भारतकोश
संग्रह पर लौटें

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

अभिज्ञानशकुन्तलम् तृतीयोऽङ्कः 149

राजा—सम्प्रति प्रियाशून्ये किमस्मिन्करोमि। (अग्रतोऽवलोक्य) हन्त, व्याहतं गमनम्।

मणिबन्धनगलितमिदं संक्रान्तोशीरपरिमलं तस्याः।
हृदयस्य निगडमिव मे मृणालवलयं स्थितं पुरतः।। 3–31।।
(सबहुमानमादत्ते)

शकुन्तला—(हस्तं विलोक्य) अम्भो, दोव्वल्लसिढिलदाए परिब्भट्ठं पि मुणालवलअं मए ण परिण्णादं। (अम्भो, दौर्बल्यशिथिलतया परिभ्रष्टमपि मृणालवलयं मया न परिज्ञातम्।)

राजा—(मृणालवलयमुरसि निक्षिप्य) अहो स्पर्शः।

अनेन लीलाभरणेन ते प्रिये
विहाय कान्तं भुजमत्र तिष्ठता।
जनः समाश्वासित एष दुःखभाग्
अचेतनेनापि सता न तु त्वया।। 3–32।।

शकुन्तला—अदो वरं असमत्थ म्हि विलम्बिदुं। भोदु। एदेण ज्जेव अवदेसेण अत्ताणं दंसइस्सं। (अतः परमसमर्थास्मि विलम्बितुम्। भवतु। एतेन तव अपदेशेन आत्मानं दर्शयिष्यामि।) (इत्युपसर्पति)

राजा—(दृष्ट्वा सहर्षम्) अये, जीवितेश्वरी मे प्राप्ता। परिदेवितानन्तरं प्रसादेनोपकर्तव्योऽस्मि खलु दैवस्य।

पिपासाक्षामकण्ठेन याचितं चाम्बु पक्षिणा।
नवमेघोज्झिता चास्य धारा निपतिता मुखे।। 3–33।।


(3-30) रूपस्य शरीरस्य बन्धनं वृन्तम्। रूपं स्वभावे सौन्दर्ये नालके पशुशब्दयोः। ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपीति मेदिनी। इदं श्रुत्वा नास्ति मे विभवः सामर्थ्यं गन्तुम्। मणि०।। (3-31) मणिबन्धनं करमूलम्। उशीरं वीरणमूलम्। निगडमिव बन्धशृङ्खलमिव। अम्मो विस्मये। दौर्बल्यशिथिलतया भ्रष्टमपि मृणाल-वलयं न मया परिज्ञातम्।

अनेन०।। (3-32) कान्तमपि भुजं त्यक्त्वात्रोरसि। अतः परमसमर्थोस्मि विलम्बितुम्। भवत्वनेनैवापदेशेन व्याजेनात्मानं दर्शयिष्यामि।

पिपा०।। (3-33) क्षामं क्षीणं पक्षिणां चातकेनार्थात्। आर्य, अर्द्धपथे स्मृत्वा शतस्य हस्तभ्रंशिनो³⁹ मृणालवलयस्य कृते निमित्तमागतास्मि। आख्यातमिव मे हृदयेन त्वया गृहीतमिति, तस्मान्निक्षिप्तैतत्। अदाने दोषमाह-मा[म् आ] त्मानञ्च मुनिजनेषु प्रकाशयिष्यसि। वलयशून्यं मदीयं करं विलोक्य मुनिजनानां वितर्को भावीति प्रकाशसम्भावनेति शङ्करः, तद्विचार्य्यम्। अभिसन्धिनाभिप्रायेण प्रत्यर्पयामि। केन पुनः। का गतिरुपायः भवत्वेवन्तावत्।


  1. हस्तध्वंसिनो इति 4117 इत्यत्र पाठः।

150 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

शकुन्तला- (राज्ञः प्रमुखे स्थिता) अज्ज, अद्धपथे सुमरिअ एदस्स हत्थब्भंसिणो मुणालवलअस्स किदे पडिणिउत्त म्हि। आचक्खिदं विअ मे हिअएण तए गहिदं ति। ता णिक्खिव एदं, मा मं अत्ताणं च मुणिअणेसुं पआसइस्सि। (आर्य, अर्धपथे स्मृत्वा एतस्य हस्तभ्रंशिनः मृणालवलयस्य कृते प्रतिनिवृत्तास्मि। आख्यातमिव मे हृदयेन त्वया गृहीतमिति। तत् निक्षिप एतत्, मा मामात्मानं च मुनिजनेषु प्रकाशयिष्यसि।)
राजा- एकेनाभिसन्धिना प्रत्यर्पयामि।
शकुन्तला- केण उण। (केन पुनः।)
राजा- यदिदमहमेव यथास्थानं निवेशयामि।
शकुन्तला- (आत्मगतम्) का गदी। (का गतिः।) (इत्युपसर्पति)
राजा- इतः शिलापट्टकमेव संश्रयाव। (इत्युभौ परिक्रम्योपविष्टौ)
राजा- (शकुन्तलाया हस्तमादाय) अहो स्पर्शः।

हरकोपाग्निदग्धस्य, दैवेनामृतवर्षिणा।
प्ररोहः संभृतो भूयः, किं स्वित्कामतरोरयम्॥ ३-३४॥

शकुन्तला- (स्पर्शं रूपयित्वा) तुवरदु तुवरदु अज्जउत्तो। (त्वरतां त्वरतामार्यपुत्रः।)
राजा- (सहर्षमात्मगतम्) इदानीमस्मि विश्वस्तः। भर्तृराभाषणपदमेतत्। (प्रकाशम्) सुन्दरि, नातिश्लिष्टः सन्धिरस्य मृणालवलयस्य। यदि तेऽभिप्रेतम् अन्यथा घटयिष्यामि।
शकुन्तला- (स्मितं कृत्वा) जधा दे रोअदि। (यथा ते रोचते।)
राजा- (सव्याजं विलम्ब्य प्रतिमुच्य) सुन्दरि! दृश्यताम्।

अयं स ते श्यामलतामनोहरं
विशेषशोभार्थमिवोज्झिताम्बरः ।
मृणालरूपेण नवो निशाकरः
करं समेत्योभयकोटिमाश्रितः॥ ३-३५॥


हर०॥ (3-34) दैवेनादृष्टेन प्ररोहोऽङ्कुरः। स्विच्छब्दो वितर्के। काम एव भवति। त्वरताम् त्वरतो(ता)म् [आ]र्य्यपुत्रः। यथा ते रोचते। प्रतिमुच्य परिधाप्य। आयुक्तः प्रतिमुक्तश्च पिनद्धश्चापि नद्धवत् इत्यमरः।
अयं०॥ (3-35) श्यामलता लताभेदः। विशेषेति एतेनाकाशचन्द्रमसोऽप्यस्या हस्तमृणालस्य सौन्दर्यमुक्तम्। करं ममैत्य प्राप्य उभयकोटिमाश्रितः। उभयात्र भागेन मिलित्वा मण्डलतां यात इत्यर्थः। नभसि कोटिद्वय-मिलनशोभा कदाचित्की, इह तु सार्व्वत्रिकी स्यादि(दिति) भावः।
न तु तावदुत्प्रेक्ष्ये। पवनोत्कम्पिना कर्णोत्पलररेणुना कलुषीकृता मे दृष्टिः। ततोऽनुकम्पिता भवेयम्। किं पुनस्तेन विश्वसिमि। तत् कुर्व्वंश्चेद् अन्यदेव किमपि कुर्य्यास्तदा किं करोमीति भावः।

अभिज्ञानशकुन्तलम्तृतीयोऽङ्कः151

शकुन्तला—ण दाव णं पेक्खामि। पवणुककम्पिणा कण्णुप्पलरेणुणा कलुसीकिदा मे दिट्ठी। (न तावदेनं प्रेक्षे। पवनोत्कम्पिना कर्णोत्पलरेणुना कलुषीकृता मे दृष्टिः।)

राजा—(सस्मितम्) यदि मन्यसे अहमेनां वदनमारुतेन विशदां करिष्ये।

शकुन्तला—तदो अणुकम्पिदा भवे। किं उण ण दे वीससामि। (ततः अनुकम्पिता भवेयम्। किं पुनः न ते विश्वसिमि।)

राजा—मा मैवम्। नवो हि परिजनः सेव्यानामादेशात्परं न वर्तते।

शकुन्तला—अअं जेव अच्चुवआरो अविस्सासजणओ। (अयमेव अत्युपचारः अविश्वासजनकः।)

राजा—(स्वगतम्) नाहमेतं रमणीयं सेवावकाशमात्मनः शिथिलयिष्ये। (इति मुखम् उन्नमयितुं प्रवृत्तः। शकुन्तला प्रतिषेधं रूपयन्ती विरमति।)

राजा—अयि मदिरेक्षणे, अलमस्मदविनयाशङ्कया। (शकुन्तला किंचिद् दृष्ट्वावनतमुखी तिष्ठति)

राजा—(अङ्गुलीभ्यां मुखमुन्नमय्यात्मगतम्)

चारुणा स्फुरितेनायमपरिक्षतकोमलः।
पिपासतो ममानुज्ञां ददातीव प्रियाधरः॥३-३६॥

शकुन्तला—पडिण्णामन्दथरो विअ अज्जउत्तो। (प्रतिज्ञामन्थरः इव आर्यपुत्रः।)

राजा—सुन्दरि, कर्णोत्पलसन्निकर्षाद् ईक्षणसादृश्यमूढोऽस्मि।
(इति मुखमारुतेन चक्षुः सेवते।)

शकुन्तला—भोदु। पडित्थदंसण म्हि संवृत्ता। लज्जामि उण अणुवआरिणी पिअआरिणो अज्जउत्तस्स। (भवतु, प्रकृतिस्थदर्शनास्मि संवृत्ता। लज्जे पुनः अनुपकारिणी प्रियकारिणः आर्यपुत्रस्य।)


अयमेवात्यादरोऽविश्वासजनकः। प्रतिषेधं ना-ने-त्यादि। अवनतेति लज्जितेयं दृष्टिः। यदाह भरतः-किञ्चित् कुञ्चितपक्ष्माग्रापतितोर्ध्वपुटकिया। त्रपाधोमुखभावा च लज्जिता दृष्टिरिष्यते इति।। चारुणेति०।। (3-36) स्फुरितं कम्पः। अधरस्फुरणं वल्लभसम्भोग चिह्नमिति केचित्। आकाङ्क्षा नाट्यालंकारोऽयम्। तदुक्तम्-आकाङ्क्षा रमणीयत्वाद्वस्तुनो या मा स्पृशतु सेति। प्रतिज्ञामन्थर इवार्य्यपुत्रः। मुखमारुतेन दृष्टेरेव विशदीकार्य्या। तत् कथमधरे मुखनिवेशवावष्टम्भ इति भावः। कौ(कै)शिकी भेदोऽयं नर्मस्फूटः। यदाह-नायिकायाश्च नेत्रुश्च यदेकान्ते परस्परम्। सम्भोगानुमतं वाक्यं नर्मस्फोटः स कथ्यते।। इति शङ्करः। भवतु प्रकृतिस्थदर्शनास्मि संवृत्ता। लज्जे पुनरनुपकारिणी उपकारिणः प्रियकारिणो वा आर्य्यपुत्रस्य।

इदं०।। (3-37) ननु निश्चये, न त्विति शङ्करः। तेनालिङ्गनमपि देहीति भाव इति व्याचष्टे

152 || चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

राजा- सुन्दरि, किमन्यत्।

इदमप्युपकृतिपक्षे सुरभि मुखं ते मया यदाघ्रातम्।
ननु कमलस्य मधुकरः सन्तुष्यति गन्धमात्रेण॥३-३७॥

शकुन्तला- असंतोसे उण किं करेदि। (असंतोषे पुनः किं करोति।)

राजा- इदमिदम्। (इति व्यवसितो, वक्त्रं ढौकते।)

(नेपथ्ये)

चक्कवाअवहु। आमन्तेहि सहअरं। उवत्थिदा रअणी।
(चक्रवाकवधु, आमन्त्रय सहचरम्, उपस्थिता रजनी।)

शकुन्तला- (कर्णं दत्त्वा ससंभ्रमम्) अज्जउत्त। एसा खु तादकण्वस्स धम्मबहिणी कणीअसि अज्जा गोदमी मम वुत्तन्तोवलम्भणणिमित्तं आअदा। ता विडवन्तरिदो होहि। (आर्यपुत्र, एषा खलु मम वृत्तान्तोपलम्भननिमित्तम् आर्या गौतमी आगता। तद्विटपान्तरितः भव।)

राजा- तथा। (इत्येकान्ते स्थितः)

प्रविश्य पात्रहस्ता गौतमी- जाद, इदं सन्तिउदअं। (दृष्ट्वा समुत्थाप्य) असुत्था इध देवदासहाइणी चिट्ठसि। (जात, इदं शान्त्युदकम्। अस्वस्था इह देवतासहायिनी तिष्ठसि।)

शकुन्तला- इदाणिं जेव पिअंवदाअणूसूआओ मालिणिं ओदिण्णाओ। (इदानीं एव प्रियंवदानुसूये मालिनीमवतीर्णे।)


दुष्यन्तः। शकुन्तलापि सम्भोगाय सव्याजमाह। असन्तोषे पुनः किं करोति। मधुकर इत्यर्थात्। इदमित्यधरपानाद्यभिनयं कुर्वन्। शकुन्तला वक्त्रं ढौकते गूहति। कौ(कै)शिकीवृत्तङ्ग नर्म्मभेदोऽयं शृङ्गारहास्यविहितः। तदुक्तम्-वैदग्ध्यक्रीडितं नर्म इष्टजनावर्तनं कृतच्च त्रिविधं मतम्। विदूषा हास्येन केवलेन तु विहित शृङ्गारभितियुक्तेन। शङ्करस्तु “इदम्” इति व्यवसितो यत्नं कर्तुमुद्यत इत्यर्थः। शकुन्तला कर्त्री वक्त्रं ढौकते, पिधत्त इत्यर्थः। न तु चुम्बतीत्यर्थः। आ न मे “कथमभ्युन्नमितं न चुम्बितं तदि”ति विरोधात्। एवञ्च भरते साक्षाच्चुम्बननिषेधाच्च। तदुक्तम् न कार्यं शयनं रङ्गे नाट्ययोगमपेक्षता। केनचिद्व्यपदेशेन तद्विच्छेदञ्च कारयेत्।। यदि स्वपेद् अर्थवशात् पुरुषः सहितः स्त्रिया। न तत्र चुम्बनं कुर्य्यान्निर्वाञ्जालिङ्गनं न चेति।। नेपथ्य इति। चूलिकाख्यो[र्थो]पक्षेपकभेदः। चक्रवाकवधूरामन्त्रयति सहचरं “उपस्थिता रजनी”। अथ च प्रकृतविघ्नकारित्वाद् रजनीव रजनी गौतमी। तत्प्रवेश(शः) सख्यौ सूचितवत्यौ।। ससंभ्रममिति संभ्रमं त्रयम् इच्छन्ति, भयमुद्वेगमादरमिति कोषः। गौतमीजाने(ज्ञाने)⁴⁰ भयं, वल्लभा[ला]पो दुर्लभ इत्युद्वेगः।

उपजीव्यागमनमित्यादरः। आर्य्यपुत्र, एषा खलु तातकण्वस्य धर्म्यभगिनी क(र)णीयसीवार्य्या गौतमी मम प्रवृत्तान्तोपलम्भननिमित्तमागता, तद्विटपान्तरितो भव। जाते पुत्रि, जातशब्देनापत्यमात्रमुच्यते।


  1. गौतमीजाने इति 4118 इत्यत्र।

अभिज्ञानशकुन्तलम् तृतीयोऽङ्कः 153

गौतमी-(शान्त्युदकेन शकुन्तलामभ्युक्ष्य) जाद, णिराबाधा मे चिरं जीव। अवि लहुसंतावाइं दे अङ्गाइं। (जात, निराबाधा मे चिरंजीव। अपि लघुसन्तापानि ते अङ्गानि।)
(इति स्पृशति)

शकुन्तला-अज्जे, अत्थि विसेसो। (आर्ये, अस्ति विशेषः।)

गौतमी-परिणदो दिअसो। ता एहि। उडअं जेव गच्छम्ह। (परिणतः दिवसः। तदेहि। उटजमेव गच्छावः।)

शकुन्तला-(कथं चिदुत्थायात्मगतम्) हिअअ, पढमं जेव सुहोवणदे मणोरधे कालहरणं करेसि। संपदं अणुभव दाव दे किदं। (पदान्तरे प्रतिनिवृत्य, प्रकाशम्) लदाहरअ संतावहारअ। आमन्तेमि तुमं पुणो वि परिभोअत्थं। (हृदय, प्रथममेव सुखोपनते मनोरथे कालहरणं करोषि। साम्प्रतमनुभव तावत्ते कृतम्। लतागृहक, सन्तापहरक। आमन्त्रयामि त्वां पुनः अपि परिभोगार्थम्।)

(इति निष्क्रान्ते)

राजा-(पूर्वस्थानमुपेत्य सनिःश्वासम्) अहो, विघ्नवत्यः प्रार्थितसिद्धयः।
मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम्।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं, न चुम्बितं तत्।।३-३८।।

क्व नु खलु सम्प्रति गच्छामि। अथवा इहैव प्रियापरिभुक्ते लतामण्डपे मुहूर्तं तिष्ठामि।


जाते इति शङ्करः। इदं शान्त्युदकम्, शान्तिर्भद्रं, तदर्थमुदकम्। असुस्थात्र देवतासहायिनी एकाकिनी तिष्ठसि। इदानीमेव प्रियमू(यंव)दानुसूये मालिनीमवतीर्णे।

“एवस्य जे(ज)व”ति⁴¹ प्राकृतसूत्रादन्तस्त्वावदीय पिण्ड इत्यवधेयम्। निराधारा, त्वं चिरं जीव। अपि लघु सन्तापानि तेऽङ्गानि। अपि प्रश्ने। आर्य्ये अस्ति विशेषः। परिणतो दिवसस्तदेहि उटजं गच्छावः। हृदय प्रथमं सुखोपनते मनोरथे कालहरणं करोषि। कृतवदसि साम्प्रतमनुभव तावत्ते कृतं, स्वयं कृतमनुभूयतामित्यर्थः।

मुहुः०।। (3-38) प्रतिषेधाक्षरं प्रतिषेधमक्षरं, “न ममाधरम् उन्नमये”त्यादि वर्णस्तेन यद्वैकलव्यम्। तेनाभिरामं⁴², बालास्वभावात् प्रतिषेधाक्षरं प्रमदास्वभावाच्च तदभिधाने क्लेशात् ब्रूम इत्यन्ये। अंसविवर्ति तिर्यक्कृतं प्रशस्तपक्ष्मयुक्तम् अक्षि यस्याः तदपि निर्वचनीयम्।

दर्पणकारस्तु “न चुम्बितं त्वि”ति पठित्वा, “तु” इति निपातस्यानुतापव्यञ्जकत्वमित्याह। पक्षमलत्वञ्च चक्षुषः शुभावहम्। तदुक्तं भविष्ये-नीलोत्पलदलप्रख्यै-रताम्रैश्चारु पक्ष्मभिः। वनितानयनैरेभि-र्भाग्यसौभाग्यभागिनीति।

तस्याः०।। (3-39) शरीरेति देह संघृष्ट्या बिसाभरणं मृणालवलयमित्यनेन प्रकारेणासक्ती भवदीक्षणं यस्य। वह०।। मम मूढं कर्तुं व्याकर्तव्यज्ञानशून्यं चित्तम् इति गणयति चिन्तयति यदा


  1. सूत्रमिदं वररुचिप्रणीते प्राकृतप्रकाशे 12-13 क्रमांकांके दृश्यते।
  2. तेनाभिभव्यायं इति 4117 इत्यत्र।

154 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

(सर्वतो विलोक्य)
तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं
कान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः।
हस्ताद्भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो
निर्गन्तुं सहसा न वेतसगृहादीशोडस्मि शून्यादपि।।३–३९।।

(विचिन्त्य) अहो धिक्, असम्यक् चेष्टितं प्रियां समासाद्य कालहरणं कुर्वता मया। तदिदानीं–
रहः प्रत्यासत्तिं यदि सुवदना यास्यति पुनः–
र्न कालं हास्यामि प्रकृतिदुरवापा हि विधयः।
इति क्लिष्टं विघ्नैर्गणयति च मे मूढहृदयं
प्रियायाः प्रत्यक्षं किमपि च तथा कातरमिव।।३–४०।।

(नेपथ्ये) भो भो राजन्।
सायन्तने सवनकर्मणि संप्रवृत्ते
वेदीं हुताशनवतीं परितः प्रकीर्णाः।
छायाश्चरन्ति बहुधा भयमादधानाः
सन्ध्याभ्रकूटकपिशाः पिशिताशनानाम्।।३–४१।।

राजा– (आकर्ण्य सावष्टम्भम्) भो भोस्तपस्विनः! मा भैष्ट। अयमहमागतोऽस्मि।

(इति निष्क्रान्तः)
।। इति तृतीयोऽङ्कः।।


विघ्नैर्व्याकुलं सत् प्रियायाः शकुन्तलायाः प्रत्यक्षं संमुखे किमप्यनिर्वाच्यं तथावृत्तं परिभोगानुभवप्रकारेण कातरमिव⁴³। चिन्तामेवाह। यदि०।। (3-40) सा मुखी रहो निर्जने, पुनः प्रत्यासत्तिं सान्निध्यं यास्यति, तदा न कालं हास्यामि, न विलम्बं करिष्यामीत्यर्थः। शङ्करस्तु कालं सम्भोगसमयं न त्यक्ष्यामीत्याह। हि यस्मात् विषयाः स्रक्–चन्दन–वनितादयः स्वभावदुर्लभा भवन्ति। किमिव हि पाठे इवशब्दो वाक्यालङ्कारे। प्रियाप्रत्यक्षं। पश्चात्तापनामा नाट्यालङ्कारोऽयम्। तदुक्तं–पश्चात्तापोऽनुतापश्च कृत्वा वाक्यान्तरं भवेदिति।

सायं०।। (3-41) सायन्तने सन्ध्याकालीने सवनकर्मणि यज्ञक्रियायां संप्रवृत्ते कर्तुमारब्धे, आदिकर्मणि क्तः”। वेदीं० परितः वेद्याः सर्वत्रेत्यर्थः। अभितः परितः इत्यादिना षष्ठ्यर्थे द्वितीया। बहुधानेकप्रकारेण चरन्ति भ्रमन्ति सन्ध्याकाल–मेघसमूह पिङ्गलानां च्छायाः। सवनं त्वध्वरे स्नाने इति मेदिनी। अनेन–पराद्भाव(?)भावः।। ।।

।। इति तृतीयोऽङ्कः।।


⁴³. 4117 इत्यत्र शतरमिव इति पठ्यते।

।। चतुर्थोऽङ्कः ।।

(ततः प्रविशतः कुसुमावचयनमभिनयन्त्यौ सख्यौ)

अनसूया—पिअंवदे, जइ वि गन्धव्वेण विवाहेण णिव्वुत्तकल्लाणा पिअसही सउन्तला अणुरूवभत्तुभाइणी संवृत्ता तथा वि ण मे णिव्वुदं हिअअं। (प्रियंवदे, यद्यपि गान्धर्वेण विवाहेन निर्वृत्तकल्याणा प्रियसखी शकुन्तला अनुरूपभर्तृभागिनी संवृत्ता, तथापि न मे निर्वृतं हृदयम्।)

प्रियंवदा—कधं विअ। (कथमिव।)

अनसूया—अज्ज सो राएसी इट्ठिपरिसमत्तीए इसीहिं पेसिदो अत्तणो णअरं पविसिअ अन्तेउरिआसदसमागदो इमं जणं सुमरेदि ण व त्ति। (अद्य सः राजर्षिः इष्टिसमाप्तौ ऋषिभिः प्रेषितः आत्मनः नगरं प्रविश्यान्तःपुरिकाशतसमागतः इमं जनं स्मरति न वा इति।)

प्रियंवदा—एत्थ दाव वीसत्था होहि। ण हि तादिसा आकिदिविसेसा गुणविरोहिणो होन्ति। एत्तिअं उण चिन्तणीअं। तादो तित्थजत्तादो पडिणिउत्तो इमं वुत्तन्तं सुणिअ ण आणे किं पडिवज्जिस्सदि त्ति। (अत्र तावत् विश्वस्ता भव। न हि तादृशाः आकृतिविशेषाः गुणविरोधिनः भवन्ति। एतावत् पुनः चिन्तनीयम्। तातः तीर्थयात्रातः प्रतिनिवृत्तः इमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यते इति।)

अनसूया—जधा मं पुच्छसि तथा अहिमदं तादस्स। (यथा मां पृच्छसि तथा अभिमतं तातस्य।)

प्रियंवदा—कधं विअ। (कथं इव।)

अनसूया—किं अण्णं। वरस्स अणुरूवस्स कण्णआ पडिवादणीअअ त्ति अअं दाव पढमो संकप्पो। तं जइ देव्वं जेव सम्पादेदि णं कदत्थो गुरुअणो। (किमन्यत्। वरस्य अनुरूपस्य कन्यका प्रतिपादनीया इति अयं तावत् प्रथमः सङ्कल्पः। तं यदि दैवमेव सम्पादयति, ननु कृतार्थः गुरुजनः।)


।। चतुर्थोऽङ्कः ।।

प्रियंवदे⁴⁴, यद्यपि गान्धर्वेण विवाहेन निवृत्तकल्याणा प्रियसखी शकुन्तलानुरूप-भर्तृभगिनी संवृत्ता, तथापि न निर्वृतं मे हृदयम्। कथमिव किमिति वा। अद्य सा राजर्षिर्रिष्टपरिसमाप्तौ ऋषिभिः प्रेषितमात्मनो नगरं प्रविश्यान्तःपुरिकाशतसमागमादिमं जनं स्मरति न वेति। अन्तःपुरशब्देन कलत्रमुच्यते।

अत्र तावद् विश्रब्धा। निःशङ्का भव। न हि तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति। एतावत् पुनश्चिन्तनीयं तातस्तीर्थयात्रातः प्रतिनिवृत्तः, इमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यते इति। यदि मां पृच्छसि तदानुमतमिदं तातस्य भविष्यति। कथमिव। किमन्यद् अनुरूपाय कन्या प्रतिपादनीयेति अयं तातसङ्कल्पः। तं यदि दैवमेव सम्पादयति, ननु कृतार्थो गुरुजनः।


  1. मातृका 4117 इत्यत्र प्रियम्वुदे इति पठ्यते।

156 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

प्रियंवदा-एवं णेदं। (पुष्पभाजनं विलोक्य) सहि, अवचिदाइं बलिकम्मपज्जत्ताइं खु कुसुमाइं। (एवं नु एतत्। सखि, अवचितानि बलिकर्मपर्याप्तानि खलु कुसुमानि।)

अनुसूया-णं सउन्तलाए वि सोहग्गदेवदाओ अच्चिदव्वाओ। ता अवराइं पि अवचिणम्ह। (ननु शकुन्तलया अपि सौभाग्यदेवताः अर्चितव्याः। तत् अपराण्यपि अवचिनवाव।)

प्रियंवदा-जुज्जदि। (युज्यते।) (उभे तदेव कर्माभिनयतः।)

(नेपथ्ये) अहमहं भोः .....।

अनुसूया-(कर्णं दत्त्वा) सहि, अदिथिणा विअ णिवेदिदं। (सखि, अतिथिना इव निवेदितम्।)

प्रियंवदा-णं उडए संणिहिदा सउन्तला। (विचिन्त्य) आं अज्ज उण असंणिहिदा हिअएण। तेण हि भोदु एत्तिकेहिं कुसुमेहिं पओअणं। (ननु उटजे सन्निहिता शकुन्तला। आमद्य पुनः असन्निहिता हृदयेन। तेन हि भवतु एतावद्भिः कुसुमैः प्रयोजनम्।) (इति प्रस्थिते)

(पुनर्नेपथ्ये) आः ....... कथमतिथिं मां परिभवसि।

विचिन्तयन्ती यमनन्यमानसा
तपोनिधिं वेत्सि न मामुपस्थितम्।
स्मरिष्यति त्वां न स बोधितोऽपि सन्
कथां प्रमत्तः प्रथमं कृतामिव॥4-1॥

(उभे श्रुत्वा विषण्णे)

प्रियंवदा-हद्धी हद्धी। तं जेव संवृत्तं। कस्सिं पि पूआरिहे अवरद्धा सुण्णहिअआ पिअसही। (हा धिक् हा धिक्, तदेव संवृत्तम्। कस्मिन्नपि पूजार्हे अपराद्धा शून्यहृदया प्रियसखी।)

अनुसूया-(पुरोऽवलोक्य) सहि, ण क्खु जस्सिं कस्सिं वा। एसो दुव्वासा सुलहकोवो महेसी। तथा अअं विरलपादुद्धाराए गदीए पडिणिउत्तो।


एवमेतत् सखि, अवचितानि⁴⁵ बलिकर्म⁴⁶ पर्याप्तानि कुसुमानि⁴⁷। इदानीं गन्तुम् अर्हसीति भावः। ननु शकुन्तलया सौभाग्यदेवता अर्चनीया, तदपरान्यवचिन्ववः। युज्यते। अतिथिनेव निवेदितम्। ननूटजे सन्निहिता शकुन्तला। आं स्मृतौ। अद्य पुनरसन्निहिता हृदयेन, तेन हि भवत्वैतैः कुसुमैः प्रयोजनम्।।

विचि०।। (4-1) यत् स्यादनुचितं वस्तु नायकस्य रसस्य वा। विरुद्धं तत् परित्याज्यम्


  1. मातृका 4118 इत्यत्र अन्वचितानि इति पठ्यते।
  2. मातृका 4117 इत्यत्र वणिककर्म० इति पठ्यते।
  3. मातृका 4117 इत्यत्र दस्वमानि इति पठ्यते।

अभिज्ञानशकुन्तलम्    चतुर्थोऽङ्कः    157

(सखि, न खलु यस्मिन् कस्मिन्वा। एषः दुर्वासा सुलभकोपो महर्षिः। तथा अयं विरलपादोद्धारया गत्या प्रतिनिवृत्तः।)

प्रियंवदा—को अण्णो हुदवहादो दहिदुं पहवदि। ता गच्छ। पादेसुं पडिअ णिअत्तावेहि जाव से अहं पि अग्घोदअं उवकप्पेमि। (कोऽन्यः हुतवहाद् दग्धुम् प्रभवति। तद्गच्छ। पादयोः पतित्वा निवर्तय यावद् अस्याहमप्यर्थोदकं उपकल्पयामि।)

अनुसूया—तधा। (तथा।) (इति निष्क्रान्ता)

प्रियंवदा—(पदान्तरे स्खलितं रूपयन्ती) अम्मो, आवेअक्खलिदाए पब्भट्ठं मे अग्गहत्थादो पुप्फभाअणं। (अम्मो, आवेगस्खलितायाः प्रभ्रष्टं मे अग्रहस्तात् पुष्पभाजनम्।)
(नाट्येन पुष्पावचयं विधत्ते।)

अनुसूया—(प्रविश्य) सहि, सरीरी विअ कोवो कस्स सो अणुणअं गेण्हदि। किं चि उण साणुकम्पो किदो। (सखि, शरीरी इव कोपः, कस्य सः अनुनयं गृह्णाति। किंचित् पुनः सानुकम्पः कृतः।)

प्रियंवदा—एदं जेव तस्सिं बहुदरं। ता कधेहि। (एतदेव तस्मिन् बहुतरम्। तत्कथय।)

अनुसूया—जदो णिअत्तिदुं णेच्छदि तदो पादेसुं पणमिअ विण्णाविदो मए। भअवं। पढमभत्तिं अवेक्खिअ अज्ज तुह अविण्णादपहावपरमत्थस्स दुहिदाजणस्स भववदा अअं अवराहो मरिसिदव्वो त्ति। (यतः निवर्तितुं नेच्छति ततः पादयोः प्रणम्य विज्ञापितः मया। भगवन्, प्रथमभक्तिमवेक्ष्य अद्य तव अविज्ञातप्रभावपरमार्थस्य दुहितृजनस्य भगवता अयमपराधः मर्षितव्यः इति।)


अन्यथा वा प्रकल्पयेदिति भरतनियमस्तेनात्र दुःस्व(ष)न्तस्य शकुन्तलाविस्मरणं कृत्रिममप्यनुचितं इत्यन्यथाकृतम्। शङ्करस्तु संविधान-नामाख्य-नाट्यालंकारोऽयम्। तदुक्तम्—
रसभावानुकूलाय कथासूत्रं यदन्यथा क्रियते। तदिह प्रोक्तं मुनिभिः संविधानकम्॥
इत्याह। हा धिक्, हा धिक् तदेव संवृत्तं, कस्मिन्नपि पूजार्हेऽपराद्धा।

शून्यहृदया प्रियसखी। सखि, न खलु यस्मिन् तस्मिन् वा। एष खलु सुलभकोपो दुर्वासा महर्षिः। तथा पूर्वानुभूत-प्रकारेण अयं अविरला निरवकाशा त्वरिता च ईदृश्या गत्या प्रतिनिवृत्तः। विरल पादपधारया गत्येति च पाठः। कोऽन्यो हूतवहा[द्]दग्धुं प्रभवति। तद् गच्छ, पादयोः पतित्वा निवर्तय। अथेदिनं यावदहमस्यार्घोदकमुपकल्पयामि।

अम्मो, काष्ठ विस्मये वा। आवेगस्खलितायाः प्रभ्रष्टमग्रहस्तान्मे कुसुमभाजनम्⁴⁸। शरीरीव कोपः, कस्य सोऽनुनयं गृह्णाति। किञ्चित् पुनः सानुकम्पः कृतः। एतदेव तस्मिन् बहुतरं, तत् कथय कथं प्रसादित इत्यर्थः।

सखि, स यदि कथमपि निर्वर्तितुं नेच्छति, तदा पादयोः प्रणिपत्य विज्ञापितो मया, “भगवन् प्रथमभक्तिम् अवेक्ष्य, अद्य तवाविज्ञात-प्रभाव-परमार्थस्य दुहितृजनस्य भगवता अयं प्रथमापराधो मर्षितव्य” इति।


⁴⁸. मातृका 4117 इत्यत्र दस्वभाजनम् इति पठ्यते।

158चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

प्रियंवदा—तदो तदो। (ततस्ततः।)

अनुसूया—तदो सो ण मे वअणं अण्णधा भविदुं अरिहदि। किं तु अहिण्णाणाभरणदंसणादो से सावो णिअत्तिस्सदि त्ति मन्तअन्तो ज्जेव अन्तरिदो। (ततः सः न मे वचनमन्यथा भवितुमर्हति। किं तु अभिज्ञानाभरणदर्शनादस्याः शापः निवर्तिष्यते इति मन्त्रयन् एवान्तरितः।)

प्रियंवदा—सक्कं दाणिं अस्ससिदुं। अत्थि तेण राएसिणा संपत्थिदेण अत्तणो णामाङ्किदं अङ्गुलीअअं सुमरावणीअं ति सउन्तलाहत्थे सअं जेव पिणद्धाविदं। एसो ज्जेव तस्सिं साहीणो उवाओ भविस्सदि। (शक्यमिदानीमाश्वासितुम्। अस्ति तेन राजर्षिणा सम्प्रस्थितेनात्मनः नामाङ्कितमङ्गुलीयकं स्मरणीयमिति शकुन्तलाहस्ते स्वयमेव पिनद्धम्। तदेषः एव तस्मिन्स्वाधीनः उपायः भविष्यति।)

अनुसूया—एहि। देवकज्जं दाव से णिव्वत्तम्ह। (एहि, देवकार्यं तावदस्याः निवर्तयाव।)
(इति परिक्रामतः)

प्रियंवदा—(विलोक्य) अनूसूये, पेक्ख दाव वामहत्थविणिहिदवअणा आलिहिदा विअ पिअसही तग्गदाए चिन्ताए अत्ताणअं पि ण विहावेदि। किं उण अदिधिविसेसं। (अनसूये, प्रेक्षस्व तावत् वामहस्तविनिहितवदना आलिखिता इव प्रियसखी तद्गतया चिन्तया आत्मानमपि न विभावयति। किं पुनः अतिथिविशेषम्।)

अनुसूया—पिअंवदे, दोण्णं जेव णो हिअए एसो वुत्तन्तो चिट्ठदु। रक्खणीआ खु पइदिपेलवा पिअसही। (प्रियंवदे, द्वयोः एव नौ हृदये एषः वृत्तान्तः तिष्ठतु। रक्षणीया खलु प्रकृतिपेलवा प्रियसखी।)

प्रियंवदा—को दाव उण्होदएण णोमालिअं सिञ्चदि।(को तावदुष्णोदकेन नवमालिकां सिञ्चति)

(इत्युभे निष्क्रान्ते)
(प्रवेशकः)


ततस्तत इति कथक प्रोत्साहनार्थः। ततः स “न मे वचनमन्यथा भवितुमर्हति। किन्त्वाभरणाभिज्ञानदर्शनाद् अस्याः शापो निवर्तिष्यत” इति मन्त्रयन्नेवान्तर्हितः।

शक्यमिदानीमाश्वसितुं अस्ति, तेन राजर्षिणा संप्रस्थितेनात्मनो नामाङ्कितम् अङ्गुरीयकं स्मरणीय[मि]ति शकुन्तलाया हस्ते स्वयमेव पिनद्धम्। तदेष एव तस्मिन् स्वाधीन उपायो भविष्यति। एहि, अस्या देवकार्यं तावन्निवर्तयावः। अनसूये, प्रेक्षस्व तावत् वामहस्तविनिहितवदनालिखितेव प्रियसखी तद्गतया चिन्तया आत्मानमपि न विभावयति, किं पुनरतिथिविशेषम्। प्रियम्वदे⁴⁹, द्वयोरेवावयोहृदय एष शापवृत्तान्तस्तिष्ठतु, रक्षणीया खलु प्रकृतिपेलवा प्रियसखी⁵⁰। कस्तावदुष्णोदकेन नवमालिकां सिञ्चति। अत्र प्रवेशक इति शङ्करः।।


  1. मातृका 4117 प्रियम्वदेति पठ्यते।
  2. मातृका 4117 इत्यत्र नास्ति।

अभिज्ञानशकुन्तलम्    चतुर्थोऽङ्कः    159

(ततः प्रविशति सुप्तोत्थितः कण्वशिष्यः)

शिष्यः-वेलोपलक्षणायदिष्टोऽस्मि प्रभासात्प्रतिनिवृत्तेन तत्रभवता कण्वेन। तत्प्रकाशं निर्गत्यावलोकयामि किमवशिष्टं रजन्या इति।

(परिक्रम्यावलोक्य च)

हन्त प्रभातम् ........। तथा हि-

यात्येकतोऽस्तशिखरं पतिरोषधीना-
माविष्कृतोऽरुणपुरःसर एकतोऽर्कः।
तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां
लोको नियम्यत इवैव दशान्तरेषु॥4-2॥

अपि च-

अन्तर्हिते शशिनि सैव कुमुद्वती मे
दृष्टिं न नन्दयति संस्मरणीयशोभा।
इष्टप्रवासजनितान्यबलाजनेन
दुःखानि नूनमतिमात्रसुदुःसहानि॥4-3॥

अपि च-

कर्कन्धूनामुपरि तुहिनं रञ्जयत्यग्रसन्ध्या
दार्भं मुञ्चत्युटजपटलं वीतनिद्रो मयूरः।
वेदिप्रान्तात्खुरविलिखितादुत्थितश्चैष सद्यः
पश्चादुच्चैर्भवति हरिणः स्वाङ्गमायच्छमानः॥4-4॥

अपि च-

पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरोः
क्रान्तं येन क्षयिततमसा मध्यमं धाम विष्णोः।


या० (4-2) आविष्कृतेत्युदय उक्तः। तेजोद्वयस्य सूर्यचन्द्ररूपोभयतेजसः एककालं विपदुपचयाभ्यां दशावकाशेषु लोकः स्थिरीक्रियत इव, व्यसनोदयाभ्यामिति।

अनुधर्मादिपाठाद् विकल्पेन पूर्वनिपातः। विपत्तावशुभे पापो मानस्त्रिमृगयादिषु। दैवानिष्ट-कलासक्तौ व्यसनं कवयो विदुरिति शाश्वतः। एतेन शकुन्तलाया अपि व्यसनोदयौ भविष्यत इति सूचितमिति शङ्करः।

अन्तर्हि०।। (4-3) इष्टो वल्लभस्तस्य प्रवासो भिन्नदेशत्वम्। नूनं निश्चये। अतिमात्रमतिशयः। अर्थान्तरन्यासः। दृष्टान्त इति शङ्करः। अनेन चापदेशेन शकुन्तलाविरहदुःखममिह सूचितमिति शङ्करः।

कर्कन्धु०।। (4-4) कर्कन्धुर्वदरी, तुहिनं हिमं, अग्रसन्ध्या प्रातःसन्ध्या, उटजः पर्णशाला, पटलं च्छदिः समूह इत्यर्थः। वेदिः परिष्कृता भूमिः। स्वाङ्गमायच्छमानं दीर्घीकुर्वन् आकर्षन्नित्यर्थः।

160 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

सोऽयं चन्द्रः पतति गगनादल्पशेषैर्मयूखै- रत्यारूढिर्भवति महतामप्यपभ्रंशनिष्ठा।। 4–5।।

प्रविश्यापटीक्षेपेण अनुसूया- (स्वगतम्) एवं पि णाम विसअपरंमुहस्स जणस्स एदं णिवडिदं जधा तेण रण्णा सउन्तलाए अणज्जं आचरिदं ति। (एवमपि नाम विषयपराङ्-मुखस्य जनस्य एतत् निपतितं यथा तेन राज्ञा शकुन्तलायामनार्यमाचरितमिति।)

शिष्यः- यावदुपस्थितां होमवेलां गुरवे निवेदयामि। (इति निष्क्रान्तः)

अनुसूया- णं पहादा रअणी। ता लहुं पडिबुद्ध म्हि। अथवा पडिबुद्धा वि किं करइस्सं। ण मे उइदेसुं पि पहादकरणीएसुं हत्था पसरन्ति। सकामो दाणिं कामो भोदु जेण सुद्धहिअआ पिअसही असच्चसन्धे जणे पदं कारिदा। अथवा ण तस्स राएसिणो अवराहो। दुव्वासासावो क्खु एसो पहवदि। अण्णधा कथं दाणिं सो राएसी तादिसाइं मन्तिअ एत्तिअस्स कालस्स वाआमेत्तकं पि ण विसज्जेदि। (विचिन्त्य) ता इदो अहिण्णाणङ्गुलीअअं से विसज्जामो त्ति। अथवा णिदुक्खसीदले तवस्सिसणे को णाम अब्भत्थीअदु। ण अ सहीगामी दोसो त्ति कदुअ ववसिदाओ वि पारेमो तादकण्वस्स दुस्सन्तपरिणीदं आवण्णसत्तं सउन्तलं णिवेदितुं। ता एत्थ दाणिं किं णु क्खु अम्हेहिं करणीअं। (ननु प्रभाता रजनी। तत् लघु प्रतिबुद्धास्मि।


पाद०।। (4-5) पादो रश्मिश्चरणश्च मूर्द्धिन उपरि शिरसि च तमो, तमोऽन्धकारोऽज्ञानञ्च मध्यमं स्थानमाकाशमत्यारूढ⁵¹श्च गुरुशिरसि पादन्यासो विष्णुस्थानातिक्रमणञ्च। अपभ्रंशेति अधःपातः। अर्थान्तरन्यासः। अथ च शकुन्तलाया दुर्वासस्यानवधानाद् भ्रंशो भविष्यतीति सूचनमिति शङ्करः।

अपटीक्षेपेणाकस्मादित्यर्थः। पटीक्षेपो न कर्तव्य आर्त-राजप्रवासयो-रिति भरतः। एवमपि नाम विषय-पराङ्मुखस्य जनस्य एवं इदन्द्रा⁵² (न विदितं) निपातितम्। यथा तथाविधेन राजर्षिणा शकुन्तलाया अनार्य्यम् आचरितमिति। अनार्य्यमनुचितं शकुन्तला-विस्मरणरूपम्।।

ननु प्रभातवेला! तन्निद्रां त्यजामि। तत् प्रतिबु(द्ध)न(?)। अथवा प्रतिबुद्धापि किमिदानीं करिष्यामि। न मे उचितेष्वपि प्रभातकरणीयेषु हस्तौ प्रसरतः। तत् सकाम इदानीं कामो भवतु, येन शून्यहृदया प्रियसखी असत्यसन्धे मिथ्याप्रतिज्ञे तस्मिन् जने पदं स्थानं व्यवसायं वा कारिता। पदं व्यवसित (स्थानमिति?), त्राणस्थानलक्ष्माङ्घ्रिवस्त्वित्यमरः।।

अथवा दुर्वाससः शापः खल्वेष भवति। अन्यथा कथं राजर्षिस्तादृशं “नगरगमन एव भवन्नयनार्थं मानुषः प्रहेय” इत्यादिना मन्त्रयित्वा एतावतः कालस्य वार्तामात्रमपि अस्तु तावद्, गूढद्रव्यादि न विसर्जयति।


  1. मत्यारूढिश्च इति 4118 इत्यत्र पठ्यते।
  2. 4118 इत्यत्र इदसा।

अभिज्ञानशकुन्तलम् चतुर्थोऽङ्कः 161

अथवा प्रतिबुद्धापि किं करिष्यामि। न मे उचितेष्वपि प्रभातकरणीयेषु हस्तौ प्रसरतः। सकामः इदानीं कामः भवतु येन शुद्धहृदया प्रियसख्यसत्यसंधे जने पदं कारिता। अथवा न तस्य राजर्षेः अपराधः। दुर्वाससः शापः खल्वेषः प्रभवति। अन्यथा कथमिदानीं सः राजर्षिः तादृशानि मन्त्रयित्वा एतावतः कालस्य वाङ्मात्रकमपि न विसर्जयति। तत् इतः अभिज्ञानाङ्गुरीयकमस्य विसर्जयामः इति। अथवा निर्दुःखशीतले तपस्विजने को नाम अभ्यर्थ्यताम्। न च सखीगामी दोषः इति कृत्वा व्यवसिताः अपि पारयामः तातकण्वस्य दुःषन्तपरिणीताम् आपन्नसत्त्वां शकुन्तलां निवेदयितुम्। तदत्र इदानीं किं नु खल्वस्माभिः करणीयम्।)

प्रियंवदा – (प्रविश्य) अणसूए, तुवर तुवर। सउन्तलाए पत्थाणकोदूहलाई करीअन्ति। (अनसूये, त्वरस्व त्वरस्व। शकुन्तलायाः प्रस्थानकौतूहलानि क्रियन्ते।)

अनसूया – (सविस्मयम्) सहि, कधं विअ। (सखि, कथं इव।)

प्रियंवदा – सुणाहि। इदाणिं जेव सुहसुत्तिआपूच्छणणिमित्तं सउन्तलाए समीवं गद म्हि। (शृणु, इदानीमेव सुखसुप्तिकाप्रश्ननिमित्तं शकुन्तलायाः समीपं गतास्मि।)

अनसूया – तदो तदो। (ततस्ततः।)

प्रियंवदा – तदो जाव णं लज्जावणदमुहिं परिस्सइजअ तादकण्णो एवं अहिणन्देदि। वच्छे, दिट्ठिआ धूमोवरुद्धदिट्ठिणो वि जजमाणस्स पावअस्स मुहे ज्जेव णिवदिदा आहुदी। सुसिस्सपरिग्गहिदा विअ विज्जा असोअणीआ सि मे संवुत्ता। ता अज्ज ज्जेव तुमं इसिपरिग्गहिदं कदुअ भत्तुणो सआसं विसज्जेमि त्ति। (ततः यावदेनां लज्जावनतमुखीं परिष्वज्य तातकण्वः एवमभिनन्दति। वत्से, दिष्ट्या धूमोपरुद्धदृष्टेः अपि यजमानस्य पावकस्य मुख एव निपतिता आहुतिः। सुशिष्यपरिगृहीतेव विद्या अशोचनीया असि मे संवृत्ता। तत् अद्यैव त्वाम् ऋषिपरिगृहीतां कृत्वा भर्तुः सकाशं विसर्जयामीति।)


इदानीम् इतस्तस्मिन्नभिज्ञानाङ्गुरीयकं विसर्जयामि। निर्दुःखशीतले तपस्विजने को नामाभ्यर्थ्यताम्। अथवा निर्दुःखैति शङ्करः पठति। न च(ननु) सखीगामी दोष इति, व्यवसा(सि)तुमपि [न] पारयामः, तातकण्वस्य वा दुस्म[दुःष]न्तस्य राज्ञः परिणीतामापन्नसत्त्वां गर्भिणीं शकुन्तलां निवेदयितुम्। तदत्रेदानिं किं नु खल्वस्माभिः करणीयम्।।

त्वरय त्वरय शकुन्तलायाः प्रस्थानकौतूहलानि क्रियन्तां {क्रियन्तां वा}। सखि, कथमिव। सखि, शृण्विदानीमेव सुखसुप्तिकप्रश्न-निमित्तं शकुन्तलायाः समीपं गतास्मि। ततस्ततः। ततो यावदेनां लज्जावनतमुखीं परिष्वज्य तातकण्व एवमभिनन्दति। यावद् वाक्यालंकारे। वत्से, दिष्ट्या धूमोपरुद्धे(द्धेः) दृष्टेपि यजमानस्य पावकमुखनिपातिता व्याहुतिः। स्वशिष्यपरिगृहीता विद्येवाशोचनीयामि (सि) मे संवृत्ता⁵³। तदद्यैव त्वामृषिभिः परिगृहीतां कृत्वा, भर्तुः सकाशं विसर्जयामीति।।


  1. विद्येयेवाशोचनीयामि मे संप्रवृत्ता इति 4117 इत्यत्र पठ्यते।

162 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

अनुसूया–सहि, केण उण आचक्खिदो तादकण्वस्स अअं वृत्तन्तो। (सखि, केन पुनः आख्यात: तातकण्वस्यायं वृत्तान्तः।)

प्रियंवदा–अग्गिसरणं पविट्ठस्स किल सरीरं विणा छन्दोवदीए वाआए। (अग्निशरणं प्रविष्टस्य किल शरीरं विना छन्दोवत्या वाचा।)

अनुसूया–(सविस्मयम्) कथं विअ। (कथं इव।)

प्रियंवदा–सुण। (शृणु।) (संस्कृतमाश्रित्य)

दुःषन्तेनाहितं तेजो दधानां भूतये भुवः।
अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव॥4-6॥

अनुसूया–(प्रियंवदामाश्लिष्य) सहि, पिअं मे पिअं। किं तु अज्ज ज्जेव सउन्तला णीअदि त्ति उक्कण्ठासाहारणं दाणिं परिदोसं अणुभवामि। (सखि, प्रियं मे प्रियम्। किंतु अद्यैव शकुन्तला नीयतेति उत्कण्ठासाधारणमिदानीं परितोषमनुभवामि।)

प्रियंवदा–अम्हे कथं पि उक्कण्ठं विणोदइस्सामो। सा दाणिं तवस्सिणी णिव्वुदा भोदु। (आवां कथमपि उत्कण्ठां विनोदयिष्यावः। सा इदानीं तपस्विनी निवृता भवतु।)

अनुसूया–तेण हि एदस्सिं चूदसाहावलम्बिदे णारिएलसमुग्गए एदंणिमित्तं जेव मए कालहरणक्खमा केसरगुण्डा णिक्खित्ता चिट्ठन्ति। ते तुमं णलिणीवत्तसंगदे करेहि जाव से अहं पि गोरोअणं तित्थपट्टिअं दुव्वाकिसलआइं च मङ्गलसमालहणत्थं विरअआमि। (तेन हि एतस्मिन् चूतशाखावलम्बिते नारिकेलसमुद्गके एतन्निमित्तमेव मया कालहरणक्षमाः केसरगुण्डाः निक्षिप्ताः तिष्ठन्ति। तान् त्वं नलिनीपत्रसङ्गतान् कुरु, यावदस्याः अहमपि गोरोचनां तीर्थमृत्तिकां दूर्वाकिसलयानि च मङ्गलसमालम्भनार्थं विरचयामि।) (प्रियंवदा तथा करोति। अनुसूया निष्क्रान्ता)


सखि, केन पुनराख्यातस्तातकण्वस्यायं वृत्तान्तः। अग्निशरणमग्न्यागारं प्रविष्टस्य किल तस्य च्छन्दोवत्या वाचा। आख्यात इत्यनुषङ्गः। च्छन्दोवत्या स्वच्छन्दयाकाशवाण्येत्यर्थः। कथमिव शृणु।

संस्कृतमिति०।। (4-6) अनुवादेत्यौचित्यम्। विदग्धयार्थं⁵⁴ प्रयोक्तव्यं संस्कृतञ्चान्तरान्तरेति नियमात्। सिद्धान्तयत्यन्यस्तनु भद्रं।। पुष्प (दुःषन्तेन)०।। (4-6) आहितमर्पितं तेजः शुक्रम्।

सखि, प्रियं मे प्रियं। किन्त्वद्यैव शकुन्तला नीयत इति इत्युत्कण्ठासाधारणं परितोषमनुभवामि। वयन्तावत् कथमप्युत्कण्ठां विनोदयिष्यामः। सा तावन्तपस्विनी निर्वृता भवतु। तेन हि एतस्मिन् चूतशाखावलम्बिते नारिकेलसमुद्(द्ग)के एतन्निमित्तमेव मया निक्षिप्ताः कालहरणक्षमाः केशरगुणा बकुलमालाः सन्ति, तांस्त्वं नलिनीपत्रसङ्गतान् कुरु। अहमपि यावदस्या गौरोचनां तीर्थमृत्तिकां दूर्वाकिसलयानि च मङ्गलसमालम्भनार्थं विरचयामि। समालम्भनं वर्द्धनमित्यर्थः।


⁵⁴. वैदग्धार्थ इति 4117 इति पठ्यते।

अभिज्ञानशकुन्तलम् चतुर्थोऽङ्कः 163

(नेपथ्ये)

गौतमि, आदिश्यतां शार्ङ्गरव-शारद्वतमिश्राः, वत्सां शकुन्तलां नेतुं सज्जीभवतेति।

प्रियंवदा-(कर्णं दत्त्वा) अनुसूये, तुवर तुवर। एदे क्खु हत्थिणाउरगामिणो इसीओ सद्दावीअन्ति। (अनुसूये, त्वरस्व त्वरस्व। एते खलु हस्तिनापुरगामिनः ऋषयः शब्दायन्ते।)

प्रविश्य समालभनहस्ता अनुसूया-सहि, एहि गच्छम्ह। (सखि, एहि गच्छावः।)

(इति परिक्रामतः)

प्रियंवदा-(विलोक्य) एसा सुज्जोदए ज्जेव किदमज्जणा पडिच्छिदणीवारवाअणाहिं तावसीहिं अहिणन्दीअमाणा सउन्तला चिट्ठदि। ता उवसप्पम्ह णं। (एषा सूर्योदये एव कृतमज्जना प्रतीष्टनीवारवाचनाभिः तापसीभिः अभिनन्द्यमाना शकुन्तला तिष्ठति तदुपसर्पावः।) (इति तथा कुरुतः)

(ततः प्रविशति यथानिर्दिष्टपरिवारा शकुन्तला गौतमी च)

शकुन्तला-भअवदीओ वन्दामि। (भगवति वन्दे।)

गौतमी-जाद, भत्तुणो बहुमाणसुहइत्तअं देवीसद्दं अधिगच्छ। (जात, भर्तुः बहुमानसुखयितारं देवीशब्दमधिगच्छ।)

तापस्यः-वच्छे, वीरप्पसविणी होहि। (वत्से, वीरप्रसविनी भव।)

(इति गौतमीवर्जं निष्क्रान्ताः)

सख्यौ-(उपगम्य) सहि, सुमज्जणं दे भूदं। (सखि, सुमज्जनं ते भूतम्।)

शकुन्तला-साअदं पिअसहीणं। इदो णिसीदध। (स्वागतं प्रियसखीभ्याम्। इतः निषीदतम्।)

सख्यौ-(उपविश्य) हला, उज्जुआ दाव होहि जाव दे मङ्गलसमालहणं करेमो। (सखि, ऋज्वी तावद्भव यावद् ते मङ्गलसमालभनं कुर्वः।)


शार्ङ्गेति। शार्ङ्गरव-शारद्वत⁵⁵-प्रधाना इत्यर्थः। शार्ङ्गेति त्रयः शिष्या इति शङ्करः। त्वरय त्वरय एते खलु हस्तिनापुरगामिनो मुनयः शब्दाय्यन्ते आहूयन्ते।

सखि, एहि गच्छावः, एषा सूर्योदय एव कृतमज्जना प्रती[ष्ट]नीवार-वाचनाभिर्वाचनं भोज्यम्। प्रहेलकं वाचनकमिति त्रिकाण्डशेषः। भोजनाभि⁵⁶रिति शङ्करधृतः पाठो मन्दः।

तापसीभिरभिनन्द्यमाना शकुन्तला तिष्ठति। तदेनामुपसर्पावः। हे भगवत्यो वन्दामि। जाते भर्तुर्बहुमानयुक्तं देवीशब्दमभिगच्छ। वीरप्रसविणी(नी) भव। सखि, सुमज्जनं ते भूतम्।


  1. सावद्धत इति 4117 इत्यत्र पठ्यते।
  2. मिथिलातः प्रकाशितायां शङ्करटीकायां-प्रतीष्टनीवारभाजनाभिः इति पाठो दृश्यते।
164चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

शकुन्तला—उइदं पि एदं अज्ज बहुमण्णिदव्वं। जदो दुल्लहं दाव पुणो मे सहीमण्डणं भविस्सदि। (उचितम् अपि एतद् अद्य बहुमन्तव्यम्, यतः दुर्लभं तावत् पुनः मे सखीमण्डनं भविष्यति।) (इति बाष्पं विसृजति।)

सख्यौ—सहि, ण जुत्तं मङ्गलआले रोदिदुं। (सखि, न युक्तं मङ्गलकाले रोदितुम्।)

(अश्रूणि परिमृज्य नाट्येन प्रसाधयतः)

प्रियंवदा—अहो, आहरणारिहं दे रूवं अस्समसुलहेहिं पसाहणेणिं विप्पआरीअदि। (अहो, आभरणार्हं ते रूपमाश्रमसुलभैः प्रसाधनैः विप्रकार्यते।)

प्रविश्य आभरणहस्तो मुनिकुमारकः—इदमलङ्कारजातम् अलङ्क्रियतामायुष्मती।

(सर्वा विलोक्य विस्मिताः)

गौतमी—वच्छ हारीद, कुदो एदं। (वत्स हारीत, कुतः एतत्।)

हारीतः—तातकण्वप्रभावात्।

गौतमी—किं माणसी सिद्धी। (किं मानसी सिद्धिः।)

हारीतः—न खलु। श्रूयताम्। तत्रभवता कण्वेन वयमाज्ञापिताः शकुन्तलाहेतोर्वनस्पतिभ्यः कुसुमान्याहरतेति। ततः—

क्षौमं केन चिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतं
निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केनचित्।
अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै-
र्दत्तान्याभरणानि नः किसलयच्छायाप्रतिस्पर्धिभिः ॥ 4-7॥

प्रियंवदा—(शकुन्तलां विलोक्य) कोडरसंभवा वि महुअरी पोक्खरमहुं जेव अहिलसदि। (कोटरसम्भवापि मधुकरी पुष्करमध्वेवाभिलषति।)


स्वागतं प्रियसखीभ्यामितो निषीदतुम्। सखि, ऋज्वी तावद्भव, यावत्ते मङ्गलसमालभनं कुर्व्वः। उचितम् अप्येतदद्य बहुमन्तव्यं यतो दुर्लभं तावत् पुनर्मे सखीमण्डनं भविष्यति। सखि न युक्तं मङ्गलकाले रोदितुम्। हद्धी खेदे। अहो इति शङ्करः। कष्टमिति व्याचष्टे च।

आभरणान्तेऽस्य वा रूपमाश्रमसुलभैः प्रसाधनैर्विप्रक्रियते पीड्यते। विप्रलभ्यत इति शङ्करः पठति। जातं समूहः वत्स हारीत, कुत इदम्? किं मानसीसिद्धिः?।

क्षौमं०॥(4-7) क्षौमं वाल्कलवस्त्रभेदः पट इति ख्यातः। सोमवन्मनपत्यषे⁵⁷ (?)। क्षु-धातोः क्षौमेति साधुः। स्वार्थिकेऽणि क्षौममिति। निष्कृत उद्गीर्णः प्रकाशित इत्यर्थः। चरणानुरागसदृश-श्चरणरञ्जनयोग्यः, चरणोपभोगसुलभ इति वा पाठः। लाक्षेत्यलक्तकद्रवः। आपर्वेति, पर्वभागपर्यन्तम् उद्गतैर्नोऽस्मभ्यम्। सखि, कोटर-सम्भवापि मधुकरी पुष्परसं मध्वेवाभिलषति।


⁵⁷. सोमवन्मनद्यये इति 4।18 इत्यत्र पठ्यते।

अभिज्ञानशकुन्तलम् चतुर्थोऽङ्कः 165

गौतमी—इमाए अब्भुववत्तीए सूइदा भत्तुणो गेहे अणुभविदव्वा राअलच्छी। (अनयाभ्युपपत्या सूचिता भर्तुः गेहे अनुभवितव्या राजलक्ष्मीः।)

(शकुन्तला लज्जां नाटयति)

हारीतः—यावदिमां वनस्पतिसेवामभिषेकार्थं मालिनीतीरमवतीर्णाय भगवते कण्वाय निवेदयामि। (इति निष्क्रान्तः)

अनुसूया—सहि, अणणुभूदभूसणो अअं जणो कधं तुमं अलंकरेदु। (चिन्तयित्वा विलोक्य च) चित्तपरिचएण दाणिं दे अङ्गेसुं आहरणविणिओअं करेम्ह। (सखि, अननुभूत-भूषणः अयं जनः कथं त्वामलङ्करोतु। चित्रपरिचयेन इदानीं ते अङ्गेषु आभरणविनियोगं कुर्वहे।)

शकुन्तला—जाणामि वो णिउणत्तणं। (जानामि वां निपुणत्वम्।)

(सख्यौ नाट्येनालङ्कारमायुञ्जाते।)
(ततः प्रविशति स्नानोत्तीर्णः कण्वः)

कण्वः

यास्यत्यद्य शकुन्तलेति हृदयं स्पृष्टं समुत्कण्ठया
अन्तर्बाष्पभरौपरोधि गदितं चिन्ताजडं दर्शनम्।
वैक्लव्यं मम तावदीदृशमहो स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः॥४-८॥

(इति परिक्रामति)

सख्यौ—हला सउन्तले, अवसिदमण्डणा दाणिं सि तुमं। संपदं परिधेहि एदं विचित्तं खोमजुअलं। (सखि शकुन्तले, अवसितमण्डना इदानीमसि त्वम्। साम्प्रतं परिधेहि एतद् विचित्रं क्षौमयुगलम्।) (शकुन्तला उत्थाय नाटयेन परिधत्ते)

गौतमी—जाद, एसो दे आणन्दबाहपरिवाहिणा लोअणेण परिस्सअन्तो विअ गुरू उवत्थिदो। ता समुदाआरं पडिवज्जसु।


अनयाप्यु(भ्यु)पपत्या वृक्षानुग्रहेण सूचिता भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीः। सखि, अननुभूत भूषणोऽयं जनः, कथं त्वामलंकरोतु। चित्रकर्मपरिचयेन, चित्रे यथा दृष्टव्यं तथेत्यर्थः। इदानीं भवाङ्गेष्वाभरणविनियोगं कुर्ववः। चित्तेति शङ्करः पठति, मनोविकल्पमयेत्यर्थ इति व्याचष्टे च। जानामि युवयोर्निपुणत्वम्।।

यास्य०।। (4-8) अन्तर्वती यो बाष्पोऽश्रु तस्यातिशयेनापरुद्धम्। दर्शनं ज्ञानं चिन्तया कर्तुर्व्यापविच्छेदकम्। यद्वा दर्शनं नयनं चिन्तया [जडं] विषयाग्राहकमू। तावद् वाक्यालंकारे। नु प्रश्ने। सखि शकुन्तले, अवसितमण्डना निष्पन्नभूषणा इदानीं त्वमसि। साम्प्रतं परिधेहि एतद्विचित्रं क्षौमयुगलम्। जाते, एष ते आनन्दपरिवाहिना लोचनेन परिष्वजमान इव गुरुरुपस्थितः। तत् समुदाचारमभ्युत्थानादिकं प्रतिपद्यस्व।।

166 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

(जात, एषः ते आनन्दबाष्पपरिवाहिणा लोचनेन परिष्वजमानः इव गुरुः उपस्थितः। तत् समुदाचारं प्रतिपद्यस्व।) (शकुन्तला सव्रीडा वन्दनां करोति।)

कण्वः-वत्से,

ययातिरेव शर्मिष्ठा पत्युर्बहुमता भव।
पुत्रं त्वमपि सम्राजं सेव पूरुमवाप्नुहि॥४-९॥

गौतमी-जाद, वरो क्खु एसो, ण उण आसिसा। (जात, वरः खल्वेषः, न पुनः आशीः।)

कण्वः-वत्से, इतः सद्यो हुताग्नीन् प्रदक्षिणीकुरुष्व। (सर्वे परिक्रामन्ति)

कण्वः-वत्से,

अमी वेदीं परितः क्लृप्तधिष्ण्याः
समिद्धन्तः प्रान्तविस्तीर्णदर्भाः।
अपघ्नन्तो दुरितं हव्यगन्धै-
र्वैतानास्त्वां वह्नयः पालयन्तु॥४-१०॥

(शकुन्तला प्रदक्षिणं करोति)

कण्वः-वत्से, प्रतिष्ठस्वेदानीम्। (सदृष्टिविक्षेपम्) क्व नु ते शार्ङ्गरव-शारद्वतमिश्राः।

शिष्यौ-(प्रविश्य) भगवन् इमौ स्वः।

कण्वः-वत्स शार्ङ्गरव, भगिन्याः पन्थानमादेशय।

शिष्यः-इत इतो भवती। (सर्वे परिक्रामन्ति)

कण्वः-भो भोः सन्निहितवनदेवतास्तपोवनतरवः।

पातुं न प्रथमं व्यवस्यति जलं युष्मास्वसिक्तेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम्।


ययातेः०।। (4-9) येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः। शास्ति यश्चाज्ञया राज्ञः स सम्राडित्यमरः। आशीरलङ्कारः। हे जात, वरः खल्वेष, नाशीः। सन्तुष्टदेवानामवश्यंभाविवाचनं वरः। आशीस्तु कदाचित् फलदायिनी वाक्।

अमी०।। (4-10) वेदीं परितः वेद्याः समीपे षष्ठ्यर्थे द्वितीया। धिष्ण्यं स्थानं, हव्यं हवनीयं, वैताना यज्ञसम्बन्धिनः। वितानो यज्ञ उल्लोच इति मेदिनी। भगवन्निति।

देवाश्च मुनयश्चैव लिङ्गिनः साधकाश्च ये।
भगवन्निति ते वाच्याः सर्वैर्वैः स्त्रीपुंनपुंसकैः।। इति भरतः⁵⁸।


  1. नाट्यशास्त्रम् (21-4), सं. बलदेव उपाध्याय, चौखम्बा प्रकाशन, वाराणसी, वि.सं. 2037 इत्यत्र किंचिद्भिन्नं पठ्यते।

अभिज्ञानशकुन्तलम् चतुर्थोऽङ्कः 167

आद्ये वः कुसुमप्रवृत्तिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ।। 4-11 ।।

शार्ङ्गरवः- (कोकिलशब्दं सूचयित्वा) भगवन्,
अनुमतगमना शकुन्तला सा तरुभिरियं वनवासबन्धुभिः।
परभृतविरुतं कलं यदासीत्प्रतिवचनीकृतमेभिरात्मनः ।। 4-12 ।।

(नेपथ्ये)
रम्यान्तरः कमलिनीहरितैः सरोभि-
श्छायाद्रुमैर्नियमितार्कमरीचितपः ।
भूयात् कुशेशयरजोमृदुरेणुरस्याः
शान्तानुकूलपवनश्च शिवश्च पन्थाः ।। 4-13 ।।

(सर्वे सविस्मयमाकर्णयन्ति)

गौतमी- जाद, णादिकुलसिणिद्धं अब्भणुण्णादा सि तवोवणदेवदाहिं। ता पणम भअवदीणं। (जात, ज्ञातिकुलस्निग्धमभ्यनुज्ञातासि तपोवनदेवताभिः। तत्प्रणम भगवतीभ्यः।)

शकुन्तला- (सप्रणामं परिक्रम्य, जनान्तिकम्) पिअंवदे, अज्जउत्तदंसणुस्सुआए वि अस्समपदं परिच्चअन्तीए दुक्खदुक्खेण चलणा मे पुरोमुहा णिवडन्ति। (प्रियंवदे, आर्यपुत्र-दर्शनोत्सुकायाः अपि आश्रमपदं परित्यजन्त्याः दुःखदुःखेन चरणौ मे पुरोमुखौ निपततः।)

प्रियंवदा- ण केवलं तुमं जेव तवोवणविरहकादरा। तए उवत्थिदविओअस्स तवोवणस्स वि अवत्थं पेक्ख दाव। (न केवलं त्वमेव तपोवनविरहकातरा। त्वया उपस्थित-वियोगस्य तपोवनस्याप्यवस्थां प्रेक्षस्व तावत्।)


पातुं० ।। (4-11) पल्लवं किसलयं, कोकिलं पिकध्वनिम्।
अनु० ।। (4-12) इयं शकुन्तला तरुभिः स्वीकृतप्रस्तावा यद्यत इदानीं यात्रायां कोकिलध्वनिः शुभाय ।।
रम्या० ।। (4-13) रम्येति पद्मिनी हरिद्वर्णैः⁵⁸ सरोभिर्मनोज्ञमध्यच्छायाद्रुमैश्छाया लक्षितैर्द्रुमैः, शाकपार्थिवादिः, वृक्षभेदैर्वा। पूर्वाह्ने चापराह्ने च तलं यस्य न मुञ्चति। अमन्द-शीतलाच्छाया, स छायातरुरुच्यते ।। इति। नियमितमपनीतं कुशेशयं पद्मं शान्तः पाटच्चरादिशून्यः शिवः सुखदः। जात, नातिकुलस्निग्धं यथा स्यान्नाभिर्ज्ञातिः, प्रत्यनुज्ञातासि तपोवनदेवताभिस्तत् प्रणाम भगवतीभ्यः। प्राकृते चतुर्थ्या षष्ठी। जनान्तिक-लक्षणमुक्तमेव ।। प्रियम्वदे, आर्यपुत्र-दर्शनोत्सुकाया अपि तपोवनं परित्यजन्त्या दुःखदुःखेन मम चरणौ पुरोमुखौ निपतत इति च पाठः। न केवलं त्वमेव तपोवनविरहकातरा, त्वया उपस्थितवियोगस्य तपोवनस्याप्यवस्थां प्रेक्षस्व तावत्।


  1. हरिद्वन्तैः इति 4118 इत्यत्र पठ्यते।

168
चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

उल्ललइ दब्भकवलं मई परिच्चत्तणच्चणा मोरी।
ओसरिअपण्डुवत्ता मुअन्ति अङ्गाइ व लआओ।।4-14।।
( उद्गलति दर्भकवलं मृगी, परित्यक्तनर्तना मयूरी।
अपसृतपाण्डुपत्राः मुञ्चन्त्यङ्गानि इव लताः।)।।4-14।।

शकुन्तला-(स्मृत्वा) ताद, लदावहिणिअं दाव माहविं आमन्तइस्सं। (तात, लताभगिनीं तावत् माधवीमामन्त्रयिष्यामि।)

कण्वः-वत्से, अवैमि ते तस्यां सौहार्दम्। इयं सा दक्षिणे। पश्य।

शकुन्तला-(उपेत्य लतामालिङ्ग्य) लदावहिणिए। पच्चालिङ्ग मं साहामईहिं बाहाहिं। अज्ज पहुदि दूरवत्तिणी खु दे भविस्सं। ताद, अहं विअ इअं तए चिन्तणीआ। (लताभगिनि, प्रत्यालिङ्ग मां शाखामयैः बाहुभिः। अद्यप्रभृति दूरवर्तिनी खलु ते भविष्यामि। तात, अहमिव इयं त्वया चिन्तनीया।)

कण्वः-वत्से,

सङ्कल्पितं प्रथममेव मया त्वदर्थे
भर्तारमात्मसदृशं स्वगुणैर्गतासि।
अस्यास्तु सम्प्रति वरं त्वयि वीतचिन्तः
कान्तं समीपसहकारमिमं करिष्ये।।4-15।।

तदितः पन्थानं प्रतिपद्यस्व।

शकुन्तला-(सख्यावुपेत्य) हला, एसा दोण्णं पि वो हत्थे णिक्खेवो। (सखि, एषा द्वयोः अपि वां हस्ते निक्षेपः।)

सख्यौ-अअं जणो कस्सिं दाणिं समप्पिदो। (अयं जनः कस्मिन्निदानीं समर्पितः।)

(इति बाष्पं विसृजतः)


उल्ल०।। (4-14) उल्ललति(उद्गलति) दर्भकवलं मृगीनां, परित्यक्तनृत्या मयूराः। अपसृतपाण्डुपत्रा मुञ्चन्ति अङ्गानीव लताः। शङ्करस्तु उद्गीर्ण दर्भकवला मृगी, परित्यक्तनर्तना मयूरा इति पूर्वार्द्धं पठति।।

तात, लताभगिनीं तावन्माधवीमामन्त्रयिष्ये। लताभगिनी(नि), प्रत्यालिङ्ग मां शाखामयैर्बाहुभिरद्य प्रभृति दूरवर्तिनी खलु ते भविष्यामि। तात⁶⁰, अहम् इवेयं त्वया चिन्तनीया।।

सङ्क०।। (4-15) सङ्कल्पितं चिन्तितं कान्तं कमनीयं निकटस्थसहकारं अस्या वरं जामातारं करिष्ये। वरो जामातरि श्रेष्ठ इति शाश्वतः। सखि, एषा द्वयोरपि युवयोर्हस्ते निक्षेपः। अयमस्मद्रूपो जनः कस्मिन् समर्पि(र्पि)तः। तातं⁶¹, एषा उटजपर्यन्तचारिणी गर्भभारमन्थरा मृगवधूर्यदा सुखप्रसवा


  1. लिपिकारद्वयेनात्र ताताहमिव इति सन्धियुक्तः पाठः प्रदत्तः।
  2. लिपिकारद्वयेनात्र तातैषा इति सन्धियुक्तः पाठः प्रदत्तः।