिव सलिलं निवर्तते मे ततो हृदयम्।।3-2।।

भगवन्मन्मथ। कुतस्ते कुसुमायुधस्य सतस्तैक्ष्ण्यमेतत्। (स्मृत्वा) आं.... ज्ञातम्।


उपप्लवो विघ्नः। का० (3-1) ।। इवोत्प्रेक्षायाम्। व्यपोहति निराकरोति। हूं क्रोधे। ईहर्तिष्विति भरतः। आकाश इति। आकाशभाषित क्वेति ज्ञेयमुत्तरसन्ध्व इति भरतः। किं ब्रवीषीति यन्नाट्ये विना पात्रं प्रयुज्यते। श्रुत्वैवानुक्तमप्यर्थं तत् स्यादाकाशभाषितमिति च।। उशीरं वीरणमूलम्। आतपेति आतपकृतपरिभवात् निर्वापणं स्वास्थ्यम्। उच्छ्वसितं जीवनम्। वैतानं वितानाख्ययागसम्बन्धि शान्त्युदकम्। नैरूज्यप्रदं जलम्।

प्रवेशक इति। प्रवेशकोऽनुदात्तोक्त्या नीचपात्र-प्रयोजितः। अङ्कद्वयान्तर्विज्ञेयः, शेषं विष्कम्भको यथा। अङ्कद्वयान्तरिति प्रथमाङ्केऽस्य निषेधः।

मदनेति०।। उद्वेगाख्या पञ्चमी कामावस्थेयम्। तदुक्तम् भरतेन-उद्वेगः पञ्चमे प्रोक्त इति।

जाने०।। (3-2) तपसो वीर्यमित्यनेन दुष्टापहारो निरस्तः। बाला षोडशवर्षीया। अथ च शिशुः पराधीनेति मयैव ज्ञातम्, एतेन “तया मनोरथो मम पूरणीयः” इत्युक्तम्। तर्हि तदभिलाषाद् विरम्यतामित्याह। न चेति निम्नं गभीरमित्यर्थः। बालेति०। “बालेति गीयते नारी यावत् षोडशवत्सरमिति “भरतः। आमिति स्मरणे।

अद्या०।। (3-3) अद्य नूनम् उत्प्रेक्ष्यं त्वयि यत् और्वो वाडवाग्निः। मद्विधानां विरहिणां

अभिज्ञानशकुन्तलम् तृतीयोऽङ्कः 135

अद्यापि नूनं हरकोपवह्निस्त्वयि ज्वलत्यौर्व इवाम्बुराशौ।
त्वमन्यथा मन्मथ मद्विधानां भस्मावशेषः कथमेवमुष्णः ॥३-३॥

अपि च। त्वया चन्द्रमसा च विश्वसनीयत्वाभ्यामभिसन्धीयते कामिसार्थः। कुतः-

तव कुसुमशरत्वं शीतरश्मित्वमिन्दो-
र्द्वयमिदमयथार्थं दृश्यते मद्विधेषु।
विसृजति हिमगर्भरग्निमिन्दुर्मयूखै-
स्त्वमपि कुसुमबाणान् वज्रसारीकरोषि ॥३-४॥

अथवा-

अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे।
यदि मदिरायत-नयनां तामधिकृत्य प्रहरतीति ॥३-५॥

भगवन्, एवमुपालब्धस्य ते न मां प्रत्यनुक्रोशः।

वृथैव संकल्पशतैरजस्रमनङ्ग नीतोऽसि मयातिवृद्धिम्।
आकृष्य चापं श्रवणोपकण्ठे मय्येव युक्तस्तव बाणमोक्षः ॥३-६॥

क्व नु खलु निरस्तविघ्नैस्तपस्विभिरनुज्ञातः खिन्नमात्मानं विनोदयामि। (निःश्वस्य) न च प्रियादर्शनादृते शरणमन्यत्। (ऊर्ध्वमवलोक्य) इमामुग्रातपां वेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना तत्रभवती गमयति। भवतु, तत्रैव गच्छामि। (परिक्रम्यावलोक्य च) अनया बालपादपवीथ्या सुतनुश्चिरं गतेति तर्कयामि। कुतः-


एवम् उपलभ्यमानः। एवं प्रकारेण उत्प्रेक्षेयम्। विश्वसनीयत्वाभ्यामशंकनीयाभ्याम् प्रतिसन्धीयते हिंस्यते²⁹। हिंसा स्याद् अभिसन्धानमि-त्यमरः।

तवेहि(ति)०।। (३-४) अयथार्थम् असत्यम्। वज्रसारीकरोषि। वज्रवद् दृढप्रहारा{हा}न् करोषि। हर्षणः प्रहसनश्चैव मोहनो मूर्च्छनस्तथा। विकर्षणश्च कामस्य शराः पञ्च प्रकीर्तिताः।। इति भरतः।

अनि०।। (३-५) अनिशं निरन्तरं रुजं पीडाम् आवहन् कुर्व्वन् दुःखदत्वेपि कथमित्याह। यदि वेवार्थे इति हेतौ तां शकुन्तलामेवोद्दिश्य प्रहरति यद् इत्यर्थः। मदिरेति। मदिरोपममायतं दीर्घञ्च नयनं यस्याः। शोणत्वान्मदिरोपमानं नयनोपमाप्रकरणे कविकल्पलतायाम्। तथा दर्शनात्, यद्वा मदिरा तरुणे मद इति दृष्टिप्रभेदप्रकरणे त्रिलोचनमिश्रादयः। ततश्च मदिरायामायतं दीर्घञ्च नयनं यस्येत्यर्थः।।

मदिरं सुन्दरमिति तु बहिर्दृशः शङ्करादयः। एवञ्च मदिरो मत्त खञ्जन इति। मदिरं सुन्दरेऽपी(पि) स्यादीषदघूर्णनशील इति च कोष-कल्पनापि मूर्खाणाम्। अनुक्रोशः कृपा।

वृथैव०।। (३-६) सङ्कल्पो ध्यानम्। हे अनङ्ग, कथं व्यर्थत्वमित्याह-कर्णसमीपे चापमानीय मय्येव तव योग्यः शरत्यागो नान्यस्मिन्, यतो मयि बाणं पातयिष्यतो वृथेत्यर्थः। काव्यलिङ्गमलङ्कारः।। शरण्यं रक्षकम्, वलयं समूहः, गमयति। वीथ्या निरावलीः पङ्क्तिरित्यमरः।


  1. हिंस्यात् इति 4117 इति मातृकायाः पाठः।
136चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

संमीलन्ति न तावद्वन्धनकोशास्तयावचितपुष्पाः।
क्षीरस्निग्धाश्चामी दृश्यन्ते किसलयच्छेदाः॥३-७॥

(स्पर्शं रूपयित्वा) अहो, प्रवातसुभगोऽयं वनोदेशः।

शक्योऽरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम्।
अङ्गैरनङ्गतप्तैर्निर्दयमालिङ्गितुं पवनः॥३-८॥

(विलोक्य) हन्त, अस्मिन्नेव वेतसलतामण्डपे भवितव्यं शकुन्तलया। तथा हि-

अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात्।
द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा॥३-९॥

यावद्विटपान्तरेणावलोकयामि। (तथा कृत्वा सहर्षम्) अये, लब्धं नेत्रनिर्वाणम्। एषा मनोरथप्रिया मे कुसुमास्तरणशिलापट्टमधिशयाना सखीभ्यामुपास्यते। भवतु। शृणोमि तावदासां विश्रम्भकथितानि। (इति विलोकयन्नवस्थितः)

(ततः प्रविशति सह सखीभ्यां शकुन्तला)

सख्यौ—(उपवीज्य) हला सउन्तले, अवि सुहाअदि दे णलिणीवत्तवादो। (सखी शकुन्तले, अपि सुखायते ते नलिनीपत्रवातः।)

शकुन्तला—(सखेदम्) किं वीअअन्ति मं पिअसहीओ। (किं वीजयतः मां प्रियसख्यौ।)

(उभे सविषादं परस्परमवलोकयतः।)

राजा—बलवदसुस्थशरीरा तत्रभवती दृश्यते। (सवितर्कम्) तत्किमयामातपदोषः स्याद्, उत यथा मे मनसि वर्तते। (विचिन्त्य) अथवा कृतं सन्देहेन।


बन्ध० ।। (3-7) बन्धनकोषा वृन्तगर्भाणि क्षीरस्निग्धागलद् दुग्धा इति यावत्। च्छेदाः खण्डाः चिरत्रोटनेन वृन्तसङ्कोचो जायते अगलद्दुग्धतापि। अत्र विपरीतं दृश्यत इति। आचार गतेति भावः। उन्मीलन्तीति प्राचीनः पाठः। अनुमानालङ्कारः। बलिकर्म्मा[न]र्ह[स्य,] कुसुम-किल(स)स(ल) यानां छेदनमतिदुर्ललितम्। शकुन्तलां विना न सम्भवतीत्यर्थः इति शङ्करः। प्रवात: प्रशस्तानिलः।

शक्य० ।। (3-8) अरविन्देति कणेति च। सौगन्ध्य-शैत्ये उक्ते गुणत्रययुक्तमिति शङ्करः। उक्तञ्च, शीतो मन्दः सुगन्धिश्चत्रिविधो मत इति। निर्दयं दृढं। हन्त हर्षे।

अभ्यु० ।। (3-9) अवगाढा निम्ना। एतदपि प्रशस्तलक्षणम्। नान्यस्य इत्यनुमानालङ्कारः। परिसर्प-नामकं प्रतिमुखाङ्कमिदम्। यदुक्तं दृष्ट-नष्टानुसरणं परिसर्पश्च कथ्यत इति। निर्वाणं सुखम्। निर्वाणमपवर्गेऽपि। निर्वाणं निर्वृतिं विदुरिति शाश्वतः। मनोरथेन प्रिया, न तु प्रकारान्तरेण। अत एव चक्षुष एव सुखमनुभूयत इति भावः। कुसुमेति। विस्तृतकुसुमशयनं शिलापट्टं पाषाणखण्डम्। हला शकुन्तले, अपि सुखायते नलिनीपत्रवातः। किं वीजयतो मां प्रियसख्यौ। सविषादमिति, शकुन्तला-ज्ञानलोपात्। उत पक्षान्तरे। कृतं व्यर्थम्।।

अभिज्ञानशकुन्तलम् तृतीयोऽङ्कः 137

स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयं प्रियायाः साबाधं तदपि कमनीयं वपुरिदम्। समस्तापः कामं मनसिजनिदाघप्रसरयो- र्न तु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु।।३-१०।।

प्रियंवदा-(जनान्तिकम्) अणुसूए, तस्स राएसिणो पढमदंसण्णादो आरम्भिअ पज्जुस्सुअमणा सउन्तला। ण क्खु से अण्णणिमित्तो आदङ्को भवे। (अनुसूये, तस्य राजर्षेः प्रथमदर्शनादारभ्य पर्युत्सुकमनाः शकुन्तला। न खल्वस्या अन्यनिमित्त आतङ्कः भवेत्।

अनुसूया-ममावि एरसी आसङ्का। भोदु। पुच्छिस्सं। सहि पुच्छिदव्वा सि किं पि। बलीओ क्खु अङ्गसंतावो। (ममापि ईदृश्याशङ्का। भवतु। प्रक्ष्यामि। सखि, प्रष्टव्यासि किम् अपि। बलीयान् खल्वङ्गसन्तापः।)

राजा-वक्तव्यमेव।

शशिकरविशदान्यस्यास्तथा हि दुःसहनिदाघशंसीनि। भिन्नानि श्यामिकया मृणालनिर्मांणवलयानि।।३-११।।

शकुन्तला-(पूर्वार्धेन शयनादुत्थाय) हला, भण जं वक्तुकामा सि। (सखि, भण यद्वक्तुकामासि।)

अनुसूया-हला सउन्तले, अणब्भन्तराओ अम्हे मणोगदस्स दे वृत्तन्तस्स। किं तु


उशीरं०।। (3-10) वीरणमूलम्। प्रियायाः शरीरं सपीड़मपि मनोहारि। कीदृशं, प्रशिथिलः कोमलो मृणालस्यैव। एकोऽद्वितीयो वलयो यत्र समासारर्थो नियमः वलयान्तरोद्धहनासामर्थ्यात्। कामं निश्चितम्। सुभगं रम्यम्। अपराद्धमपराधः। एतादृशरूपता ग्रीष्मस्य न भवतीत्यर्थः। तथा च स्मरस्यैव विलसितमेतदिति भावः।

स्रजो भूषणगन्धांश्च गृहाण्युपवनानि च।
कामाग्निना हि सन्तप्तः शीतलं वस्तु नेच्छती³⁰ति भरतः।।

एतस्य राजर्षेः प्रथमदर्शनादारभ्य पर्य्युत्सुकमनाः शकुन्तला। न ह्यन्यनिमित्ता शङ्का भवेत्। ममापि एतादृशी आशङ्का। भवतु प्रक्ष्यामि। सखि, प्रष्टव्यासि किमपि, बलीयान् अङ्गसन्तापः।

शशि०³¹।।(3-11) भिन्नानि मिश्रितानि श्यामिका श्यामत्वं। सखि, भण। यद् वक्तुकामासि। सखि शकुन्तले, अनभ्यन्तरे आवाम् एतस्य मनोगतस्य वृत्तान्तस्य। किन्तु यादृशी इतिहासकथानुबन्धेषु कामयमानानां कामुकानामवस्था श्रूयते। तादृशी तवापीति तर्कयामि। अवस्थाश्च दश भरतेनोक्ताः।

अङ्गेष्वसौष्ठवं तापः पाण्डुता कृशताऽरुचिः।
अरतिः³² स्यादनालम्बा तन्मयोन्माद-मूर्च्छनाः। पूर्वानुभवजा ज्ञेयाः एताः स्मर दशा दश।।


  1. शङ्करटीकायां “सेवते” इति पाठः।
  2. शङ्करटीकायां श्लोकोऽयं नास्ति।
  3. शङ्करटीकायां “आवृतिः” इति पाठः।
138चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

जादिसी इदिहासकधाणुबन्ध्रेसुं कामअमाणाणं अवत्था सुणीअदि तादिसी तुह त्ति तक्केमि। ता कधेहि, किं णिमित्तं दे अअं आआसो। विआरं परमत्थदो अआणिअ अणारम्भो किल पडीआरस्स। (सखि शकुन्तले, अनभ्यन्तरे आवां मनोगतस्य ते वृत्तान्तस्य। किं तु यादृशी इतिहासकथानुबन्धेषु कामयमानानामवस्था श्रूयते। तादृशी तवैति तर्कयामि। तत्कथय किन्निमित्तं ते अयमायासाः। विकारं परमार्थतः अज्ञात्वा अनारम्भः किल प्रतीकारस्य।)

राजा—अनुसूययापि मदीयस्तर्कोऽनुगतः।

शकुन्तला—बलीओ क्खु मे आआसो। ण सहसा सक्कणोमि णिवेदितुं। (बलीयान्खलु मे आयासः। न सहसा शक्नोमि निवेदयितुम्।)

प्रियंवदा—सहि, सुट्ठु क्खु एसा भणादि। किं एदं अत्तणो उवद्दवं णिगूहसि। अणुदिअसं च परिहीअसि अङ्गेसुं। केवलं लावण्णमई छाआ तुमं ण मुञ्चेदि। (सखि, सुष्ठु खल्वेषा भणति। किमेतमात्मनः उपद्रवं निगूहसि। अनुदिवसञ्च परिहीयसे अङ्गेषु। केवलं लावण्यमयी छाया त्वां न मुञ्चति।

राजा—अवितथमाह प्रियंवदा। तथा ह्यस्याः—

क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं
मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डरा।
शोच्या च प्रियदर्शना च मदनग्लानेयमालक्ष्यते
पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी।। ३-१२।।

शकुन्तला—(निःश्वस्य) कस्स वा अण्णस्स कधइस्सं। किं तु आआसइत्तिआ वो भविस्सं। (कस्य वा अन्यस्य कथयिष्यामि। किं तु आयासयित्री वां भविष्यामि।)

उभे—सहि, अदो ज्जेव णो णिव्वन्धो। संविभत्तं खु दुक्खं सज्झवेअणं भोदि। (सखि, अतः एव नौ निर्बन्धः। संविभक्तं खलु दुःखं सह्यवेदनं भवति।)


तत् कथय किन्निमित्तं तेऽयमायासा इति। विकारं परमार्थतोऽज्ञात्वानारम्भः किल प्रतीकारस्य। बलीयान् खलु ममायासो, न सहसा शक्नोमि निवेदयितुम्।
सुष्ठु खल्वेषा भणति। किमेतमात्मन उपप्लवं निगूहसि। अनुदिवसञ्च परिहीयसे अङ्गेषु। केवलं लावण्यमयी च्छाया त्वां न मुञ्चति। च्छाया स्याद् आतपाभावे प्रभाप्रतिमयोरपीति शाश्वतः। अवितथं सत्यम्।
क्षाम० ।। (3-12) त्यक्तं त्यक्तं शोषणेन व्यपनायकेन। लतामाधवीति संघात( : ), विगृहीत-विपर्य्यस्तेत्यभिधानिकाः, तेन "माधवीलता, लता माधवी चे"ति नामानि। कस्य वान्यस्य कथयिष्यामि। किन्तु आयासकारिणी युवयोर्भविष्यामि। सखि, अत एव निर्बन्धः।
संविभक्तं खलु दुःखं सह्यवेदनं भवति।
यदाह-न दुःखं पञ्चभिः [सहेति]।

अभिज्ञानशकुन्तलम् तृतीयोऽङ्कः 139

राजा–

पृष्टा जनेन समदुःखसुखेन बाला
नेयं न वक्ष्यति मनोगतमाधिहेतुम्।
दृष्टो निवृत्य बहुशोऽप्यनया सतृष्णम्
अत्रोत्तरश्रवणकातरतां गतोऽस्मि॥ ३-१३॥

**शकुन्तला–**जदो पहुदि सो तवोवणरक्खिदा राएसी मम दंसणपधं गदो। (यतः प्रभृति सः तपोवनरक्षिता राजर्षिः मम दर्शनपथं गतः।) (इत्यर्धोक्ते लज्जां नाटयति।)

**उभे–**कधेदु पिअसही। (कथयतु प्रियसखी।)

**शकुन्तला–**तदो पहुदि तग्गदेण अहिलासेण एदावत्थ म्हि संवुत्ता। (ततः प्रभृति तद्गतेनाभिलाषेणैतदवस्थास्मि संवृत्ता।)

**उभे–**दिट्ठिआ, इदाणिं दे अणुरूवे वरे अहिणिवेसो। अथवा। साअरं उज्झिअ कहिं वा महाणदीए पविसिदव्वं। (दिष्ट्या, इदानीं ते अनुरूपे वरे अभिनिवेशः। अथवा सागरमुज्झित्वा कुत्र वा महानद्या प्रवेष्टव्यम्।)

राजा–(सहर्षम्) श्रुतं यच्छ्रोतव्यम्।

स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः।
दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य॥ ३-१४॥

**शकुन्तला–**ता जइ वो अणुमदं तदो तथा पअत्तध जधा तस्स राएसिणो अणुकम्पणीआ होमि। अण्णधा सुमरेध मं। (तद्यदि वां अनुमतं ततः तथा प्रयतेथाम् यथा तस्य राजर्षेः अनुकम्पनीया भवामि। अन्यथा स्मरतं माम्।)

**राजा–**विमर्शच्छेदि वचनम्।


पृष्ट०॥ (3-13) समसुखादिना जनेन सखीलोकेनेत्यर्थः। पुंस्याधिर्मानसी व्यथेत्यर्थः। स्निग्धा दृष्टिर्भावसूचिका। यदुक्तम्-लेखप्रस्थापनैः स्निग्धैर्वीक्षितैर्मृदुभाषितैः। दूतीसंप्रेषणैर्नार्य्या भावाभिव्यक्तिरिष्यत इति। कातरतां व्याकुलतां सतृष्णतामित्यन्वयः। यद्यपि दुःखहेतोरवश्यकथनादात्मनि तत् स्निग्धावलोकनाच्च। कातरता न युक्ति सहा तथाप्यतिदुर्ललितप्राप्तौ आधिकरणमहमन्यो वेति चित्तप्रत्ययो न जायत इत्यर्थः। यतः प्रभृति स तपोवनरक्षिता राजर्षिर्मम दर्शनपथं गतः। कथयतु प्रियसखी। ततः प्रभृति तद्गतेनाभिलाषेण एतावदवस्थास्मि संवृत्ता। दिष्ट्या आनन्देन, दिष्ट्या भाग्येन वा। इदानीं तेऽनुरूपे वरेऽभिलाषः, अभिनिवेशो वा। अथवा सागरं वर्जयित्वा कुत्र वा महानद्या प्रवेष्टव्यं, प्रसर्तव्यं वा।

स्मर०॥ (3-14) निर्वापयिता सुखयिता। तपात्यये ग्रीष्मावसाने मेघसम्बन्धार्थमिदमुक्तम्। अत्र हि मेघोदयेऽपि। हि दिवसोऽधिकं तापयित्वा पश्चाद् वृष्ट्या निर्वापयतीति जातिः। केचित्तु मेघाभावे तापयति तत् सम्बन्ध च निर्वापयतीत्याहुः।

140 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

प्रियंवदा-(जनान्तिकम्) अणूसूए, दूरगदमम्मधा अक्खमा खु इअं कालहरणस्स। (अनुसूये, दूरगतमन्मथा अक्षमा खल्वियं कालहरणस्य।)

अनुसूया-पिअंवदे, को उवाओ भवे जेण अविलम्बिदं णिहुदं च सहीए मणोरधं सम्पादेमो। (प्रियंवदे कः उपायः भवेत् येनाविलम्बितं निभृतं च सख्याः मनोरथं सम्पादयावः।)

प्रियंवदा-सहि, णिहुदं ति पअत्तिदव्वं। सिग्घं ति ण दुक्करं। (सखि, निभृतमिति प्रयतितव्यम्। शीघ्रमिति न दुष्करम्।)

अनुसूया-कधं विअ। (कथमिव।)

प्रियंवदा-णं सो वि राएसी इमस्सिं जणे सिणिद्धदिट्ठिसूइदहिलासो इमेसुं दिअसेसुं पज्जाअरकिसो विअ लक्खीअदी। (ननु सोऽपि राजर्षिः अस्मिन् जने स्निग्धदृष्टि-सूचिताभिलाषः एषु दिवसेषु प्रजागरकृशः इव लक्ष्यते।)

राजा-सत्यमित्थंभूत एवास्मि। तथा हि-

अशिशिरतैरन्तस्तापैर्विवर्णमणीकृतं
निशि निशि भुजन्यस्तापाङ्गप्रवर्तिभिरश्रुभिः।
अनतिलुलितज्याघाताङ्कान्मुहुर्मणिबन्धनात्
कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते॥३-१५॥

प्रियंवदा-(विचिन्त्य) हला अणूसूए, मअणलेहो दाणिं से करीअदु। तं अहं सुमणोगोविदं कदुअ देवदासेसावदेसेण तस्स रण्णो हत्थं पावइस्सं। (सखि अनसूये, मदनलेखः इदानीम् अस्याः क्रियताम्। तमहं सुमनोगोपितं कृत्वा देवताशेषापदेशेन तस्य राज्ञः हस्तं प्रापयिष्यामि।)


तद्यदि वोऽनुमतं ततस्तथा प्रयतेथां यथा तस्य राजर्षेरनुकम्पनीया भवामीति। अन्यथा स्मरत माम्। अन्यथा प्रसीदत, सिञ्चतं इदानीं मे उदकम्, मामुदकैः सिञ्चतमित्यर्थः इति शङ्करसम्मतः पाठोऽर्थश्च। विमर्षे इयमनुरक्ता न वेति परामर्शः। कामफलं येनेदृगवस्थामारोपिता। यत्नेति प्रयत्नः परमवशिष्यत इत्यर्थः। अनुसूये दूरगतमन्मथा प्ररूढकामा अक्षमा खल्वियं कालहरणस्य विलम्बस्य। प्रियम्बदे, क उपायो भवेत्। येनाविलम्बं निभृतञ्च सख्या मनोरथं सम्पादयावः। निभृतमिति प्रयतितव्यं, शीघ्रमिति न दुष्करं। कथमिव। सोऽपि राजर्षिरतस्मिन् जने स्निग्धदृष्ट्या सूचिताभिलाषः। एतेषु दिवसेषु प्रजागरकृश इव लक्ष्यते। "कटाक्षिणी साभिलाषा दृष्टिः स्निग्धाभिधीयते" इति भरतः।

आ(अ)न० / (अशिशिर०) ।। (3-15) कनकवलयं पुनःप्रतिसार्यते, उपरि नीयते। कीदृशं, मणिबन्धनात् करमूलात् वारंवारमधःपतितं स्रस्तं, मणिबन्धनात् प्रतिसार्यत इति वा। अतिकार्श्येन नातिमुदितो ज्याघाताङ्को यत्र क्रियाविशेषणम्। शङ्करस्तु अनतिलुलितो नातिविलुप्तो ज्यायाः य आघातः संघर्षः, स एवाङ्कं चिह्नं किणो यत्र। मणिबन्धनविशेषणमित्याह। कीदृशमन्तस्तापैः करणैरत्यन्ततप्तैरश्रुभिर्विवर्णं मलिनीकृतम्। अश्रुसम्बन्धयोग्यतामाह। निशीति।

अभिज्ञानशकुन्तलम् तृतीयोऽङ्कः 141

अनुसूया–सहि, रोअदि मे सुउमारो एसो पओओ। किं वा सउन्तला भणादि। (सखि, रोचते मे सुकुमारः एषः प्रयोगः। किं वा शकुन्तला भणति।)

शकुन्तला–णिओओ वि विअप्पीअदि। (नियोगोऽपि विकल्प्यते।)

प्रियंवदा–तेण हि अत्तणो उवव्णासाणुरूर्वं चिन्तेहि किं पि ललिदोवणिबन्धणं गीदअं। (तेन हि आत्मनः उपन्यासानुरूपं चिन्तय किमपि ललितोपनिबन्धनं गीतकम्।)

शकुन्तला–चिन्तइस्सं। किं तु अवहीरणाभीरुअं वेवदि मे हिअअं। (चिन्तयिष्यामि। किं तु अवधीरणाभीरुकं वेपते मे हृदयम्।)

राजा

अयं स ते तिष्ठति संगमोत्सुको विशङ्कसे भीरु यतोऽवधीरणाम्। लभेत वा प्रार्थयिता न वा श्रियं श्रियो दुरापः कथमीप्सितो भवेत्॥३-16॥

अपि च–

अयं स यस्मात्प्रणयावधीरणाम् अशङ्कनीयां करभोरु शङ्कसे। उपस्थितस्त्वां प्रणयोत्सुको जनो न रत्नमन्विष्यति, मृग्यते हि तत्॥३-17॥

सख्यौ–अइ अत्तगुणावमाणिणि। को णाम संतावणिव्वावइत्तिअं सारदीअं जोण्हं आदवतेण वारइस्सदि। (अयि आत्मगुणावमानिनि, को नाम संतापनिर्वापयित्रीं शारदीयां ज्योत्स्नाम् आतपत्रेण वारयिष्यति।)


सखि, मदनलेखं इदानीमस्याः क्रियतां। स्मरभावसूचकं लिखनम् अनङ्गलेखः। नृपसंविधगमनयोग्यतामाह-तमहं सुमनोगोपितं कृत्वा देवताशेषापदेशेन तस्य राज्ञो हस्तं प्रापयिष्यामि। सुमनः पुष्पाणि, शेषं निर्माल्यम्। सखि, रोचते मे सुकुमार एष प्रयोगः। किम्वा शकुन्तला भणति। नियोगो³³ऽपि विकल्प्यते। हृदयङ्गम एवायं पक्षो मयेति भावः। तेन हि आत्मन उपन्यासानुरूपं चिन्तय ललितोपनिबन्धं ग(गी)तिः। उपन्यासस्तु वाङ्मुख इत्यमरः। चिन्तयिष्यामि। किन्त्वव-धीरणाभीरुकं नृपकृत-तिरस्कार-त्रस्तं मे हृदयम्।

अय०।। (3-16) प्रार्थयिता जनः श्रियं लभेत वा न वा। लक्ष्म्या ईप्सितस्तु कथं दुर्लभो भवेत्, अपि तु नेत्यर्थः। दृष्टान्तोऽलंकारः। उक्ति पोषमाह।

अय०।। (3-17) प्रणयः प्रेमा। अयं स प्रणयाकाङ्क्षी त्वामुपस्थित इत्यन्वयः। रत्नं कर्तृ, अयमपि दृष्टान्तः।।


  1. वियोगोपि इति 4118 इत्यत्र पाठः।

142 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

शकुन्तला- (सस्मितम्) णिओइद म्हि। (नियोजितास्मि।) (इति चिन्तयति।) राजा- स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियमवलोकयामि। तथा हि- उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः। पुलकाचितेन कथयति मय्यनुरागं कपोलेन।।3-18।। शकुन्तला- हला, चिन्तिदा मए गीदिया। असंणिहिदाइं उण लेहसाहणाईं। (सखि, चिन्तिता मया गीतिका। असन्निहितानि पुनः लेखसाधनानि।) प्रियंवदा- णं इमस्सिं सुओदरसिणिद्धे णलिणीवत्ते पत्तच्छेदभत्तीए णहेहिं आलिहीअदु। (नन्वस्मिन् शुकोदरस्निग्धे नलिनीपत्रे पत्रच्छेदभक्त्या नखैः आलिख्यताम्।) शकुन्तला- सुणध दाव णं संगदत्था ण व त्ति। (शृणुतं तावत् सङ्गतार्था न वा इति) उभे- अवहिदाओ म्ह। (अवहिते स्वः।) शकुन्तला- (पठति) तुज्झ ण आणे हिअअं मम उण मअणो दिवा अ रत्तिं च। णिक्किव दावइ वलिअं तुह हुत्तमणोरहाइ अङ्गाइं।।3-19।। (तव न जाने हृदयं मम पुनः मदनः दिवा च रात्रिञ्च। निष्कृप तापयति बलीयः तव अभिमुखमनोरथायाः अङ्गानि)।।3-19।। राजा- (सहसोपसृत्य)


अयि०।। आत्मगुणावमानिनि, को नाम सन्तापनिर्वाणकारिणीं शारदीयां ज्योत्स्नाम् आतप{मा}पत्रेण वारयिष्यति। नियोजितास्मि। स्थाने युक्तार्थेऽव्ययम्।

उन्नमि०।। (3-18) उन्नमितेति चिन्तनौपयिकं रूपमुक्तम्। अनेन सात्त्विको भावः उन्नीयते। तदुक्तम् सङ्गमे स्मरणे चैव प्रियस्यालोकने तथा। हेतुत्रयं समासाद्य सात्त्विकः संप्रवर्तते।। ते च स्तम्भः स्वेद३४ इत्यादयः। क्रमनामकं काव्याङ्गमिदम्। तदुक्तम्- भावना लब्धोपलब्धिस्तु३५, क्रमोऽयं परिकीर्तित इति। सखि, चिन्तिता मया गीतिका असन्निहितानि पुनर्लेख-साधनानि। ननु एतस्मिन् शुकोदरस्निग्धे नलिनीपत्रे पत्रच्छेदभक्त्या वचनया नखेनालिख्यताम्। शृणुतं तावत् सङ्गतार्था न वेति। अवहि[ते] स्वः।

तुज्झ०।। (3-19) तव न जाने हृदयं मम पुनर्म्मनो दिवा च रात्रिञ्च। निष्कृप तापयति बलीयस्त्वदभिमुख-मनोरथाया अङ्गानि।। हे निष्कृप,! हुत्तशब्दः प्राकृतेऽभिमुखे वर्तते। उत्तरोत्तराख्यमिदं लास्यम्। तदुक्तं भरतेन यदङ्गा तया स्वस्थे प्रिये सोल्लुण्ठभाषितम्। प्रयुज्यते नायिकया तद् भवेदुत्तरोत्तरम्।।


  1. शङ्करटीकायाम्- "स्वेदः स्तम्भोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः। वैवर्ण्यश्रुविलयो इत्यष्टौ सात्त्विकाः स्मृताः" इति।।
  2. भावतत्त्वोपलब्धिस्तु इति 4118 इत्यत्र।

अभिज्ञानशकुन्तलम् तृतीयोऽङ्कः 143

तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव। ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः॥३–२०॥

सख्यौ–(विलोक्य सहर्षमुत्थाय) साअदं जधासमीहिदफलस्स अविलम्बिणो मणोरधस्स। (स्वागतं यथासमीहितफलस्याविलम्बिनः मनोरथस्य।)

(शकुन्तला उत्थातुमिच्छति)

राजा–सुन्दरि, अलमलमायासेन।

संदष्टकुसुमशयनान्यशुविमर्दितमृणालवलयानि। गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति॥३–२१॥

शकुन्तला–(ससाध्वसमात्मगतम्) हिअअ। तथा उत्तम्मिअ इदाणिं ण किं पि पडिवज्जसि। (हृदय, तथा उत्तम्य इदानीं न किमपि प्रतिपद्यसे।)

अनुसूया–इदो सिलादलेक्कदेसं अणुगेण्हदु महाराओ। (इतः शिलातलैकदेशमनुगृह्णातु महाराजः।)

(शकुन्तला किंचिद् अपसरति।)

राजा–(उपविश्य) प्रियंवदे, कच्चित् सखीं वो नातिबाधते शरीरतापः।

प्रियंवदा–(सस्मितम्) लद्धोसदो संपदं उवसमं गमिस्सदि। महाराअ, दोण्णं पि वो अण्णोण्णाणुराओ पच्चक्खो। सहीसिणेहो उण पुणरुत्तवाइणिं करेदि मं। (लब्धौषधः साम्प्रतमुपशमनं गमिष्यति। महाराज, द्वयोरपि वाम् अन्योऽन्यानुरागः प्रत्यक्षः। सखीस्नेहः पुनः पुनरुक्तवादिनीं करोति माम्।)

राजा–भद्रे, न तत्परिहार्यं यतो विवक्षितमनुक्तमनुतापं जनयति।

प्रियंवदा–तेण हि सुणादु अज्जो। (तेन हि शृणोत्वार्यः।)

राजा–अवहितोऽस्मि।


तपति०।। (3–20) हे कृशगात्रि, दहति भस्मसात् करोति। अनिशमित्युभयत्र प्रजिवस्यु-पमालङ्कारः। अर्थान्तरन्यास इति शङ्करः। विलोक्येति, पृष्ठतो दर्शनं यत्तल्लोकनमुदाहृतमिति भरत इति शङ्करः। स्वागतं कुशलं यथा सखी हितफलस्याविलम्बिनो मनोरथस्य भरत इत्यर्थः। मनोरथरूपो भवानेवेत्यर्थः।

सन्दष्ट०।। (3–21) सन्दष्टमाश्लिष्टं विवर्णितं म्लानीभूतं, विमर्दितञ्च पाठः। उपचारं सेवा। हृदय तथा उत्तम्य(मा?) इदानीं न किमपि प्रतिपद्यसे। इतः शिलातलैकदेशमलङ्करोतु, अनुगृह्णातु वा महाराजः। इत इत द्वितीयार्थे तसिः। कच्चित् कामप्रवेदन इत्यमरः। अक्षरं संघातनामकं लक्षणमिदम्। तदुक्तं वर्णनाक्षरसंघात-श्चित्रार्थैरक्षरैर्मितैरिति। लब्धौषध इदानीमुपशमं गमिष्यति।। महाभाग द्वयोरप्य-न्योन्यानुरागः प्रत्यक्षः। सखीस्नेहः पुनर्मां पुनरुक्तवादिनीं करोति। तेन हि शृणोतु महाभागः। आश्रम-वासिनो जनस्य राज्ञार्तिहरेण भवितव्यमिति। नन्वेष धर्मः। तेन हि इयं नः सखी त्वामुद्दिश्य भगवता मदनेनेदमवस्थानं प्रापिता।

144
चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

प्रियंवदा—अस्समवासिणो जणस्स रण्णा अत्तिहरेण होदव्वं ति णं एसो धम्मो।
(आश्रमवासिनः जनस्य राज्ञा आर्तिहरेण भवितव्यम् इति नन्वेषः धर्मः।)

राजा—अस्मात्परं किं तत्।

प्रियंवदा—तेण हि इअं णो पिअसही तुमं उद्दिसिअ भअवदा मअणेण इमं अवत्थन्तरं पाविदा। ता अरिहसि अब्भुववत्तीए जीविदं से अवलम्बिदुं। (तेन हि इयं नौ प्रियसखी त्वामुद्दिश्य भगवता मदनेनेदं अवस्थान्तरं प्रापिता। तदर्हसि अभ्युपपत्त्या जीवितम् अस्याः अवलम्बितुम्।)

राजा—भद्रे, साधारण एष प्रणयः। सर्वथानुगृहीतोऽस्मि।

शकुन्तला—(सप्रणयकोपस्मितम्) हला, अलं वो अन्तेउरविरहपज्जुस्सुएण राएसिणा उवरुद्धेण। (सखि, अलं वाम् अन्तःपुरविरहपर्युत्सुकेन राजर्षिणा उपरुद्धेन।)

राजा

इदमनन्यपरायणमन्यथा हृदयसन्निहिते हृदयं मम।
यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः॥३-२२॥

अनुसूया—महाराअ, बहुवल्लहा खु राआणो सुणीअन्ति। ता जधा इअं णो पिअसही बन्धुअणसोअणीआ ण भोदि तथा करिस्ससि।
(महाराज, बहुवल्लभाः खलु राजानः श्रूयन्ते। तद्यथा इयं नौ प्रियसखी बन्धुजन-शोचनीया न भवति तथा करिष्यसि।)

राजा—भद्रे, किं बहुना।

परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य नः।
समुद्रवसना चोर्वी सखी च युवयोरियम्॥३-२३॥

उभे—णिव्वुदाओ म्ह। (निर्वृते स्वः।)

(शकुन्तला हर्षं सूचयति)


तदर्हस्याभ्युपपत्या जीवितमस्या अवलम्बितुम्। सखि, अलं युवयोरन्तःपुरविरहपर्युत्सुकेन राजर्षिणावरुद्धेन। विधुताख्यं प्रतिमुखार्द(ङ्ग)मिदम्। तदुक्तम्-कृतस्यानन्यनस्र्यादौ विधुतं तदुपरिग्रह इति।

इदमिति०।। (3-22) हे हृदयसन्निहिते चित्तारूढे! इदं मम चित्तं नान्याश्रितम्, यद्यन्यथान्यपरायणं समर्थयसेऽवगच्छसि तदा मदनशरहतोऽपि पुनर्हतोऽस्मि। ततोऽप्यधिकदुःखादिति। संप्रत्यपि कामः प्रहरिष्यतीति भाव इत्यन्यः। महाभाग, बहुवल्लभाः खलु राजानः श्रूयन्ते। तद्यथेयं नः प्रियसखी बन्धुजनशोचनीया न भवति, तथा करिष्यसि।

परि०।।(3-23) परिग्रहा दाराः, प्रतिष्ठा उत्कर्षहेतुः। समुद्रेति रसना मेखला सागरावच्छिन्ना सम्पूर्णेत्यर्थः। परिग्रहः कलत्रे चेति शाश्वतः।

अभिज्ञानशकुन्तलम् तृतीयोऽङ्कः 145

प्रियंवदा- (जनान्तिकम्) अणुसूए, पेक्ख पेक्ख, मेहवादाहदं विअ गिम्हे मोरिं खणे खणे पच्चाअदजीविदं पिअसहिं। (अनसूये, प्रेक्षस्व प्रेक्षस्व मेघवाताहतामिव ग्रीष्मे मयूरीं क्षणे क्षणे प्रत्यागतजीवितां प्रियसखीम्।)

शकुन्तला- हला, मरिसावेध लोअवालं जं अम्हेहिं बीसद्धपलाविणीहिं उवआरादिक्कमेण भणिदं। (सख्यौ, मर्षयतं लोकपालं यदस्माभिः विस्रब्धप्रलापिनीभिः उपचारातिक्रमेण भणितम्।)

सख्यौ- (सस्मितम्) जेण तं मन्तिदं सो ज्जेव मरिसावेदु। अणस्स को अच्चओ। (येन तत् मन्त्रितं सः एव मर्षयतु। अन्यस्य कः अत्ययः।)

शकुन्तला- अरिहदि क्खु महाराओ इमं पच्चक्खवअणं विसोढुं। परोक्खं वा किं ण मन्तीअदि। (अर्हति खलु महाराजः इदं प्रत्यक्षवचनं विषोढुं परोक्षं वा किं न मन्यते।)

राजा- (सस्मितम्) अपराधमिमं ततः सहिष्ये यदि रम्भोरु तवाङ्गसङ्गसृष्टे। कुसुमास्तरणे क्लमापहं मे सुजनत्वादनुमन्यसेऽवकाशम्॥३-२४॥

प्रियंवदा- ण एत्तिकेण उण तुट्टी भविस्सदि। (नैतावता तुष्टिः भविष्यति।)

शकुन्तला- (सरोषमिव) विरम दुल्ललिदे। एदावत्थं गदाए वि मए कीळसि। (विरम दुर्ललिते। एतदवस्थां गतयापि मया क्रीडसि।)

अनुसूया- (बहिर्विलोक्य) पिअंवदे, एसो तवस्सिमिअपोदओ इदो तदो दिण्णदिट्ठी णूणं मादरं पब्भट्ठं अणुसरेदि। ता संजोएमि दाव णं। (प्रियंवदे, एषः तपस्विमृगपोतकः इतस्ततो दत्तदृष्टिः नूनं मातरं प्रभ्रष्टमनुसरति। तत्संयोजयामि तावदेनम्।)


कुव्याख्या तूपेक्षिता³⁶। अनुनयोऽलङ्कारः। वचसा कर्मणा प्रीतिर्यस्मिन्ननुनयो हि स इति शङ्करः। निर्वृते स्वः। अनसूये, प्रेक्षस्व प्रेक्षस्व मेघवाताहतामिव ग्रीष्मे मयूरीं क्षणे क्षणे प्रत्यागत-जीवितां प्रियसखीम्। सखि, मर्षयतं लोकपालं यद् अस्माभिर्विश्रब्धप्रलापिनीभिरुपचारातिक्रमेण भणितम्। अतिक्रमो भणितो वा। येन तन्मन्त्रितं, स एव मर्षयतु। अन्यस्य कोऽत्ययो भयम्। अर्हति खलु महाराज इदं प्रत्यक्षं वचनं विषोढुम्। परोक्षवचनमिति शङ्करः। परोक्षं वा न मन्यते।

अपरा० ।। (३-२४) कुसुमेति पुष्पशय्यायां स्वजनत्वादात्मीयत्वादवकाशं स्थानम्। नैतावन्मात्रेण तुष्टि-र्भविष्यति। एतेनैव तुष्ट्ये भविष्यतीति वा पाठः।।

विरम दुर्ललिते एतावदवस्थां गतयापि मया क्रीडसि। विदिताभिप्राया च। अथ च परिहाससमयोऽयं न भवति। यथा जीवामि तथैव कर्तुमुचितमिति भावः।।

विजनत्वं चिकीर्षुरनुसूया सव्याजमाह।


  1. शङ्करेण स्वटीकायां समुद्दरशना इति शब्दस्य या व्याख्या विहिता सा नोचिता, न च ग्राह्येति चन्द्रशेखरस्याभिमतम्।
146चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

प्रियंवदा—हला चवलो क्खु एसो। णं णिवारिदुं एआइणी ण पारेसि। ता अहं पि सहाअत्तणं करइस्सं। (सखि, चपलः खल्वेषः। एनं निवारयितुमेकाकिनी न पारयसि। तदहमपि सहायत्वं करिष्यामि।) (इत्युभे प्रस्थिते)

शकुन्तला—इदो अण्णदो ण वो गन्तुं अणुमण्णे जदो असहाइणि म्हि। (इतः अन्यतः न वां गन्तुमनुमन्ये यतः असहायिन्यस्मि।)

उभे—(सस्मितम्) तुमं दाव असहाइणी जाए पुढवीणाधो समीवे वट्टदि। (त्वं तावत् असहायिनी यस्याः पृथिवीनाथः समीपे वर्तते।)

(इति निष्क्रान्ते)

शकुन्तला—कधं गदाओ पिअसहीओ। (कथं गते प्रियसख्यौ।)

राजा—(दिशोऽवलोक्य) सुन्दरि अलमावेगेन। नन्वयमाराधयिता जनस्ते सखीभूमौ वर्तते। तदुच्यताम्।

किं शीकरैः क्लमविमर्दिभिरार्द्रवातं
संचालयामि नलिनीदलतालवृन्तम्।
अङ्के निधाय चरणावुत पद्मताम्रौ
संवाहयामि करभोरु यथासुखं ते॥३–२५॥


प्रियम्वदे³⁷, एष तपस्वी मृगपोतक इतस्ततो दत्तदृष्टिर्नूनं मातरं प्रभ्रष्टाम्³⁸ अनुसरति, तत् संयोजयाम्येनम्। तपस्वी तापसे दीन इति कोषः। सखि, चपलः खल्वेष नूनं, निवारयितुमेकाकिनी न पारयि(ष)ष्यसि, तदहमपि सहायत्वं करिष्यामि, तवेत्यर्थः। इतोऽन्यतो युवयोर्गमनं नानुमन्ये, त(य)तोऽसहायिन्यस्मि। त्वम् इदानीमस्यसहायिनी?, यस्याः समीपे पृथिवीनाथो वर्तते। कथं गते प्रियसख्यौ। आवेगः सखीजनोत्कण्ठा।

किं शी०।। (3-25) शीकरोऽम्बुकणाः सृता इत्यमरः। सञ्चारयामि करोमीत्यर्थः। नलिनीदलमेव तालवृन्तं व्यजनम्। उत अथवा, पद्मेति पद्मवल्लोहितौ। एतेन पद्मिनी[त्व]मस्याः [ध्वनितम्]। तदुक्तं-

मुखहस्तौ च पादौ च पद्मतुल्यं बिभर्ति या।
सर्वतः पद्मगन्धाढ्या पद्मिनी सा प्रकीर्तितेति।।

संवाहयामि पीडयामि। हे करभोरु, करभः प्राण्यङ्गं, तदिव ऊरुर्यस्याः शुभलक्षणमिदम्। तदुक्तम्-हस्तिहस्त-निभै-र्वृत्तैरच्छाभैः करभोपमैः। प्राप्नुवन्त्यूरुभिः शश्वत् स्त्रियः सुखम् अनङ्गजामिति।। व्यजनं तालवृन्तक-मित्यमरः। मालाख्यं लक्षणमिदम्। तदुक्तम् माला स्यान्यदभीष्ट्यार्थं नानार्थप्रतिपादनमिति। न माननीये-ष्वात्मानमपराध्यिष्यामि। अपरीति अनपगततीव्रातपः निर्वाण-मस्तङ्गमेनैन निर्वृतो गजमज्जने इति मेदिनी।


  1. प्रियम्वुदे इति 4117 इत्यत्र पाठः।
  2. प्रदृष्टाम् इति 4117 इत्यत्र पाठः।

अभिज्ञानशकुन्तलम् तृतीयोऽङ्कः 147

शकुन्तला—ण माणणीएसुं अत्ताणं अवराहइस्सं।
(न माननीयेषु आत्मानमपराध्यिष्यामि।) (अवस्थासदृशमुत्थाय प्रस्थिता)
राजा—(अवष्टभ्य) सुन्दरि, अपरिनिर्वाणो दिवसः। इयं च ते शरीरावस्था।
उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणा।
कथमातपे गमिष्यसि परिबाधाकोमलैरङ्गैः॥३–२६॥
(इति धारयति)

शकुन्तला—मुञ्च मुञ्च। ण क्खु अत्तणो पहवामि। अथवा सहीमेत्तसरणा किं दाणिं एत्थ करइस्सं। (मुञ्च मुञ्च न खल्वात्मनः प्रभवामि। अथवा सखीमात्रशरणा किमिदानीमत्र करिष्यामि।)
राजा—धिक्। व्रीडितोऽस्मि।
शकुन्तला—ण क्खु अहं महाराअं भणामि। देव्वं उवालहामि। (न खल्वहं महाराजं भणामि। दैवमुपालभे।)
राजा—अनुकूलकारि दैवं किमुपालभ्यते।
शकुन्तला—कधं दाणिं ण उवालहिस्सं जं मं अत्तणो अणीसं परगुणेहिं लोहावेदी। (कथं इदानीं न उपालप्स्ये यत् मामात्मनः अनीशां परगुणैः लोभयति।)
राजा—(स्वगतम्)
अप्यौत्सुक्ये महति दयितप्रार्थनासु प्रतीपाः
काङ्क्षन्त्योऽपि व्यतिकरसुखं कातराः स्वाङ्गदाने।
आबाध्यन्ते न खलु मदनेनैव लब्धान्तरात्वाद्
आबाधन्ते मनसिजमपि क्षिप्तकालाः कुमार्य्यः॥३–२७॥
(शकुन्तला गच्छत्येव)
राजा—कथमात्मनः प्रियं न करिष्ये। (उपसृत्य पटान्तरमवलम्बते)


(3-26) इयं ग्रीष्मातपासहिष्णुः। परिबाधायां कोमलैर्दुःखासहैहित्यर्थः। अङ्गैर्विशिष्ट्य।। मुञ्च मुञ्च, न खल्वात्मनः प्रभवामि। येन त्वन्मनोरथपूरणं क्रियते(क्रियेत) इति भावः। अथवा सखीमात्रशरणा किमिदानीम् अत्र करिष्यामीति। अतो यातुं देहीति बाह्यतः हृदयन्त्वभ्युपगम(तः?) एव। राज्ञः शैथिल्यशङ्कां निराचिकीर्षुराह–न खल्वहं महाभागं भणामि, दैवं प्राक्तनकर्म्म उपालभे निन्दामि। कथमदानीं नोप(पा)लप्से, यदात्मनोऽनीशां मां परगुणैर्लोभयति।

अपि०।। (3-27) व्यतिकरः सम्पर्कः। मनसिजबाधे हेतुरयम्। अन्तरमवकाशः। अयं तु कुमारीबाधे हेतुः क्षिण्डे(प्ते)ति। अतिक्रान्तसुरतसमयाः। अन्योन्यं बाध्यबाधकतेत्यर्थः। काव्यलिङ्गमलंकारः।।

148 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

शकुन्तला-पोरव, रक्ख विणअं। इदो तदो इसीओ सञ्चरन्ति। (पौरव, रक्ष विनयम्। इतस्ततः ऋषयः सञ्चरन्ति।)

राजा-सुन्दरि, अलं गुरुजनाद्भयेन। न ते विदितधर्मा तत्रभवान् कण्वः खेदमुपयास्यति।

गान्धर्वेण विवाहेन बह्व्योऽथ मुनिकन्यकाः।
श्रूयन्ते परिणीतास्ताः पितृभिश्चानुमोदिताः॥३-२८॥

(दिशोऽवलोक्य) कथं प्रकाशं निर्गतोऽस्मि।

(शकुन्तलां हित्वा पुनस्तैरेव पदैः प्रतिनिवर्तते)

शकुन्तला-(पदान्तरे प्रतिनिवृत्य साङ्गभङ्गम्) पोरव, अणिच्छापूरओ वि संभासणमेत्तएण परिचिदो अअं जणो ण विसुमरिदव्वो।

(पौरव, अनिच्छापूरकोऽपि संभाषणमात्रेण परिचितोऽयं जनः न विस्मर्तव्यः।)

राजा-सुन्दरि,

त्वं दूरमपि गच्छन्ती हृदयं न जहासि मे।
दिनावसानच्छायेव पुरोमूलं वनस्पतेः॥३-२९॥

शकुन्तला-(स्तोकमन्तरं गत्वा आत्मगतम्) हद्धी हद्धी। इमं सुणिअ ण मे चलणा पुरोमुहा पसरन्ति। भोदु। इमेहिं पज्जन्तकुरुवएहिं ओवारिदसरीरा पेक्खिस्सं दाव से भावाणुबन्धं। (हा धिक् हा धिक्। इदं श्रुत्वा न मे चरणौ पुरोमुखौ प्रसरतः। भवतु एभिः पर्यन्तकुरबकैः अपवारितशरीरा प्रेक्षिष्ये तावदस्य भावानुबन्धम्।)

(तथा कृत्वा स्थिता)

राजा-कथमेवं प्रिये अनुरागैकरसं मामुत्सृज्य निरपेक्षैव गतासि।

अनिर्दयोपभोग्यस्य रूपस्य मृदुनः कथम्।
कठिनं खलु ते चेतः शिरीषस्येव बन्धनम्॥३-३०॥

शकुन्तला-एदं सुणिअ णत्थि मे विहवो गच्छिदुं। (एतत् श्रुत्वा नास्ति मे विभवः गन्तुम्।)


पौरव, रक्ष विनयम्। इतस्तत ऋषयः सञ्चरन्ति। अत्रभवान् पूज्यः। गान्ध०॥ (3-28) इच्छयान्योन्यसंयोगः कन्यायाश्च वरस्य च। गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसम्भवः॥ इति मनुः। आख्याननामा नाट्यालङ्कारोऽयम्। तदुक्तम्-आख्यानं यत्र दृष्टान्तात् पुरावृत्तस्य कीर्तनमिति। प्रकाशं प्रकटं यथा स्यात्। प्रकाशश्चत्वरं, प्रकाशश्चत्वरे भासीति नानार्थ इति शङ्करः। पौरव, अनिच्छापूर्व्व(र)कोऽपि सम्भाषणमात्रेण परिचितोऽयं जनो न विस्मर्त्तव्यः। त्वं दूरमिति०॥ (3-29) पुरोमूलं पूर्व्वदिक्सम्बन्धिमूलं। पश्चिमादिक्सम्बन्धिमूलस्य च्छायां च्छायया परित्यागात्। वृक्षमात्रे वनस्पतैरिति कोषः। हा धिक् एतच्छ्रुत्वा न मे चरणौ पुरोमुखौ प्रसरतः। भवत(तु) एतैः पर्यन्तकुरबकैनिर्कटबाणकुसुमैरम्लान-पुष्पैर्वापवारितशरीरा प्रेक्षिष्ये तावदस्य भावानुबन्धम्। अनि०॥

अभिज्ञानशकुन्तलम् तृतीयोऽङ्कः 149

राजा—सम्प्रति प्रियाशून्ये किमस्मिन्करोमि। (अग्रतोऽवलोक्य) हन्त, व्याहतं गमनम्।

मणिबन्धनगलितमिदं संक्रान्तोशीरपरिमलं तस्याः।
हृदयस्य निगडमिव मे मृणालवलयं स्थितं पुरतः।। 3–31।।
(सबहुमानमादत्ते)

शकुन्तला—(हस्तं विलोक्य) अम्भो, दोव्वल्लसिढिलदाए परिब्भट्ठं पि मुणालवलअं मए ण परिण्णादं। (अम्भो, दौर्बल्यशिथिलतया परिभ्रष्टमपि मृणालवलयं मया न परिज्ञातम्।)

राजा—(मृणालवलयमुरसि निक्षिप्य) अहो स्पर्शः।

अनेन लीलाभरणेन ते प्रिये
विहाय कान्तं भुजमत्र तिष्ठता।
जनः समाश्वासित एष दुःखभाग्
अचेतनेनापि सता न तु त्वया।। 3–32।।

शकुन्तला—अदो वरं असमत्थ म्हि विलम्बिदुं। भोदु। एदेण ज्जेव अवदेसेण अत्ताणं दंसइस्सं। (अतः परमसमर्थास्मि विलम्बितुम्। भवतु। एतेन तव अपदेशेन आत्मानं दर्शयिष्यामि।) (इत्युपसर्पति)

राजा—(दृष्ट्वा सहर्षम्) अये, जीवितेश्वरी मे प्राप्ता। परिदेवितानन्तरं प्रसादेनोपकर्तव्योऽस्मि खलु दैवस्य।

पिपासाक्षामकण्ठेन याचितं चाम्बु पक्षिणा।
नवमेघोज्झिता चास्य धारा निपतिता मुखे।। 3–33।।


(3-30) रूपस्य शरीरस्य बन्धनं वृन्तम्। रूपं स्वभावे सौन्दर्ये नालके पशुशब्दयोः। ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपीति मेदिनी। इदं श्रुत्वा नास्ति मे विभवः सामर्थ्यं गन्तुम्। मणि०।। (3-31) मणिबन्धनं करमूलम्। उशीरं वीरणमूलम्। निगडमिव बन्धशृङ्खलमिव। अम्मो विस्मये। दौर्बल्यशिथिलतया भ्रष्टमपि मृणाल-वलयं न मया परिज्ञातम्।

अनेन०।। (3-32) कान्तमपि भुजं त्यक्त्वात्रोरसि। अतः परमसमर्थोस्मि विलम्बितुम्। भवत्वनेनैवापदेशेन व्याजेनात्मानं दर्शयिष्यामि।

पिपा०।। (3-33) क्षामं क्षीणं पक्षिणां चातकेनार्थात्। आर्य, अर्द्धपथे स्मृत्वा शतस्य हस्तभ्रंशिनो³⁹ मृणालवलयस्य कृते निमित्तमागतास्मि। आख्यातमिव मे हृदयेन त्वया गृहीतमिति, तस्मान्निक्षिप्तैतत्। अदाने दोषमाह-मा[म् आ] त्मानञ्च मुनिजनेषु प्रकाशयिष्यसि। वलयशून्यं मदीयं करं विलोक्य मुनिजनानां वितर्को भावीति प्रकाशसम्भावनेति शङ्करः, तद्विचार्य्यम्। अभिसन्धिनाभिप्रायेण प्रत्यर्पयामि। केन पुनः। का गतिरुपायः भवत्वेवन्तावत्।


  1. हस्तध्वंसिनो इति 4117 इत्यत्र पाठः।

150 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

शकुन्तला- (राज्ञः प्रमुखे स्थिता) अज्ज, अद्धपथे सुमरिअ एदस्स हत्थब्भंसिणो मुणालवलअस्स किदे पडिणिउत्त म्हि। आचक्खिदं विअ मे हिअएण तए गहिदं ति। ता णिक्खिव एदं, मा मं अत्ताणं च मुणिअणेसुं पआसइस्सि। (आर्य, अर्धपथे स्मृत्वा एतस्य हस्तभ्रंशिनः मृणालवलयस्य कृते प्रतिनिवृत्तास्मि। आख्यातमिव मे हृदयेन त्वया गृहीतमिति। तत् निक्षिप एतत्, मा मामात्मानं च मुनिजनेषु प्रकाशयिष्यसि।)
राजा- एकेनाभिसन्धिना प्रत्यर्पयामि।
शकुन्तला- केण उण। (केन पुनः।)
राजा- यदिदमहमेव यथास्थानं निवेशयामि।
शकुन्तला- (आत्मगतम्) का गदी। (का गतिः।) (इत्युपसर्पति)
राजा- इतः शिलापट्टकमेव संश्रयाव। (इत्युभौ परिक्रम्योपविष्टौ)
राजा- (शकुन्तलाया हस्तमादाय) अहो स्पर्शः।

हरकोपाग्निदग्धस्य, दैवेनामृतवर्षिणा।
प्ररोहः संभृतो भूयः, किं स्वित्कामतरोरयम्॥ ३-३४॥

शकुन्तला- (स्पर्शं रूपयित्वा) तुवरदु तुवरदु अज्जउत्तो। (त्वरतां त्वरतामार्यपुत्रः।)
राजा- (सहर्षमात्मगतम्) इदानीमस्मि विश्वस्तः। भर्तृराभाषणपदमेतत्। (प्रकाशम्) सुन्दरि, नातिश्लिष्टः सन्धिरस्य मृणालवलयस्य। यदि तेऽभिप्रेतम् अन्यथा घटयिष्यामि।
शकुन्तला- (स्मितं कृत्वा) जधा दे रोअदि। (यथा ते रोचते।)
राजा- (सव्याजं विलम्ब्य प्रतिमुच्य) सुन्दरि! दृश्यताम्।

अयं स ते श्यामलतामनोहरं
विशेषशोभार्थमिवोज्झिताम्बरः ।
मृणालरूपेण नवो निशाकरः
करं समेत्योभयकोटिमाश्रितः॥ ३-३५॥


हर०॥ (3-34) दैवेनादृष्टेन प्ररोहोऽङ्कुरः। स्विच्छब्दो वितर्के। काम एव भवति। त्वरताम् त्वरतो(ता)म् [आ]र्य्यपुत्रः। यथा ते रोचते। प्रतिमुच्य परिधाप्य। आयुक्तः प्रतिमुक्तश्च पिनद्धश्चापि नद्धवत् इत्यमरः।
अयं०॥ (3-35) श्यामलता लताभेदः। विशेषेति एतेनाकाशचन्द्रमसोऽप्यस्या हस्तमृणालस्य सौन्दर्यमुक्तम्। करं ममैत्य प्राप्य उभयकोटिमाश्रितः। उभयात्र भागेन मिलित्वा मण्डलतां यात इत्यर्थः। नभसि कोटिद्वय-मिलनशोभा कदाचित्की, इह तु सार्व्वत्रिकी स्यादि(दिति) भावः।
न तु तावदुत्प्रेक्ष्ये। पवनोत्कम्पिना कर्णोत्पलररेणुना कलुषीकृता मे दृष्टिः। ततोऽनुकम्पिता भवेयम्। किं पुनस्तेन विश्वसिमि। तत् कुर्व्वंश्चेद् अन्यदेव किमपि कुर्य्यास्तदा किं करोमीति भावः।

अभिज्ञानशकुन्तलम्तृतीयोऽङ्कः151

शकुन्तला—ण दाव णं पेक्खामि। पवणुककम्पिणा कण्णुप्पलरेणुणा कलुसीकिदा मे दिट्ठी। (न तावदेनं प्रेक्षे। पवनोत्कम्पिना कर्णोत्पलरेणुना कलुषीकृता मे दृष्टिः।)

राजा—(सस्मितम्) यदि मन्यसे अहमेनां वदनमारुतेन विशदां करिष्ये।

शकुन्तला—तदो अणुकम्पिदा भवे। किं उण ण दे वीससामि। (ततः अनुकम्पिता भवेयम्। किं पुनः न ते विश्वसिमि।)

राजा—मा मैवम्। नवो हि परिजनः सेव्यानामादेशात्परं न वर्तते।

शकुन्तला—अअं जेव अच्चुवआरो अविस्सासजणओ। (अयमेव अत्युपचारः अविश्वासजनकः।)

राजा—(स्वगतम्) नाहमेतं रमणीयं सेवावकाशमात्मनः शिथिलयिष्ये। (इति मुखम् उन्नमयितुं प्रवृत्तः। शकुन्तला प्रतिषेधं रूपयन्ती विरमति।)

राजा—अयि मदिरेक्षणे, अलमस्मदविनयाशङ्कया। (शकुन्तला किंचिद् दृष्ट्वावनतमुखी तिष्ठति)

राजा—(अङ्गुलीभ्यां मुखमुन्नमय्यात्मगतम्)

चारुणा स्फुरितेनायमपरिक्षतकोमलः।
पिपासतो ममानुज्ञां ददातीव प्रियाधरः॥३-३६॥

शकुन्तला—पडिण्णामन्दथरो विअ अज्जउत्तो। (प्रतिज्ञामन्थरः इव आर्यपुत्रः।)

राजा—सुन्दरि, कर्णोत्पलसन्निकर्षाद् ईक्षणसादृश्यमूढोऽस्मि।
(इति मुखमारुतेन चक्षुः सेवते।)

शकुन्तला—भोदु। पडित्थदंसण म्हि संवृत्ता। लज्जामि उण अणुवआरिणी पिअआरिणो अज्जउत्तस्स। (भवतु, प्रकृतिस्थदर्शनास्मि संवृत्ता। लज्जे पुनः अनुपकारिणी प्रियकारिणः आर्यपुत्रस्य।)


अयमेवात्यादरोऽविश्वासजनकः। प्रतिषेधं ना-ने-त्यादि। अवनतेति लज्जितेयं दृष्टिः। यदाह भरतः-किञ्चित् कुञ्चितपक्ष्माग्रापतितोर्ध्वपुटकिया। त्रपाधोमुखभावा च लज्जिता दृष्टिरिष्यते इति।। चारुणेति०।। (3-36) स्फुरितं कम्पः। अधरस्फुरणं वल्लभसम्भोग चिह्नमिति केचित्। आकाङ्क्षा नाट्यालंकारोऽयम्। तदुक्तम्-आकाङ्क्षा रमणीयत्वाद्वस्तुनो या मा स्पृशतु सेति। प्रतिज्ञामन्थर इवार्य्यपुत्रः। मुखमारुतेन दृष्टेरेव विशदीकार्य्या। तत् कथमधरे मुखनिवेशवावष्टम्भ इति भावः। कौ(कै)शिकी भेदोऽयं नर्मस्फूटः। यदाह-नायिकायाश्च नेत्रुश्च यदेकान्ते परस्परम्। सम्भोगानुमतं वाक्यं नर्मस्फोटः स कथ्यते।। इति शङ्करः। भवतु प्रकृतिस्थदर्शनास्मि संवृत्ता। लज्जे पुनरनुपकारिणी उपकारिणः प्रियकारिणो वा आर्य्यपुत्रस्य।

इदं०।। (3-37) ननु निश्चये, न त्विति शङ्करः। तेनालिङ्गनमपि देहीति भाव इति व्याचष्टे