अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 195, कुल 262 में से
संदर्भ में पढ़ेंअभिज्ञानशकुन्तलम् पञ्चमोऽङ्कः 181
प्रतीहारी—देव, पसण्णमुहा सुत्थकप्पा विअ इसीओ दीसन्ति। (देव, प्रसन्नमुखाः स्वस्थकल्पाः इव ऋषयः दृश्यन्ते।)
राजा—(शकुन्तलां निर्वर्ण्य) अये—
केयमवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम्॥५-14॥
प्रतीहारी—भट्टा, दंसणीआकिदी खु लक्खीअदि। (भर्तः, दर्शनीयाकृतिः खलु लक्ष्यते।)
राजा—भवतु, अनिर्वर्ण्यं खलु परकलत्रम्।
शकुन्तला—(उरसि हस्तं दत्त्वा, आत्मगतम्) हिअअ, किं एवं वेवसि। अज्जउत्तस्स भावाणुबन्धं सुमरिअ धीरत्तणं दाव अवलम्बसु। (हृदय, किमेवं वेपसे। आर्यपुत्रस्य भावानुबन्धं स्मृत्वा धीरत्वं तावदवलम्बस्व।)
पुरोधाः—(पुरो गत्वा) स्वस्ति देवाय। देव, एते खलु विधिवदर्चितास्तपस्विनः। कश्चिद् एतेषूपाध्यायसन्देशः। तं देवः श्रोतुमर्हति।
राजा—(सादरम्) अवहितोऽस्मि।
शिष्यौ—(हस्तमुद्यम्य) भो राजन्, विजयतां भवान्।
राजा—(सप्रणामम्) सर्वानभिवादये वः।
शिष्यौ—स्वस्ति भवते।
राजा—अपि निर्विघ्नं तपः।
शिष्यौ—
कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि।
तमस्तपति घर्मांशौ कथमाविर्भविष्यति॥५-15॥
प्रसन्नमुखाः सुस्थकल्पा ऋषयो दृश्यन्ते। निर्वर्ण्य दृष्ट्वा।।
केयम्० ।। (5-14)। तपोधनमध्ये केयमस्तीति शेषः। अवगुण्ठनं मस्तकाच्छादनवस्त्रम्। अत एव नातीति पाण्डुपत्राणामर्थात्। भर्ता महाराज। दर्शनीयाकृतिः खलु लक्ष्यति⁷¹। हृदय, किमेवं वेपसे, आर्यपुत्रस्य भावानुबन्धं स्मृत्वा धीरमवलम्बस्व। देबायेति, स्वस्ति योगे चतुर्थी (पा.सू. 2-3-16)। स्वस्त्याशीः क्षेमपुण्यादावित्यमरः। उद्यम्य उतोल्य, अपि प्रश्ने।
कुतः० ।। (5-15) दृष्टान्तालङ्कारः। अनामयेति क्षत्रियाणां तथा प्रश्नस्यैवौचित्यात्। तथा च मनुः—ब्राह्मणं कुशलं पृच्छेत्, क्षत(त्र)बन्धुम(न्चोर)नामयम्।।
- लक्ष्यति इत्यस्य स्थाने लक्ष्यते इति भवितुमर्हति। किन्तु प्राकृतभाषायाम् आत्मनेपदस्याभावादित्थमन्वुद्यते।