अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 156, कुल 262 में से
संदर्भ में पढ़ें142 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
शकुन्तला- (सस्मितम्) णिओइद म्हि। (नियोजितास्मि।) (इति चिन्तयति।) राजा- स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियमवलोकयामि। तथा हि- उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः। पुलकाचितेन कथयति मय्यनुरागं कपोलेन।।3-18।। शकुन्तला- हला, चिन्तिदा मए गीदिया। असंणिहिदाइं उण लेहसाहणाईं। (सखि, चिन्तिता मया गीतिका। असन्निहितानि पुनः लेखसाधनानि।) प्रियंवदा- णं इमस्सिं सुओदरसिणिद्धे णलिणीवत्ते पत्तच्छेदभत्तीए णहेहिं आलिहीअदु। (नन्वस्मिन् शुकोदरस्निग्धे नलिनीपत्रे पत्रच्छेदभक्त्या नखैः आलिख्यताम्।) शकुन्तला- सुणध दाव णं संगदत्था ण व त्ति। (शृणुतं तावत् सङ्गतार्था न वा इति) उभे- अवहिदाओ म्ह। (अवहिते स्वः।) शकुन्तला- (पठति) तुज्झ ण आणे हिअअं मम उण मअणो दिवा अ रत्तिं च। णिक्किव दावइ वलिअं तुह हुत्तमणोरहाइ अङ्गाइं।।3-19।। (तव न जाने हृदयं मम पुनः मदनः दिवा च रात्रिञ्च। निष्कृप तापयति बलीयः तव अभिमुखमनोरथायाः अङ्गानि)।।3-19।। राजा- (सहसोपसृत्य)
अयि०।। आत्मगुणावमानिनि, को नाम सन्तापनिर्वाणकारिणीं शारदीयां ज्योत्स्नाम् आतप{मा}पत्रेण वारयिष्यति। नियोजितास्मि। स्थाने युक्तार्थेऽव्ययम्।
उन्नमि०।। (3-18) उन्नमितेति चिन्तनौपयिकं रूपमुक्तम्। अनेन सात्त्विको भावः उन्नीयते। तदुक्तम् सङ्गमे स्मरणे चैव प्रियस्यालोकने तथा। हेतुत्रयं समासाद्य सात्त्विकः संप्रवर्तते।। ते च स्तम्भः स्वेद३४ इत्यादयः। क्रमनामकं काव्याङ्गमिदम्। तदुक्तम्- भावना लब्धोपलब्धिस्तु३५, क्रमोऽयं परिकीर्तित इति। सखि, चिन्तिता मया गीतिका असन्निहितानि पुनर्लेख-साधनानि। ननु एतस्मिन् शुकोदरस्निग्धे नलिनीपत्रे पत्रच्छेदभक्त्या वचनया नखेनालिख्यताम्। शृणुतं तावत् सङ्गतार्था न वेति। अवहि[ते] स्वः।
तुज्झ०।। (3-19) तव न जाने हृदयं मम पुनर्म्मनो दिवा च रात्रिञ्च। निष्कृप तापयति बलीयस्त्वदभिमुख-मनोरथाया अङ्गानि।। हे निष्कृप,! हुत्तशब्दः प्राकृतेऽभिमुखे वर्तते। उत्तरोत्तराख्यमिदं लास्यम्। तदुक्तं भरतेन यदङ्गा तया स्वस्थे प्रिये सोल्लुण्ठभाषितम्। प्रयुज्यते नायिकया तद् भवेदुत्तरोत्तरम्।।
- शङ्करटीकायाम्- "स्वेदः स्तम्भोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः। वैवर्ण्यश्रुविलयो इत्यष्टौ सात्त्विकाः स्मृताः" इति।।
- भावतत्त्वोपलब्धिस्तु इति 4118 इत्यत्र।