भारतकोश
अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

पृष्ठ 141, कुल 262 में से

संदर्भ में पढ़ें
पृष्ठ 141

अभिज्ञानशकुन्तलम् द्वितीयोऽङ्कः 127

विदूषकः-ता कधेहि। (तत्कथय।)
राजा-
ललिताप्सरोभवं किल मुनेरपत्यं तदुज्झिताधिगतम्।
अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम्॥२-९॥
विदूषकः-(विहस्य) भो, जधा कस्स वि पिण्डखजूरेंहिं उव्वेइदस्स तिन्तिडिआए सद्धा भोदि तथा अन्तेउरइत्थीरदणपरिभोइणो भवदो इअं पत्थणा।
(भोः यथा कस्यापि पिण्डखर्जूरैः उद्वेजितस्य तिन्तिडिकायां श्रद्धा भवति, तथा अन्तःपुरस्त्रीरत्नपरिभोगिनः भवतः इयं प्रार्थना।)
राजा-सखे, न तावदेनां पश्यसि येन त्वमेवंवादी।
विदूषकः-तं खु रमणीअं णाम, जं भवदो वि विम्हअं उप्पदेदि। (तत्खलु रमणीयं नाम, यत् भवतः अपि विस्मयम् उत्पादयति।)
राजा-वयस्य किं बहुना।
चित्ते निवेश्य परिकल्पितसर्वयोगा-
रूपोच्चयेन महता मनसा कृता नु।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे
धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः॥२-१०॥
विदूषकः-सव्वधा पच्चादेसो क्खु सा रूववदीणं। (सर्वथा प्रत्यादेशः खलु सा रूपवतीनाम्।)


ललितेति०। (२-९) किल निश्चये। प्रसिद्धान्वित्यन्यः। तदुज्झिताधिगतं तया त्यक्तमधिगतं लब्धं मुनिना। अर्कस्य रवेरुपरि च्युतं पतितं शिथिलं वृन्ताच् च्युतम्। उज्झितसाम्यार्थमिदम्। नवमालिका अतिकोमलपुष्पभेदः। वाक्यार्थोपमा कुव्याख्यात्रोपेक्षिता।।

भो यथा पिण्डखर्जूरैः खर्जूरभेदैरुद्वेजितस्य कस्यापि तिन्तितिकायां श्रद्धा भवति तथा स्त्रीरत्नपरिभोगिनो भवत इयं प्रार्थना। तत् खलु रमणीयं नाम यद्भवतोऽपि विस्मयमुत्पादयति।।

चित्ते०।(२-१०)। सा शकुन्तला अपरा द्वितीया स्त्रीरत्नसृष्टिर्लक्ष्मीसृष्टिर्मे प्रतिभाति स्फुरति। यद्वा अन्या स्त्रीश्रेष्ठसृष्टिः प्रतिभाति। अपरा न विद्यते श्रेष्ठा यस्या इत्यमरः। “जगदानन्दिनी पद्मा स्त्रीरत्नम् अच्युत-प्रिये”ति कोषः। जातौ जातौ यदुत्कृष्टं तद्धि “रत्नं” प्रचक्षते इति च। असम्भावनाव्युदासमाह-धातुरिति स्रष्टुर्विभुत्वं सृष्टि-नैपुण्यं तस्याश्च वपुर्जगद्विलक्षणमिति भावः। अनुचिन्त्याकलय्य अत्राकलनस्फुरणयोरेक एव नृपः कर्तेति भिन्नकर्तृत्वभ्रमो न कार्यः। अन्यतो वैलक्षण्यमाह-कीदृशी, चित्ते निवेश्य प्रवेश्य ध्यात्वेति यावत्। परिकल्पितः सर्वेषां करचरणादीनां योगो यत्र परिचिन्त्य कृत इत्यर्थः। सदुपयोगाद् जनितप्राणसम्बन्ध इति शङ्करः। तथापि सृष्टस्य निश्चितकरसम्पर्काद् भव्यत्वेव किञ्चिद् वैसादृश्यमित्याह मनसा चेतसा कृता नु विभुत्वान्मनसः सर्ज्जने भवत्यन्यतो वैलक्षण्यमिति। अत्र करणं रूपोच्चयेन महतेति पूर्वत्रापि सम्बन्धनीयमिदम्।