अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 154, कुल 262 में से
संदर्भ में पढ़ें140 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
प्रियंवदा-(जनान्तिकम्) अणूसूए, दूरगदमम्मधा अक्खमा खु इअं कालहरणस्स। (अनुसूये, दूरगतमन्मथा अक्षमा खल्वियं कालहरणस्य।)
अनुसूया-पिअंवदे, को उवाओ भवे जेण अविलम्बिदं णिहुदं च सहीए मणोरधं सम्पादेमो। (प्रियंवदे कः उपायः भवेत् येनाविलम्बितं निभृतं च सख्याः मनोरथं सम्पादयावः।)
प्रियंवदा-सहि, णिहुदं ति पअत्तिदव्वं। सिग्घं ति ण दुक्करं। (सखि, निभृतमिति प्रयतितव्यम्। शीघ्रमिति न दुष्करम्।)
अनुसूया-कधं विअ। (कथमिव।)
प्रियंवदा-णं सो वि राएसी इमस्सिं जणे सिणिद्धदिट्ठिसूइदहिलासो इमेसुं दिअसेसुं पज्जाअरकिसो विअ लक्खीअदी। (ननु सोऽपि राजर्षिः अस्मिन् जने स्निग्धदृष्टि-सूचिताभिलाषः एषु दिवसेषु प्रजागरकृशः इव लक्ष्यते।)
राजा-सत्यमित्थंभूत एवास्मि। तथा हि-
अशिशिरतैरन्तस्तापैर्विवर्णमणीकृतं
निशि निशि भुजन्यस्तापाङ्गप्रवर्तिभिरश्रुभिः।
अनतिलुलितज्याघाताङ्कान्मुहुर्मणिबन्धनात्
कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते॥३-१५॥
प्रियंवदा-(विचिन्त्य) हला अणूसूए, मअणलेहो दाणिं से करीअदु। तं अहं सुमणोगोविदं कदुअ देवदासेसावदेसेण तस्स रण्णो हत्थं पावइस्सं। (सखि अनसूये, मदनलेखः इदानीम् अस्याः क्रियताम्। तमहं सुमनोगोपितं कृत्वा देवताशेषापदेशेन तस्य राज्ञः हस्तं प्रापयिष्यामि।)
तद्यदि वोऽनुमतं ततस्तथा प्रयतेथां यथा तस्य राजर्षेरनुकम्पनीया भवामीति। अन्यथा स्मरत माम्। अन्यथा प्रसीदत, सिञ्चतं इदानीं मे उदकम्, मामुदकैः सिञ्चतमित्यर्थः इति शङ्करसम्मतः पाठोऽर्थश्च। विमर्षे इयमनुरक्ता न वेति परामर्शः। कामफलं येनेदृगवस्थामारोपिता। यत्नेति प्रयत्नः परमवशिष्यत इत्यर्थः। अनुसूये दूरगतमन्मथा प्ररूढकामा अक्षमा खल्वियं कालहरणस्य विलम्बस्य। प्रियम्बदे, क उपायो भवेत्। येनाविलम्बं निभृतञ्च सख्या मनोरथं सम्पादयावः। निभृतमिति प्रयतितव्यं, शीघ्रमिति न दुष्करं। कथमिव। सोऽपि राजर्षिरतस्मिन् जने स्निग्धदृष्ट्या सूचिताभिलाषः। एतेषु दिवसेषु प्रजागरकृश इव लक्ष्यते। "कटाक्षिणी साभिलाषा दृष्टिः स्निग्धाभिधीयते" इति भरतः।
आ(अ)न० / (अशिशिर०) ।। (3-15) कनकवलयं पुनःप्रतिसार्यते, उपरि नीयते। कीदृशं, मणिबन्धनात् करमूलात् वारंवारमधःपतितं स्रस्तं, मणिबन्धनात् प्रतिसार्यत इति वा। अतिकार्श्येन नातिमुदितो ज्याघाताङ्को यत्र क्रियाविशेषणम्। शङ्करस्तु अनतिलुलितो नातिविलुप्तो ज्यायाः य आघातः संघर्षः, स एवाङ्कं चिह्नं किणो यत्र। मणिबन्धनविशेषणमित्याह। कीदृशमन्तस्तापैः करणैरत्यन्ततप्तैरश्रुभिर्विवर्णं मलिनीकृतम्। अश्रुसम्बन्धयोग्यतामाह। निशीति।