अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 163, कुल 262 में से
संदर्भ में पढ़ेंअभिज्ञानशकुन्तलम् तृतीयोऽङ्कः 149
राजा—सम्प्रति प्रियाशून्ये किमस्मिन्करोमि। (अग्रतोऽवलोक्य) हन्त, व्याहतं गमनम्।
मणिबन्धनगलितमिदं संक्रान्तोशीरपरिमलं तस्याः।
हृदयस्य निगडमिव मे मृणालवलयं स्थितं पुरतः।। 3–31।।
(सबहुमानमादत्ते)
शकुन्तला—(हस्तं विलोक्य) अम्भो, दोव्वल्लसिढिलदाए परिब्भट्ठं पि मुणालवलअं मए ण परिण्णादं। (अम्भो, दौर्बल्यशिथिलतया परिभ्रष्टमपि मृणालवलयं मया न परिज्ञातम्।)
राजा—(मृणालवलयमुरसि निक्षिप्य) अहो स्पर्शः।
अनेन लीलाभरणेन ते प्रिये
विहाय कान्तं भुजमत्र तिष्ठता।
जनः समाश्वासित एष दुःखभाग्
अचेतनेनापि सता न तु त्वया।। 3–32।।
शकुन्तला—अदो वरं असमत्थ म्हि विलम्बिदुं। भोदु। एदेण ज्जेव अवदेसेण अत्ताणं दंसइस्सं। (अतः परमसमर्थास्मि विलम्बितुम्। भवतु। एतेन तव अपदेशेन आत्मानं दर्शयिष्यामि।) (इत्युपसर्पति)
राजा—(दृष्ट्वा सहर्षम्) अये, जीवितेश्वरी मे प्राप्ता। परिदेवितानन्तरं प्रसादेनोपकर्तव्योऽस्मि खलु दैवस्य।
पिपासाक्षामकण्ठेन याचितं चाम्बु पक्षिणा।
नवमेघोज्झिता चास्य धारा निपतिता मुखे।। 3–33।।
(3-30) रूपस्य शरीरस्य बन्धनं वृन्तम्। रूपं स्वभावे सौन्दर्ये नालके पशुशब्दयोः। ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपीति मेदिनी। इदं श्रुत्वा नास्ति मे विभवः सामर्थ्यं गन्तुम्। मणि०।। (3-31) मणिबन्धनं करमूलम्। उशीरं वीरणमूलम्। निगडमिव बन्धशृङ्खलमिव। अम्मो विस्मये। दौर्बल्यशिथिलतया भ्रष्टमपि मृणाल-वलयं न मया परिज्ञातम्।
अनेन०।। (3-32) कान्तमपि भुजं त्यक्त्वात्रोरसि। अतः परमसमर्थोस्मि विलम्बितुम्। भवत्वनेनैवापदेशेन व्याजेनात्मानं दर्शयिष्यामि।
पिपा०।। (3-33) क्षामं क्षीणं पक्षिणां चातकेनार्थात्। आर्य, अर्द्धपथे स्मृत्वा शतस्य हस्तभ्रंशिनो³⁹ मृणालवलयस्य कृते निमित्तमागतास्मि। आख्यातमिव मे हृदयेन त्वया गृहीतमिति, तस्मान्निक्षिप्तैतत्। अदाने दोषमाह-मा[म् आ] त्मानञ्च मुनिजनेषु प्रकाशयिष्यसि। वलयशून्यं मदीयं करं विलोक्य मुनिजनानां वितर्को भावीति प्रकाशसम्भावनेति शङ्करः, तद्विचार्य्यम्। अभिसन्धिनाभिप्रायेण प्रत्यर्पयामि। केन पुनः। का गतिरुपायः भवत्वेवन्तावत्।
- हस्तध्वंसिनो इति 4117 इत्यत्र पाठः।