भारतकोश
संग्रह पर लौटें

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

अभिज्ञानशकुन्तलम् पञ्चमोऽङ्कः 181

प्रतीहारी—देव, पसण्णमुहा सुत्थकप्पा विअ इसीओ दीसन्ति। (देव, प्रसन्नमुखाः स्वस्थकल्पाः इव ऋषयः दृश्यन्ते।)

राजा—(शकुन्तलां निर्वर्ण्य) अये—

केयमवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम्॥५-14॥

प्रतीहारी—भट्टा, दंसणीआकिदी खु लक्खीअदि। (भर्तः, दर्शनीयाकृतिः खलु लक्ष्यते।)

राजा—भवतु, अनिर्वर्ण्यं खलु परकलत्रम्।

शकुन्तला—(उरसि हस्तं दत्त्वा, आत्मगतम्) हिअअ, किं एवं वेवसि। अज्जउत्तस्स भावाणुबन्धं सुमरिअ धीरत्तणं दाव अवलम्बसु। (हृदय, किमेवं वेपसे। आर्यपुत्रस्य भावानुबन्धं स्मृत्वा धीरत्वं तावदवलम्बस्व।)

पुरोधाः—(पुरो गत्वा) स्वस्ति देवाय। देव, एते खलु विधिवदर्चितास्तपस्विनः। कश्चिद् एतेषूपाध्यायसन्देशः। तं देवः श्रोतुमर्हति।

राजा—(सादरम्) अवहितोऽस्मि।

शिष्यौ—(हस्तमुद्यम्य) भो राजन्, विजयतां भवान्।

राजा—(सप्रणामम्) सर्वानभिवादये वः।

शिष्यौ—स्वस्ति भवते।

राजा—अपि निर्विघ्नं तपः।

शिष्यौ

कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि।
तमस्तपति घर्मांशौ कथमाविर्भविष्यति॥५-15॥


प्रसन्नमुखाः सुस्थकल्पा ऋषयो दृश्यन्ते। निर्वर्ण्य दृष्ट्वा।।

केयम्० ।। (5-14)। तपोधनमध्ये केयमस्तीति शेषः। अवगुण्ठनं मस्तकाच्छादनवस्त्रम्। अत एव नातीति पाण्डुपत्राणामर्थात्। भर्ता महाराज। दर्शनीयाकृतिः खलु लक्ष्यति⁷¹। हृदय, किमेवं वेपसे, आर्यपुत्रस्य भावानुबन्धं स्मृत्वा धीरमवलम्बस्व। देबायेति, स्वस्ति योगे चतुर्थी (पा.सू. 2-3-16)। स्वस्त्याशीः क्षेमपुण्यादावित्यमरः। उद्यम्य उतोल्य, अपि प्रश्ने।

कुतः० ।। (5-15) दृष्टान्तालङ्कारः। अनामयेति क्षत्रियाणां तथा प्रश्नस्यैवौचित्यात्। तथा च मनुः—ब्राह्मणं कुशलं पृच्छेत्, क्षत(त्र)बन्धुम(न्चोर)नामयम्।।


  1. लक्ष्यति इत्यस्य स्थाने लक्ष्यते इति भवितुमर्हति। किन्तु प्राकृतभाषायाम् आत्मनेपदस्याभावादित्थमन्वुद्यते।
182चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

राजा- (आत्मगतम्) सर्वथार्थवान्खलु मे राजशब्दः। (प्रकाशम्) अथ भगवान्कुशली कण्वः।

शार्ङ्गरवः- राजन्, स्वाधीनकुशलाः खलु सिद्धिमन्तः। स भवन्तमनामयप्रश्नपूर्वकम् इदमाह।

राजा- किमाज्ञापयति।

शार्ङ्गरवः- यन्मिथः समवायादिमां मदीयां दुहितरं भवानुपयेमे तन्मया प्रीतिमत्ता युवयोरनुज्ञातम्। कुतः-

त्वमर्हतां प्राग्रह्रः स्मृतोऽसि नः
शकुन्तला मूर्तिमतीव सत्क्रिया।
समानयंस्तुल्यगुणं वधूवरं
चिरस्य वाच्यं न गतः प्रजापतिः॥ ५-१६॥

तदिदानीमापन्नसत्त्वेयं गृह्यतां सहधर्मचरणायेति।

गौतमी- भद्दमुह, वत्तुकाम म्हि। ण मे वअणावकासो त्थि कधिदु ति। (भद्रमुख, वक्तुकामास्मि। न मे वचनावकाशोऽस्ति कथयितुमिति।)

राजा- आर्ये, कथ्यताम्।

गौतमी-

णावेक्खिओ गुरुअणो इमीअ ण तुमे वि पुच्छिआ बन्धू।
एक्कक्कमेण वरिए किं भण्णउ एक्कमेक्कस्स॥ ५-१७॥
(नापेक्षितः गुरुजनः अनया न त्वया अपि पृष्टाः बन्धवः।
एकक्रमेण वृते किं भण्यताम् एकम् एकस्य)॥ ५-१७॥


त्वमर्ह० ॥ (5-16) अर्हतां मान्यानां मध्ये त्वं प्राग्रह्रः श्रेष्ठः। नोऽस्माकं स्मृतोऽसि। समानयन् एकीकुर्व्वन् संयोजयन्नित्यर्थः। वधूवरमिति द्वन्द्वे विभाषयैकवद्भावः। वाच्यं वाच्यतां चिरस्येत्यव्ययम्।। सहेति पत्न्या सहधर्माचरणमेव वैदिकम्। यदाह-यत् कर्तव्यं तदनया सहेति। भद्रमुख वक्तुकामास्मि, न च मे वचनावकाशोऽस्ति कथयितुमिति।

नापे⁷²० ॥ (5-17) नापेक्षितो गुरुजनोऽनया त्वयापि न पृष्टो बन्धुः। अन्योऽन्येन वृत्ते किं भणित्वाऽन्योन्यस्य⁷³ ।। एक्कक्कमेणेति अन्योन्यम् इत्यर्थे “एक ककस्ये” त्यप्यन्योऽन्यार्थे।। शङ्करस्तु एकैकस्य चरिते किं भणतु। एकैकस्मिन्निति पठित्वा एकैकस्य एक एकस्मिन् चरिते। अन्योन्यस्य चरिते द्वयोः परस्परविषयकप्रणयकरणे एकोऽस्मद्रूपो जनः किं भणतु। अपि तु वचनावसर एव नास्तीत्याह।।


  1. नावो इति 4118 इत्यत्र पठ्यते।
  2. शङ्करेण “एकैकस्य चरिते किं भणतु एक एकस्मिन्” इति पठितम्।

अभिज्ञानशकुन्तलम्    पञ्चमोऽङ्कः    183

शकुन्तला-किं णु क्खु अज्जउत्तो भणिस्सदि। (किं नु खलु आर्यपुत्रः भणिष्यति।)
राजा-(साशङ्कमाकुलमाकर्ण्य) अये, किमिदमुपन्यस्तम्।
शकुन्तला-(स्वगतम्) हुं सावलेवो से वअणावक्खेवो। (हं, सावलेपः अस्य वचनावक्षेपः।)
शार्ङ्गरवः-किं नाम किमिदमुपन्यस्तमिति। ननु भवानेव सुतरां लोकवृत्तान्तनिष्णातः।

सतीमपि ज्ञातिकुलैकसंश्रयां
जनोऽन्यथा भर्तृमतीं विशङ्कते।
अतः समीपे परिणेतुरिष्यते
प्रियाप्रिया वा प्रमदा स्वबन्धुभिः॥५–१८॥

राजा-किमत्रभवती मया परिणीतपूर्वा।
शकुन्तला-(आत्मगतम् सविषादम्) हिअअ, संवुत्ता दे आसङ्का। (हृदय, संवृत्ता ते आशङ्का।)
शार्ङ्गरवः-राजन्, किं कृतकार्यद्वेषाद्धर्मं प्रति विमुखतोचिता राज्ञः।
राजा-कुतोऽयम् असत्कल्पनाप्रसङ्गः।
शार्ङ्गरवः-(सक्रोधम्) मूर्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तानाम्॥५–१९॥
राजा-विशेषेणाधिक्षिप्तोऽस्मि।
गौतमी-(शकुन्तलां प्रति) जाद, मा लज्ज। अवणइस्सं दाव दे अवगुण्ठणं। तदो भट्टा तुमं अहिजाणिस्सदि।)
(जात, मा लज्जस्व, अपनेष्यामि तावत्तेऽवगुण्ठनम्। ततः भर्ता त्वाम् अभिज्ञास्यति।)
(इति तथा करोति)


किं नु खल्वार्यपुत्रो भणिष्यति। हूं रोषसूचने। सावले[ति] सावलोपोऽस्य वचनावक्षेपः। किन्नामेति अन्न(र्थ)विशेषणं नाम नाट्यालङ्कारः।। तदुक्तम्–

उक्तस्यार्थस्य यत्तु स्यादुत्कीर्तनम् अनेकधा।
उपालम्भस्वरूपेण तत् स्यादर्थविशेषणम्।।

इति, निष्णातोऽभिज्ञः।। सती०।। (5–18) अन्यथा व्यभिचारिणीम्। परिणेतुर्वल्लभस्य। अत्रभवती श्लाघ्या। हृदय, संवृत्ता ते आशङ्का⁷⁴।
(5–19)।। मूर्च्छन्त्वमी विकाराः कृतानङ्गीकाररूपाः।। जाते, मा लज्जस्व, अपनेष्यामि तावत्तेऽवगुण्ठनम्। ततो भर्ता त्वामभिज्ञास्यति।।


  1. प्रकाशितमैथिलपुस्तके खल्वाशङ्का इति पठ्यते।

प्रथमपरिगृहीतं स्यान्न वेत्यध्यवस्यन्।

184 \hfill चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

राजा-(शकुन्तलां निर्वर्ण्य) (आत्मगतम्)
इदमुपनतमेवं रूपमक्लिष्टकान्ति
प्रथमपरिगृहीतं स्यान्न वेत्यध्यवस्यन्।
भ्रमर इव निशान्ते कुन्दमन्तस्तुषारं
न खलु सपदि भोक्तुं नापि शक्नोमि मोक्तुम्॥५-२०॥

प्रतिहारी-(स्वगतम्) अहो, धम्मावेक्खिदा भट्टिणो। ईदिसं णाम सुहोवणदं इत्थीरदणं पेक्खिअ को अण्णो विआरेदि। (अहो, धर्मापेक्षिता भर्तुः, ईदृशं नाम सुखोपनतं स्त्रीरत्नं प्रेक्ष्य कः अन्यः विचारयति।)

शार्ङ्गरवः-भो राजन्, किमिदं जोषमास्यते।

राजा-भोस्तपस्विन्, चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि। तत्कथमिमाम् अभिव्यक्तसत्त्वलक्षणामात्मानं क्षेत्रियमिव मन्यमानः प्रतिपत्स्ये।

शकुन्तला-(स्वगतम्) हद्धी हद्धी कथं परिणए ज्जेव सन्देहो। भग्गा दाणिं मे दूरारोहिणी आसालदा। (हा धिक् हा धिक्, कथं परिणये एव सन्देहः। भग्नेदानीं मे दूरारोहिणी आशालता।)

शार्ङ्गरवः-मा तावत्-
कृतावमर्शामनुमन्यमानः सुतां त्वया नाम मुनिर्विमान्यः।
दुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन॥५-२१॥


इदम्० ।। (5-20) एवमुपनतमेभिः स्तूयमानयोपस्थापितं रूपमवयवसौष्ठवं समुदायशोभेति शङ्करः। कान्तियौवनजन्या शोभा प्रत्यवयवशोभेति शङ्करः। अन्ये त्वेवं रूपं स्त्रीरत्नमिति व्याचक्षते। अध्यवस्यन् चिन्तयन्।। अहो धर्मापेक्षिता भर्तुः। अत्र हेतुमाह-ईदृशं नाम सुखोपनतं स्त्रीरत्नं प्रेक्ष्य कोऽन्यो विचारयति। हद्धी शब्दः स्त्रियां देशी। किमितीति०। तूष्णीमर्थे मुखे$^{75}$ जोषम् इत्यमरः।। स्वीकरणं विवाहः। अभिव्यक्तेति। प्रौढगर्भा हा धिक् कथं परिणय एव सन्देहः। भग्नेदानीं मे दूरारोहिणी आशालता।

कृता० ।। (5-21) त्वया तावन्मुनिः कण्वो मा विमान्यः अनादरणीयः। किं कृत्वा कृतावमर्षां स्वयं कृतपरिणयां अर्थात् त्वया सुतां अवमान्य अनादृत्य। हे मान्य। प्राचीन-विदेशी-पुस्तकेऽयमेव पाठः। अनुमान्यमान इति पाठस्तु विचार्य्यः। येन मुनिना त्वं पात्रीकृतोऽसि पुरस्कृतोऽसि स्वकीयमर्थं प्रतिग्राहयता। त्वं कीदृक् दुष्टः कापटिकः दुष्टमिति केचित्। दस्युश्चोरः।।

इदमवस्थान्तरं गते तादृशेऽनुरागे किं वा स्मारितेन। अथवा आत्मा इदानीं मे मया शोधनीयः।


  1. प्रकाशितमैथिलपुस्तके सुखे जोषम् इति पठ्यते।

अभिज्ञानशकुन्तलम् पञ्चमोऽङ्कः 185

शारद्वतः-शार्ङ्गरव, विरम त्वमिदानीम्। शकुन्तले, वक्तव्यमुक्तमस्माभिः। सोऽयमत्रभवान् एवमाह। दीयतामस्मै प्रतिवचनम्।

शकुन्तला-(स्वगतम्) इमं अवत्थन्तरं गदे तादिसे अणुराए किं वा सुमराविदेण। अधवा अप्पा दाणिं मे सोधणीओ। भोदु। ववसिस्सं। (प्रकाशम्) अज्जउत्त ......। (इत्यर्धोक्ते) अधवा संसइदो दाणिं एसो समुदाआरो। पोरव, जुत्तं णाम तुह पुरा अस्समपदे सब्भावुत्ताणहिअअं इमं जणं तथा समअपुव्वं सम्भाविअ सम्पदं ईदिसेहिं अक्खरेहिं पच्चाचक्खिदुं। (इदं अवस्थान्तरं गते तादृशे अनुरागे किं वा स्मारितेन। अथवा आत्मेदानीं मे शोधनीयः। भवतु। व्यवसिष्यामि। आर्यपुत्र ......, अथवा संशयितः इदानीमेषः समुदाचारः। पौरव, युक्तं नाम तव पुराश्रमपदे सद्भावोत्तानहृदयमिमं जनं तथा समयपूर्वं सम्भाव्य साम्प्रतमीदृशैः अक्षरैः प्रत्याख्यातुम्।)

राजा-(कर्णौ पिधाय) शान्तं शान्तम्।
व्यपदेशमाविलयितुं समीहसे मां च नाम पातयितुम्।
कूलङ्कषेव सिन्धुः प्रसन्नमोघं तटतरुं च॥५-२२॥

शकुन्तला-भोदु, परमत्थदो जइ परपरिग्गहसङ्किणा तए एदं पउत्तं ता अहिण्णाणेण केणावि तुह सन्देहं अवणइस्सं। (भवतु, परमार्थतः यदि परपरिग्रहशङ्किना त्वया इदं प्रयुक्तं, तद् अभिज्ञानेन केनापि तव सन्देहम्पनेष्यामि।)

राजा-प्रथमः कल्पः।

शकुन्तला-(मुद्रास्थानं परामृश्य) हद्धी हद्धी। अङ्गुलीअअसुण्णा मे अङ्गुली। (हा धिक् हा धिक्। अङ्गुरीयकशून्या मे अङ्गुली।)

(इति सविषादं गौतमीमीक्षते)

गौतमी-जाद, णं दे सक्कावदारे सचीतित्थे उदअं वन्दमाणाए पब्भट्ठं अङ्गुलीअअं। (जात, ननु ते शक्रावतारे शचीतीर्थे उदकं वन्दमानायाः प्रभ्रष्टमङ्गुरीयकम्।)


शङ्करस्तु शोचनीय इति पठित्वा, सदसि तादृशं रहस्यप्रकाशनात् त्रपया शोचनीया भविष्यसीति भावः इत्याह। भवतु व्यवस्यामि रहस्यं वक्तुमिति शेषः। वदिष्यामीति शाङ्करः पाठः।

आर्यपुत्र, प्रथमं संशयित, इदानीमेष समुदाचारः। कलत्रभावस्य सन्दिग्धत्वादित्यर्थः। पौरव, युक्तं नाम तव पुरा आश्रमपदे सद्भावोत्तान हृदयमिमं जनं तथा समयपूर्वं सम्भाव्य सांप्रतमीदृशैरक्षरैः प्रत्याख्यातुम्। वारणे शान्तमव्ययमिति कोषः। ईदृश व्याहारो निवार्य्यतामित्यर्थः।

व्यप०।।(5-22) व्यपदेशः कुलं नाम वा। आविलयितुम् दूषयितुम्, कूत(ल)ङ्कषा तटवारणी सिन्धुर्नदी, ओघं प्रवाहम्। भवतु, परमार्थतो यदि परपरिग्रहशङ्किना त्वया इदं प्रयुक्तम्, तदभिज्ञानं केनापि तव सन्देहम्पनेष्यामि। कल्पः पक्षः, प्रकारो वा। मुद्राङ्गुरीयकम्। हा धिक् अङ्गुरीयशून्यं मेऽङ्गुलम्।

186 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

राजा- इदं तत्प्रत्युत्पन्नमतित्वं स्त्रीणाम्।

शकुन्तला- एत्थ दाव विहिणा दंसिदं पहुत्तणं। अवरं दे कधइस्सं। (अत्र तावद्विधिना दर्शितं प्रभुत्वम्। अपरं ते कथयिष्यामि।)

राजा- श्रोतव्यमिदानीं संवृत्तम्।

शकुन्तला- णं एक्कदिअसं वेतसलदामण्डवे णलिणीवत्तभाअणगदं उदअं तुह हत्थे संणिहिदं आसि। (नन्वेकदिवसं वेतसलतामण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते सन्निहितम् आसीत्।)

राजा- शृणुमस्तावत्।

शकुन्तला- तक्खणं सो मम पुत्तकिदओ मिअसावओ उवत्थिदो। तदो तए अअं दाव पढमं पिवदु त्ति अणुकम्पिणा उवच्छन्दिदो। ण उण दे अवरिचिदस्स हत्थादो उदअं उवगदो पादूं। पच्छा तस्सिं जेव उदए मए गहिदे किदो तेण पणओ। एत्थन्तरे विहसिअ भणिदं तए। सच्चं सव्वो सगन्धे वीससदि जदो दुवे वि तुम्हे आरण्णकाओ त्ति। (तत्क्षणं सः मम पुत्रकृतकः मृगशावकः उपस्थितः। ततः त्वया अयं तावत् प्रथमं पिबतु इति अनुकम्पिना उपच्छन्दितः। न पुनः ते अपरिचितस्य हस्ताद् उदकमुपगतः पातुम्। पश्चात् तस्मिन्नेव उदके मया गृहीते कृतः तेन प्रणयः। अत्रान्तरे विहस्य भणितं त्वया-सत्यं, सर्वः सगन्धे विश्वसिति, यतः द्वावपि युवामारण्यकौ इति।)

राजा- आभिस्ताभिरात्मकार्यनिर्वर्त्तिनीभिर्मधुराभिरनृतवाग्भिराकृष्यन्ते विषयिणः।

गौतमी- महाराअ, णारिहसि एवं मन्तिदुं। तवोवणसंवड्ढिदो क्खु अअं जणो अणहिण्णो केदवस्स।

(महाराज, नार्हसि एवं मन्त्रयितुम्। तपोवनसंवर्धितः खल्वयं जनः अनभिज्ञः कैतवस्य।)


जाते, न खलु शक्रावतारे शचीतीर्थोदकं वन्दमानायाः प्रभ्रष्टमङ्गुरीयकम्। नः काकौ। अत्र तावद्विधिना दर्शितं प्रभुत्वम्। अपरं कथयिष्यामि।

नन्वेकदिवसे वेतसलतामण्डपे नलिनीपत्रभाजनगतम् उदकं तव हस्ते सन्नि[हि]तमासीत्। तत् क्षणं स मम कृतकपुत्रो मृगशावक उपस्थितः, ततस्त्वया" ऽयन्तावत् प्रथमं पिबत्वि"ति अनुकम्पिना उपच्छन्दितः प्रलोभितः। [न] पुनस्तेऽपचि(रिचि)तस्य हस्तादुदकमुपगतः पातुं। पश्चात् तस्मिन्नेवोदके मया गृहीते कृतस्तेन प्रणयो विश्वासः।

अत्रान्तरे विहस्य त्वया भणितं “सत्यं, कु(स)र्व्वः सगन्धे सदृशे सन्निहिते वाश्वसिते”। गन्धो लेशे तथामोदे गन्धः सम्बन्धमात्रक इति कोषः। यतो द्वावपि युवामारण्यकाविति। महाभाग, नार्हसि एवं मन्त्रयितुं तपोवनसम्वर्द्धितः खल्वयं जनः अनभिज्ञः कैतवस्य।।

स्त्रीणां०।। (5-23) अमानुषीणां ज्ञानशून्यानामर्थात् प्राक् पूर्व्वं जातं समूहं पक्षिभिः

अभिज्ञानशकुन्तलम् पञ्चमोऽङ्कः 187

राजा—तापसवृद्धे,
स्त्रीणामशिक्षितपटुत्वममानुषीषु
संदृश्यते किमुत याः प्रतिबोधवत्यः।
प्रागन्तरिक्षगमनात्स्वमपत्यजातम् ,
अन्यद्विजैः परभृताः किल पोषयन्ति॥५–२३॥

शकुन्तला—(सरोषम्) अणज्ज, अत्तणो हिअआणुमाणेण किल सव्वं एदं पेक्खसि। को णाम अण्णो धम्मकञ्चअववदेसिणो तणच्छण्णकूवोवमस्स तुह अणुकारी भविस्सदि। (अनार्य, आत्मनः हृदयानुमानेन किल सर्वमेतत्प्रेक्षसे। कः नामान्यः धर्मकञ्चुकव्यपदेशिनः तृणच्छन्नकूपोपमस्य तवानुकारी भविष्यति।)

राजा—(स्वगतम्) वनवासादविभ्रमः पुनरत्रभवत्याः कोपो लक्ष्यते। तथा हि—
न तिर्यगवलोकितं भवति चक्षुरालोहितं
वचोऽपि परुषाक्षरं न च पदेषु संसज्जते।
हिमार्त इव वेपते सकल एष बिम्बाधरः
स्वभावविनते भ्रुवौ युगपदेव भेदं गते॥५–२४॥

अथवा सन्दिग्धबुद्धिं मामधिगत्यकैतवच्छायया कोपोऽस्याः। तथा ह्यनया—
मय्येव विस्मरणदारुणचित्तवृत्तौ वृत्तं रहः प्रणयमप्रतिपद्यमाने।
भेदाद्भ्रुवोः कुटिलयोरतिलोहिताक्ष्या भग्नं शरासनमिवातिरुषा स्मरस्य॥५–२५॥

(प्रकाशम्) भद्रे, प्रथितं दुःषन्तचरितं प्रजासु। नापीदं दृश्यते।

[ शकुन्तला
तुह्मे ज्जेव पमाणं जाणध धम्मत्थिदिञ्च लोअस्स।
लज्जाविणिज्जिदाओ जाणन्ति ण किम्पि महिलाओ॥५–२६॥


अर्थान्तरन्यासः। प्रतिवस्तूपमेत्यन्यः। अनार्य्य, आत्मनो हृदयानुमानेन सर्वमेतत् प्रेक्षसे। को नामा नान्यो धर्मकञ्चुकव्यपदेशिनः धर्मानुरुद्धात्मकत्व-प्रकाशिनः। "पावसिनो" इति प्रायः पाठः। तृणच्छन्नकृ(कू)पोपमस्य तवानुकारी भविष्यति। अविद्दु(भ्र)मो विलासशून्यः।। न ति०।। (5-24) तिर्य्यक् कुटिलं न भवतीत्यन्वयः आलोहितमत्यन्तारुणं तव्यास्रवास स्यात् पदेषु सुप्तिङ् रूपेषु संसज्यते स्खलति, न संशय्यते सन्दिग्धं न भवति। ततो गद्गदस्वरादि प्रायो वैदग्धे भवतीति शङ्करः। प्रकाशमप्यर्थं कामिनीभावविलासम् अभिनेतुं तिर्य्यग्वीक्ष्यते ईषदरुणलोचना च स्यात् अपराद्धं सकम्पं करोति ईषदामतां भ्रुवमेकां विभिन्नां करोति इयन्तु न तथेति भावः। मय्येवेति।। (5-25) सुगमम्।। तुस्थे(हो)०।। (5-26)। यूयमेव प्रमाणं जानीथ धर्मस्थितिञ्च लोकस्य, लज्जाविनिर्ज्जिता जानन्ति न किमपि महिलाः। गाथेयं, पुराणपुस्तके न दृश्यते, नातिचारुः।

सुष्ठु इदानीं स्वच्छन्दचारिणी समुपाश्रिता। अर्थादनेन या एतस्य पुरुवंशप्रत्यायनमुखमधुना

188 | चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्


( यूयमेव प्रमाणं जानीथ धर्मस्थितिञ्च लोकस्य।
लज्जाविनिर्जिता जानन्ति न किमपि महिलाः ) ॥ ५–२६ ॥$^{76}$

सुट्ठु। इदाणिं अत्तच्छन्दाणुआरिणी संवृत्त म्हि जा इमस्स पुरुवंसस्स पच्चएण मुहमधुणो हिअअपत्थरस्स हत्थब्भासं उवगदा।

( सुष्ठु, इदानीमात्मच्छन्दानुकारिणी संवृत्तास्मि, या अस्य पुरुवंशस्य प्रत्ययेन मुखमधोः हृदयप्रस्तरस्य हस्ताभ्यासमुपगता।)

( इति पटान्तेन मुखमावृत्य रोदिति।)

शार्ङ्गरवः – इत्थमप्रतिहतं चापलं दहति।
अतः समीक्ष्य कर्तव्यं विशेषात्सङ्गतं रहः।
अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम्॥ ५–२७॥

राजा – अयि भोः। किमत्रभवतीवचनसम्प्रत्ययादेवास्मान्सम्भृतदोषैरधिक्षिपथ।

शार्ङ्गरवः – (सासूयम्) श्रुतं भवद्भिरधरोत्तरम्।
आ जन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य।
पराभिसन्धानमधीयते यै र्विद्येति ते सन्ति किलाप्तवाचः॥ ५–२८॥

राजा – हंहो सत्यवादिन्, अभ्युपगतं तावदस्माभिरेवंविधा एव वयम्। किं पुनरिमाम् अभिसन्धाय लभ्यते।

शार्ङ्गरवः – विनिपातः।

राजा – विनिपातः पौरवैर्लभ्यत इत्यश्रद्धेयमेतत्।

शार्ङ्गरवः – भो राजन्, किमत्रोत्तरोत्तरैः। अनुष्ठितो गुरुनियोगः। सम्प्रति निवर्तामहे वयम्।

तदेषा भवतः पत्नी त्यज वैनां गृहाण वा।
उपयन्तुर्हि दारेषु प्रभुता सर्वतोमुखी॥ ५–२९॥

गौतमि, गच्छाग्रतः। ( इति प्रस्थिताः)


मधुवचनस्येत्यर्थः। हृदयशस्त्रधारकस्य हस्ताभ्यासमुपगता। अभ्यासः समीपम्। अधरोत्तरं निकृष्टप्राधान्यम्।।

आ ज०।। (5–28) अशिक्षित इति कर्तरि क्तः। अभिसन्धानं हिंसा मायेति सोलुण्ठम्। हं हो सत्यवादिन् इति अक्षमा नाट्यालङ्कारः। तदुक्तम्– अक्षमा स्यात् परिभवः स्वल्पोऽपि न विसह्यत इति। सक्रोधम् आह– “विनिपातो” नरकगमनम्। तदे०।। (5–29) उपयन्तुः परिणेतुः, सर्वतोमुखी सर्वकरणसमर्था।


  1. अंशोऽयं रिचार्ड पिशेलेन सम्पादिते पाठे न स्वीकृतः।

अभिज्ञानशकुन्तलम् पञ्चमोऽङ्कः 189

शकुन्तला-अहं इमिणा दाव किदवेण विप्पलद्धा। तुम्हे वि मं परिच्चअध। (अहं अनेन तावत्कितवेन विप्रलब्धा। यूयमपि मां परित्यजथ।)

(इत्यनुप्रतिष्ठते)

गौतमी-(परिवृत्यावलोक्य च) वच्छ सङ्गरव, अणुगच्छदि णो करुणपरिदेविणी सउन्तला। पच्चादेसपिसुणे भत्तारे किं करेदु तवस्सिणी। (वत्स शार्ङ्गरव, अनुगच्छति नः करुणपरिदेविनी शकुन्तला। प्रत्यादेशपिशुने भर्तरि किं करोतु तपस्विनी।)

शार्ङ्गरवः-(सरोषं निवृत्य) आः पुरोभागिनि। किमिदं स्वातन्त्र्यमवलम्बसे।

(शकुन्तला भीता वेपते)

शार्ङ्गरवः-शृणोतु भवती।

यदि यथा वदति क्षितिदस्तथा
त्वमसि किं पितुरुत्कुलया त्वया।
अथ तु वेत्सि शुचि व्रतमात्मनः
पतिगृहे तव दास्यमपि क्षमम्॥5-30॥

तिष्ठ। साधयामो वयम्।

राजा-भोस्तपस्विन्, किमत्रभवतीं विप्रलभ्यते। पश्य-

कुमुदान्येव शशाङ्कः, सविता बोधयति पङ्कजान्येव।
वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः॥5-31॥

शार्ङ्गरवः-राजन्, अथ पुनः पूर्ववृत्तं व्यासङ्गाद् विस्मृतं भवेत् तदा कथम् अधर्मभीरो-र्दारपरित्यागः।

राजा-भवन्तमेव गुरुलाघवं पृच्छामि।

मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये।
दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः॥5-32॥


अहमेतेन तावत् कितवेन विप्रलब्धा। यूयमपि मां परित्यजत। वत्स शार्ङ्गरव अनुगच्छति नः करुणपरिदेविनी। प्रत्यादेशपिशुने भर्तरि किं करोतु तपस्विनी दीना। आः कोपे। दोषैकदृक् पुरोभागीत्यमरः।

यदि०।। (5-30) उत्कुलया कूलमुल्लङ्घ्य स्थितया। अथ पक्षान्तरे।

कुमु०।। (5-31) परिग्रहः पत्नी अर्थान्तरन्यासः। अथेति तत् प्रासनाख्य नाट्यालङ्कारः। तदुक्तम्-उत् प्रासन्तूपहासो योऽसाधौ साधुमानिनीति।

मृ(मूढ)०।। (5-32) अहो विकल्पे, परमापरिग्रहणा दारत्याग एव वरमिति भावः। नैमित्तिकैर्गणकैः।

190 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

पुरोधाः-(विचार्य) यदि तावदेवं क्रियते।
राजा-अनुशास्तु गुरुः।
पुरोधाः-अत्रभवती तावद् आप्रसवादस्मद्गृहे तिष्ठतु।
राजा-कुत इदम्।
पुरोधाः-त्वं साधुनैमित्तिकैरादिष्टपूर्वः प्रथममेवोभयचक्रवर्तिनं पुत्रं जनयिष्यसीति। स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भवति, ततः प्रतिनन्द्य शुद्धान्तमेनां प्रवेशयिष्यसि। विपर्यये त्वस्याः पितुः समीपगमनं स्थितमेव।
राजा-यथा गुरुभ्यो रोचते।
पुरोधाः-(उत्थाय) वत्से, इतो इतोऽनुगच्छ माम्।
शकुन्तला-भअवदि वसुंधरे! देहि मे अन्तरं। (भगवति वसुन्धरे, देहि मे अन्तरम्।)
(इति सह पुरोधसा तपस्विभिर्गौतम्या च रुदती प्रस्थिता।
राजा शापव्यवहितस्मृतिः शकुन्तलामेव चिन्तयति।)
(नेपथ्ये) आश्चर्यम् आश्चर्यम् ..........।
राजा-(कर्णं दत्त्वा) किं नु खलु स्यात्।
पुरोधाः-(प्रविश्य, सविस्मयम्) देव, अद्भुतं खलु वृत्तम्।
राजा-किमिव।
पुरोधाः-परावृत्तेषु कण्वशिष्येषु-
सा निन्दन्ती स्वानि भाग्यानि बाला बाहूत्क्षेपं रोदितुं च प्रवृत्ता।
राजा-किं तदानीम्।
पुरोधाः-
स्त्रीसंस्थानं चाप्सरस्तीर्थमारात्
क्षिप्त्वैवाशु ज्योतिरेनां तिरोऽभूत्।। ५-३३।।
(सर्वे विस्मयं रूपयन्ति)


(भगवति) वसुधे, देहि मे अन्तरम् अवकाशम्।।
सा नि०।। (5-33) ।। बाहूत्क्षेपं यथा स्यात्। स्त्रीभिः स्त्रिया इव संस्थानम् आकृतिर्यस्य। आरान्तिकट-दूरान्तिकाथदिति षष्ठ्यर्थे द्वितीया। प्रत्यादिष्टो निराकृतः।।

अभिज्ञानशकुन्तलम् पञ्चमोऽङ्कः 191

राजा—गुरो, प्रथमम् एवास्माभिरेषोऽर्थः प्रत्यादिष्टः। किं मृषा तर्केणान्विष्यते। विश्राम्यताम्।
पुरोधाः—विजयस्व। (इति निष्क्रान्तः)
राजा—वेत्रवति, पर्याकुल इवास्मि। शयनीयगृहमादेशय।
प्रतीहारी—इदो इदो एदु देवो। (इतो इत एतु देव।)
राजा—(परिक्रामन् स्वगतम्)
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम्।
बलवत्तु दूयमानं प्रत्यायतीव मां हृदयम्॥५-३४॥
(इति निष्क्रान्ताः सर्वे)
॥ पञ्चमोऽङ्कः ॥


कामं० ।। (5-34) बलवदतिशयेन दूयमानं हृदयं कर्तृ ।।
॥ इति पञ्चमोऽङ्कः ॥

॥ षष्ठोऽङ्कः ॥

(ततः प्रविशति नागरकः पश्चाद्बाहुबन्धं पुरुषमादाय रक्षणौ च)

रक्षणौ—(पुरुषं ताडयित्वा) हण्डे कुम्भिलआ। कधेहि कहिं तए एशे महालदणभाशुले उक्किण्णणाम कले लाअकीए अङ्गुलीअए शमाशादिदे। (हण्डे कुम्भीलक, कथय कुत्र त्वया एतन्महार्त्नभासुरम् उत्कीर्णनामाक्षरं राजकीयमङ्गुरीयकं समासादितम्।)

धीवरकः—(भीतिनाटितकेन) पशीदन्तु भावमिश्रा। ण हगे ईदिशश्श अकय्यश्श कालके। (प्रसीदन्तु भावमिश्राः, नाहम् ईदृशस्याकार्यस्य कारकः।)

एकः—किं णु क्खु शोहणे बम्हणे शि त्ति कदुअ लञ्जा दे पलिग्गहे दिण्णे। (किं नु खलु शोभनः ब्राह्मणोऽसि इति कृत्वा राज्ञा ते परिग्रहः दत्तः।)

धीवरकः—शुणध दाव। हगे क्खु शक्कावदालवाशी धीवले। (शृणुत तावत् अहं खलु शक्रावतारवासी धीवरः।)

द्वितीयः—हण्डे पाडच्चला, किं तुमं अस्मेहिं यादिं वशदिं च पुश्विदे। (हण्डे पाटच्चरः, किं त्वम् अस्माभिः जातिं वसतिं च पृष्टः।)

नागरकः—सूअअ, कधेदु सव्वं कमेण। मा णं पडिबन्धेध। (सूचक, कथयतु सर्वं क्रमेण। मा एनं प्रतिबध्नीतम्।)

उभौ—यं लाउत्ते आणवेदि। लवेहि ले लवेहि। (यदीश्वरः आज्ञापयति। लप रे लप।)

धीवरकः—शे हगे यालवडिशप्पहूदीहिं मश्शबन्धनोवाएहिं कुटुम्बभलणं कलेमि। (सोऽहं जालबडिशप्रभूतिभिः मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि।)

नागरकः—(प्रहस्य) विसुद्धा दाणिं दे आजीवो। (विशुद्धः इदानीं ते आजीवः।)


हण्डे नीचसम्बोधने। बन्दिचोरो याचनः स्यात्। कुम्भीलः सन्नि(न्धि)कारक इति हारावली। अरे कुम्भीलक कथय कुत्र त्वया इदं महार्त्नभास्वरम् उत्कीर्णनामाक्षरं राजकीयमङ्गुरीयकं समासादितम्। नाटकितकमभिनयः। भावा मान्याः मिश्राः प्रधानाः। नाहमीदृशस्याकार्यस्य कारकः। किं खलु शोभनो ब्राह्मण इति कृत्वा राज्ञा ते प्रतिग्रहो दत्तः$^{77}$। शृणु तावद् अहं खलु शक्रावतारवासी धीवरः। शक्रेति तीर्थभेदः। हण्डे पाटच्चर चौरः। किं त्वमस्माभिर्जातिं वसतिञ्च पृष्टः। सूचक कथयतु सर्वं क्रमेण। मैनं प्रतिबध्नीहि। सूचकेति रक्षकनाम। यदीश्वर आज्ञापयति। न पा(आवुत)वेत्त पवातनेशब्द ईश्वरे देशी। सोऽहं जालबडिशप्रभूतिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि। बडिशं मत्स्यवेधनमित्यमरः। विशुद्ध इदानीं ते आजीवः, जीवनोपायः। भर्तु(र्तं)र्मा एवं भण।


$^{77.}$ इतः परं “कुतोपि स्वेच्छया प्राप्तः संगतो नोभयोरपि। विष्कंभकः। सविज्ञेयः-थार्थस्यापि सूचकः। असूचितस्य पात्रस्य प्रवेशो नैव दृश्यते। अतः प्रधानपात्राणां सूचकः स्यात्। प्रवेशकः। बीजं बिन्दुः पताका न प्रकरी कार्यमेव च। अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधिः” इत्यधिकम् 4118 इत्यत्रैव पठ्यते।

अभिज्ञानशकुन्तलम् षष्ठोऽङ्कः 193

धीवरकः-भस्टके, मा एवं भण। (भर्तः, मैवं भण।)
शहये किल ये वि णिन्दिदे ण हु शे कम्म विवय्यणीअके।
पशुमालिं कलेदि दालुणं अणुकम्पामिदुले वि शोणिके॥६-१॥
(सहजं किल यद्यपि निन्दितं न खलु तत् कर्म विवर्जनीयम्।
पशुमारणं करोति दारुणमनुकम्पामृदुलोऽपि सौनिकः)॥६-१॥
नागरकः-तदो तदो। (ततस्ततः।)
धीवरकः-अध एक्कदिअशं मए लोहिदमश्शके खण्डशो कप्पिदे। यावतश्श उदलब्भन्तले एदं महालदणभाशुलं अङ्गुलीअअं पेस्कामि। पश्शाइध विक्कअस्तं णं दंशअन्ते य्येव गहिदे भावमिश्रेहिं। एत्तिके दाव एदश्श आगमे। अधुणा मालेध वा कुस्टेध वा। (अथैकदिवसं मया रोहितमत्स्यः खण्डशः कल्पितः। यावत्तस्य उदराभ्यन्तरे एतत् महारत्नभासुरमङ्गुलीयकं प्रेक्षे। पश्चादिह विक्रयार्थमेतद्दर्शयन्नेव गृहीतः भावमिश्रैः। एषः तावदेतस्यागमः। अधुना मारयत वा कुट्टयत वा।)
नागरकः-(अङ्गुरीयकमाघ्राय) जाणुअ, मच्छोदरसंठिदं ति णत्थि संदेहो। तथा अअं से विस्सगन्धो। आगमो दाणिं एदस्स विमरिजिदव्वो। ता एध राउअलं जेव गच्छम्ह। (जानुक, मत्स्योदरसंस्थितमिति नास्ति सन्देहः। तथायमस्य विस्रगन्धः आगमः इदानीमेतस्य विमर्ष्टव्यः। तदितः राजकुलमेव गच्छामः।)
रक्षिणौ-(धीवरं प्रति) गश्च ले गण्ठिश्शेदआ गश्च। (गच्छ रे ग्रन्थिच्छेदक गच्छ।)
(इति परिक्रामन्ति)


सह०।। (6-1)
सहजं किल यदपि निन्दितं न खलु तत् कर्म विवर्जनीयम्।
पशुमारणं करोति कारणात् षट्कर्मा विदुरो श्रोत्रियः॥
सहजं कुलक्रमागतम्। हेतुमाह विदुरो विद्वान् पशुमारणं करोति कारणात्। महोक्षं वा महाजं वा श्रोत्रियेत्यादिः स्मृतिवचनात्। यज्ञादीति षट्कर्माणि त्रिभिः श्रोत्रिय इत्यादि। तथा च विरुद्धमेतत् परम्परायातं कुर्वतो नीचस्य मम न दूषणमिति भावः।। ततस्ततः। तत एकदिवसे मया रोहितमत्स्यः खण्डशः कल्पितः कृतो वा। यावत्तस्योदराभ्यन्तरे इदं महारत्नभास्वरम् अङ्गुरीयकं प्रेक्ष्ये। यावद् वाक्यालङ्कारे। पश्चादिह विक्रियार्थमिदं दर्शयन्नेव गृहीतो भावमिश्रैः, एतावानेवास्यागमः। अधुना मारयथ कर्तु(र्तं)यथ वा।।
जानुकेत्यपर रक्षकस्य नाम। जानुक! मत्स्योदरसंस्थितमिति नास्ति सन्देहः। यथास्य विस्रगन्ध आमिषगन्धो वेति आगम इदानीमेतस्य विलषि(मर्षि)तव्यः। मत्स्योदक(र)प्रवेशः कथमस्येति ज्ञातव्यमित्यर्थः। तद्राजकुलमेव गच्छामः। तत्रैव वृत्तान्तमिदं ज्ञास्याम इति भावः।
आगच्छ रे ग्रन्थिच्छेदक आगच्छ। आगच्छ रे ग्रन्थिच्छेदक आगच्छ।

194 | चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

नागरकः—सूअअ, इध गोउरदुआरे अप्पमत्ता पडिवालेध मं जाव राउलं पविसिअ णिक्कमामि। (सूचक, इह गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं मां, यावद् राजकुलं प्रविश्य निष्क्रामामि।)

उभौ—पविसदु लाउत्ते शामिप्पशादस्तं। (प्रविशतु ईश्वरः स्वामिप्रसादार्थम्।)

नागरकः—तधा। (तथा) (इति निष्क्रान्तः)

सूचकः—याणुअ, चिलाअदि लाउत्ते। (जानुक, चिरायति ईश्वरः।)

जानुकः—णं अवशलोवशप्पणीआ खु लाआणो होन्ति। (ननु अवसरोपसर्पणीयाः खलु राजानः भवन्ति।)

सूचकः—याणुअ, स्फुलन्ति मे अग्गहस्ता। (धीवरं निर्दिश्य) इमं गण्ठिश्रेदअं वावादेदुं। (जानुक, स्फुरन्ति मे अग्रहस्ताः। इमं ग्रन्थिच्छेदकं व्यापादयितुम्।)

धीवरकः—णालिहदि भावे अकालणमालके भविदुं। (नार्हति भावः अकारणमारकः भवितुम्।)

जानुकः—(विलोक्य) एशे अस्माणं ईशले पत्ते गेण्हिअ लाअशाशणं। (धीवरं प्रति) ता शउलाणं मुहं पेस्कशि अथवा गिद्धशिआलाणं बली भविश्शशि। (एषः अस्माकम् ईश्वरः प्राप्तः गृहीत्वा राजशासनम्। तत् स्वकुलानां मुखं प्रेक्षसे अथवा गृध्रशृगालानां बलिः भविष्यसि।)

प्रविश्य नागरकः—सिग्धं सिग्धं एदं। (शीघ्रं शीघ्रं एतम्।) (इत्यर्धोक्ते)

धीवरकः—हा हदे स्मि। (हा हतोऽस्मि।) (इति विषादं नाटयति)

नागरकः—मुञ्चेध रे मुञ्चेध जालोवजीविणं। उववण्णो से किल अङ्गुलीअअस्स आगमो। अम्हसामिणा जेव मे कथिदं। (मुञ्चतं रे मुञ्चतम् जालोपजीविनम्। उपपन्नः अस्य किल अङ्गुरीयकस्यागमः। अस्मत्स्वामिना एव मे कथितम्।)

सूचकः—यधा आणवेदि लाउत्ते। यमवशदिं गदुअ पडिणिउत्ते क्खु एशे।


सूचक—इह गोपुरद्वारे अप्रमत्ताववहितौ परिपालये मां। यावद् राजकुलं प्रविश्य निष्क्रामामि। प्रविशन्त्वीश्वरः स्वामिप्रसादार्थम्। चिरयतीश्वरः। नन्ववसरोपसर्पणीया राजानो भवन्ति। जानुक, स्फुरति मेऽयं हस्तः, इमं ग्रन्थिच्छेदकं व्यापादयितुम्। नार्हति भावोऽकारणमारको भवितुम्। एषोऽस्माकमीश्वरः प्राप्तः गृहीत्वा राजशासनं। आज्ञां तत् कुल्यानां बान्धवानां शकु(न्त)लानां मत्स्यानामामुखं प्रेक्ष्य। अथवा शृगालगृध्रबलिर्भव बलिरूपद्वा(हा)रः।। शीघ्रं शीघ्रमेतम्। हा हतोऽस्मि। मुञ्चतं जालोपजीविनम्। उपपन्नः किलास्याङ्गुरीयकस्यागमः। अस्मत् स्वामिना यावदस्य कथितं अस्याङ्गुरीयस्य तत्वं कथितमित्यर्थः। यथाज्ञापयतीश्वरः। यमवसतिं गत्वा प्रतिनिवृत्तं वपुषः। भर्तुस्तव केल/रकं (भर्तस्तव क्रीतं) तदीयमित्यर्थः। साम्प्रतमस्माकजीवितम्। उव(प)क्रीतमिति तु शङ्करव्याख्या विचार्य्या।।

अभिज्ञानशकुन्तलम्षष्ठोऽङ्कः195

(यथा आज्ञापयति ईश्वरः। यमवसतिं गत्वा प्रतिनिवृत्तः खल्वेषः।)
(इति धीवरं बन्धनान्मोचयति)
धीवरकः- (नागरकं प्रणम्य) भस्टके, तव केलके मम यीविदे। (भर्तः, त्वदीयं मम जीवितम्।)
(इति पादयोः पतति।)
नागरकः- उत्थेहि उत्थेहि, एसो भट्टिणा अङ्गुलीअअमुल्लसंमिदो पारिदोसिओ दे पसादीकिदो। ता गेण्ह एदं। (उत्तिष्ठ उत्तिष्ठ, एतद्भर्त्रा अङ्गुरीयकमूल्यसंमितं पारितोषिकं ते प्रसादीकृतम्। तत् गृहाण एतत्।) (इति धीवराय कटकं प्रयच्छति)
धीवरकः- (सहर्षं प्रतिगृह्य) अणुग्गहिदे स्मि। (अनुगृहीतोऽस्मि।)
जानुकः- एशे क्खु लञ्जा तथा णाम अणुग्गहिदे यं शूलादो ओदालिअ हस्तिस्कन्धं शमालोविदे। (एषः खलु राज्ञा तथा नाम अनुगृहीतः यत् शूलादवतार्य हस्तिस्कन्धं समारोपितः।)
सूचकः- लाउत्त्ते, पालिदोशिए कधेदि महालिहलदणेण तेण अङ्गुलीअएण शामिणो बहुमदेण होदव्वं त्ति। (ईश्वर, पारितोषिकं कथयति महार्हरत्नेन तेन अङ्गुरीयकेन स्वामिनः बहुमतेन भवितव्यमिति।)
नागरकः- णं तरिस्सं भट्टिणो महारिहरदणं ति ण परिदोसो। एत्तिकं उण। (ननु तस्मिन् भर्तुः महार्हरत्नमिति न परितोषः। एतावत् पुनः।)
उभौ- किं णाम। (किं नाम।)
नागरकः- तक्केमि तस्स दंसणेण को वि हिअअट्ठिदो जणो भट्टिणा सुमरिदो त्ति जदो तं पेक्खिअ मुहुत्तअं पइडिगम्भीरो वि पज्जुस्सुओमणो आसि। (तर्कयामि तस्य दर्शनेन कोऽपि हृदयस्थितः जनः भर्त्रा स्मृतः इति, यतः तत् प्रेक्ष्य मुहूर्तकं प्रकृतिगम्भीरोऽपि पर्युत्सुकमनाआसीत्।)
सूचकः- तोशिदे दाणिं भस्टा लाउत्तेण। (तोषितः इदानीं भर्ता ईश्वरेणः।)
जानुकः- णं भणामि इमश्श मश्श्लीशत्तुणो किदे त्ति। (ननु भणाम्यस्य मत्स्यशत्रोः कृते इति।) (इति धीवरमसूयया पश्यति)


उत्तिष्ठ, एष भर्त्राङ्गुरीयक-मूल्य-सम्मितस्तुलितः पारितोषिकस्ते प्रसादीकृतस्तद् गृहाणैतत्। अनुगृहीतोऽस्मि। एष खलु राज्ञा तथानुगृहीतः यच्छूलादवतार्य हस्तिस्कन्धं समारोपितः। ईश्वरः-पारितोषिकः कथयति महार्हरत्नेन तेनाङ्गुरीयकेन स्वामिनो बहुमतेन भवितव्यमिति। ननु तस्मिन् भर्तुर्महार्हरत्नमिति न परितोषितः। एतावत् पुनस्तर्कयामि तस्य दर्शनेन कोऽपि हृदयेन्तो(यस्थो) जनो भर्त्रा स्मृत इति।

यथा मुहूर्तं प्रकृतिगम्भीरोऽपि पर्युत्सुकमना आसीत्।। तोषित इदानीं भर्त्रा ईश्वरेण। ननु भणाम्यस्य मत्स्यशत्रोः कृते। एतत् प्रयोजनार्थमेव भर्त्रा राजसन्तोषः कृत इति भावः।

196 \hfill चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

धीवरकः-भस्टका, इदो अद्धं तुम्हाणं पि शुलामुल्लं भोदु। (भर्तारौ, इतः अर्धं युष्माकमपि सुरामूल्यं भवतु।)

जानुकः-धीवल, महत्तले शंपदं मे पिअवअशके शंकुत्ते शि। कादम्बलीशद्धिके क्खु पढमं अस्माणं शोहिदे इश्रीअदि। ता शुण्डकागालं येव गश्शस्म। (धीवर, महत्तरं साम्प्रतं मे प्रियवयस्यः संवृत्तोऽसि। कादम्बरीसगन्धिके खलु प्रथममस्माकं सौहित्यम् इष्यते। तत् शौण्डिकागारमेव गच्छामः।)

(इति निष्क्रान्ताः सर्वे)

(प्रवेशकः)

(ततः प्रविशत्याकाशयानेन मिश्रकेशी)

मिश्रकेशी-णिव्वत्तिदं मए पज्जाअणिव्वत्तणीअं अच्छरातिथ्थसंणिज्झं। ता जाव इमस्स राएसिणो वुत्तन्तं पच्चक्खीकरइस्सं। मेणआसंबन्धेण सरीरभूदा मे सउन्तला। ताए वि सन्दिष्टुम्हि। (समन्तादवलोक्य) किं णु क्खु उवत्थिदक्खणे वि दिअसे णिरुसवारम्भं विअ राअउलं दीसदि। अत्थि मे विहवो पणिधाणेण सव्वं जाणिदुं। किं तु सहीए आदरो मए माणइदव्वो। भोदु। इमाणं जेव उज्जाणवालिआणं पासपरिवत्तिणी भविअ तिरक्करिणीए पच्छण्णा उवलहिस्सं। (निर्वर्तितं मया पर्यायनिवर्तनीयम् अप्सरस्तीर्थसान्निध्यम्। तद्यावदस्य राजर्षेः वृत्तान्तं प्रत्यक्षीकरिष्यामि। मेनकासम्बन्धेन शरीरभूता मे शकुन्तला। तयापि सन्दिष्ट्यास्मि। किन्तु खल्वुपस्थितक्षणेऽपि दिवसे निरुत्सवारम्भमिव राजकुलं दृश्यते। अस्ति मे विभवः प्रणिधानेन सर्वं ज्ञातुम्। किं तु सख्याः आदरः मया मानयितव्यः। भवतु। आसाAction/मेव उद्यानपालिकानां पार्श्वपरिवर्तिनी भूत्वा तिरस्करिण्या प्रच्छन्ना उपलप्स्ये।)

(इति नाट्येनावतीर्य स्थिता)


भट्टार, इतोऽर्द्धं युष्माकमपि सूरामूल्यं भवतु। निःसादरादाह। धीवर-महत्तर साम्प्रतं प्रियवयस्यो मम संवृत्तोऽसि, कादम्बरीसन्धिकायां खलु प्रथममस्माकं सौहित्यमिष्यते।। सानुः स्त्रीमहतो जनं। सौहित्यं तर्पणं तृप्तिरिति चामरः। कादम्बरी स्वस्ति रे मदि[रा] भेदौ। “प्रथमशोभिते अस्माकमीप्सिते” इत्यन्यो विवृणोति। तच्छौण्डिकागारमेव गच्छामः।।

मिश्रकेशी अप्सरभेदः। निर्वर्तितः मया पर्यायनिवर्तनीयम् अप्सरस्तीर्थसान्निध्यं, तत्तावदेतस्य राजर्षेर्वृत्तान्तं प्रत्यक्षीकरिष्ये। मेनकासम्बन्धेन शरीरभूता मे शकुन्तला। तयापि सन्दिष्ट्यास्मि नृपचरितज्ञानार्थमित्यर्थः। किं नु खलूपस्थितक्षणेऽपि दिवसे निरुत्सवारम्भमिव राजकुलं दृश्यते क्षणतत्परः। अस्ति मे विभवः प्रणिधानेन ज्ञातुं, किन्तु सख्या आदरो मया मानयितव्यः। प्रत्यक्षतो ज्ञानमेव तयोक्तमिति भावः। भवत्वासामेवोद्यानपालिकानां पार्श्व(श्वं)परिवर्तनी भूत्वा तिरस्करिण्या प्रच्छन्ना उपलप्स्ये। तिरस्करिणी प्रच्छादिका विद्या।। अये उपस्थितो मधुमासः।।

अभिज्ञानशकुन्तलम् षष्ठोऽङ्कः 197

(ततःप्रविशति चूताङ्कुरमवलोकयन्ती चेटी तस्याश्च पृष्ठतोऽपरा)

प्रथमा-
आअम्बहरिअवेण्टं ऊससिअं विअ वसन्तमासस्स।
दिट्ठं चूअङ्कुरअं छणमङ्गलअं णिअच्छामि॥6-2॥
(आताम्रहरितवृन्तम् उच्छ्वसितमिव वसन्तमासस्य।
दृष्टं चूताङ्कुरं क्षणमङ्गलं पश्यामि॥)॥6-2॥

द्वितीया-परहुदिए। किं एदं एक्काइणी मन्तेसि। (परभृतिके, किमेतत् एकाकिनी मन्त्रयसे)

प्रथमा-सहि महुरिए। चूदलदिअं पेक्खिअ उम्मत्तिआ खु परहुदिआ भोदि। (सखि मधुरिके, चूतलतिकाम् प्रेक्ष्य उन्मत्ता खलु परभृतिका भवति।)

द्वितीया-(सहर्षम्) कथं उवत्थिदो महुमासो। (कथमुपस्थितः मधुमासः।)

प्रथमा-महुरिए, तुहावि दाणिं एस कालो मदविब्भमुग्गीदाणं। (मधुरिके, तवापि इदानीमेषः कालः मदविभ्रमोद्गीतानाम्।)

द्वितीया-सहि, अवलम्बसु मं जाव अग्गपदे परिट्ठिदा भविअ इमिणा पसवेण सम्पादेमि कामदेवस्स वाअणं। (सखि, अवलम्बस्व मां यावदग्रपदोपरि स्थिता भूत्वा अनेन प्रसवेन सम्पादयामि कामदेवस्य वाचनम्।)

प्रथमा-जइ एवं ता ममावि अद्धं वाअणफलस्स। (यद्येवं तत् ममाप्यर्धं वाचनफलस्य।)

द्वितीया-सहि, अभणिदे वि एवं संपज्जदि ज्जेव जदो एक्कं जेव णो एदं सरीरं। (सख्याम् अवलम्बनं कृत्वा नाटयेन चूतप्रसवं गृहीत्वा) अम्महे। अप्पबुद्धो वि चूदप्पसवो बन्धणभङ्गसुरही एस वाअदि। (कपोतहस्तं कृत्वा) णमो भवदो मअरद्धअस्स। (सखि, अभणितेऽप्येवं संपद्यते एव यतः एकमेव नौ एतत् शरीरम्। अम्महे। अप्रबुद्धोऽपि चूतप्रसवः बन्धनभङ्गसुरभिः एषः वाति। नमः भगवते मकरध्वजाय।)


आता०॥ (6-2) आताम्रहरितवृन्तं उच्छ्वसितमिव वसन्तमासस्य दृष्टश्चूताङ्कुरः क्षणमङ्गलं पश्यामि। जीवोच्छ्वसितमिति केचित्। तदा जीवः प्राणास्तेषाम् उच्छ्वसित उद्यमः चूताङ्कुरो दृष्टस्ततोऽस्य मङ्गलमपि भविष्यतीति भावः। नियच्छामीति दृशैः पुनरागच्छामि। अच्छा इति प्राकृतसूत्रात्, दृश-धातोर्निअच्छादेशः।

शङ्करस्तु वाह्नो(?) क्षणमङ्गलं नियच्छामीति पठित्वा, नियच्छामि ददामी(नी)त्याह। तद्विचार्थ्यम्॥ परभृतिके, किमिदमेकाकिनी मन्त्रयसे। सखि मधुरिके, चूतकलिकां चूताङ्कुरं वा प्रेक्ष्य उन्मत्तिका खलु परभृतिका भवति। कथमुपस्थितो मधुमासः॥

मधुरिके, तवाप्येष कालो मदविभ्रमोद्गीतानाम्। सखि, अवलम्बस्व मां यावदर्थपदोपरि स्थिता भूत्वा एतेन प्रसवेन सम्पादयामि। कामदेवस्य वाचनं, नैवेद्यम् अर्चनम् इत्यन्यः। यद्येवं

198 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

अरिहसि मे चूअङ्कुर दिण्णो कामस्स गहिअचावस्स।
सच्चविअजुअइलक्खो पञ्चब्भहिओ सरो होउं।।६-३।।
(अर्हसि मे चूताङ्कुरदत्तः कामस्य गृहीतचापस्य।
सत्याकृतयुवतिलक्षः पञ्चाभ्यधिकः शरः भवितुम्)॥६-३॥
(इति चूताङ्कुरं क्षिपति)
प्रविश्य कञ्चुकी-(सक्रोधम्) मा तावदनात्मज्ञे, देवेनैवं निषिद्धेऽपि मधूत्सवे चूतकलिका-भङ्गमारेभे।
उभे- (भीते) पसीददु पसीददु अज्जो। अगदित्थाओ अम्हे। (प्रसीदतु प्रसीदतु आर्यः। अगृहीतार्थे आवाम्।)
कञ्चुकी-हुम्। न खलु श्रुतं भवतीभ्यां तावद्वसन्तैस्तरुभिरपि प्रमाणीकृतं देवस्य शासनं तदाश्रयिभिश्च।
तथा हि-
चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः
संनद्धं यदपि स्थितं कुरुबकं तत्कोरकावस्थया।
कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतं
शङ्के संहरति स्मरोऽपि चकितस्तूणीर्धकृष्टं शरम्॥६-४॥


तन्मयापि वाचनफलस्य। सखि, अभणितमपीदं सम्पद्यत इति यत एकमेवेदम् आवयोः शरीरं द्विधा विभक्तं प्रजापतिना। अम्महे विस्मये।
यः प्रबुद्धोऽपि चूतप्रसवो बन्धनभङ्गे सुरभिरेष वाति सुगन्धीभवति। कपो[तो] हस्त(स्त)भेदः। तदुक्तम् भरतेन सर्व्वपाश्र्वसमाश्लेषात् कपोतः सर्व्वशीर्षकः। भीतो विज्ञानो भव विनये च प्रयुज्यते इति।। नमो भगवते मकरध्वजाय।
अरिह०।।(6-3)।।
अर्हसि मे चूताङ्कुरदत्तः कामस्य गृहीतचापस्य।
सत्याकृत युवतिलक्षः पञ्चाधिकः शरो भवितुम्।।
हे चूताङ्कुर! मया दत्तः त्वमर्थात् कामस्य षष्ठः शरो भवितुमर्हसि, सत्याकृतं निश्चितं युवतिरेव लक्षं(क्ष्यं) येन। संस्थापित युवतिरिति शाङ्करः पाठः। “आसीनपाठ्य” नामिकं लास्यमिदम्। यदाह भरतः।
द्रुतकरचरणविलासाभिनयैर्युक्तं प्रयुज्यते यच्च। आसीनया वनितया भवति तदासीनपाठ्यं त्विति।। देवेन राज्ञा। प्रसीदतु प्रसीदत्वार्य्यः। अगृहीतार्थे आवाम्, हूं क्रोधे।
चूता०।।(6-4)।। सन्नद्धं पुष्पितमुद्यतं तदपि कलिकावस्थया स्थितं, न विकासितमित्यर्थः। कुरबकं सोनाम्लानपुष्पं, अपिरेवार्थे स्खलितां न बहिर्भूतामित्यर्थः। चकितो भीतः धातुसन्धिचूर्णनेऽयम्। नास्त्यत्र सन्देहः। महाप्रभावः खल्वेष राजर्षिः।

अभिज्ञानशकुन्तलम् षष्ठोऽङ्कः 199

मिश्रकेशी—णत्थि एत्थ संदेहो। महप्पहावो क्खु एसो राएसी। (नास्त्यत्र सन्देहः। महाप्रभावः खल्वेषः राजर्षिः।)

प्रथमा—अज्ज, कदि चि दिअसा मित्तावसुणा रट्टिएण भट्टिणो पादमूलं पेसिदाणं अम्हाणं इध पमदवणे चित्तकम्मं अप्पिदं। अदो ण सुदपुव्वो अम्हेहिं एसो वृत्तन्तो। (आर्य, कतिचिद्दिवसाः मित्रावसुना राष्ट्रियेण भर्तुः पादमूलं प्रेषितयोः आवयोः इह प्रमदवने चित्रकर्म अर्पयितुम्। अतः न श्रुतपूर्वः आवाभ्यामेषः वृत्तान्तः।)

कञ्चुकी—तेन हि न पुनरेवं प्रवर्तितव्यम्।

उभे—कोदूहलं णो। जइ इमिणा जणेण सोदव्वं ता कहेदु अज्जो किं णिमित्तं भट्टिणा वसन्तूसवो णिसिद्धो। (कौतूहलं नौ। यद्यनेन जनेन श्रोतव्यं तत्कथयत्वार्यः किंनिमित्तं भर्त्रा वसन्तोत्सवः निषिद्धः।)

मिश्रकेशी—ऊसवप्पिआ राआणो होन्ति। ता गुरुणा कारणेण एत्थ होदव्वं। (उत्सवप्रिया राजानः भवन्ति। तत् गुरुणा कारणेन अत्र भवितव्यम्।)

कञ्चुकी—(स्वगतम्) बहुलीभूतोऽयमर्थः किं न कथ्यते। (प्रकाशम्) अस्ति भवत्योः कर्णपथमागतं शकुन्तलाप्रत्यादेशकौलीनम्।

उभे—अज्ज, सुदं रट्टिअमुहादो अङ्गुलीअअदंसणं जाव। (आर्य, श्रुतं राष्ट्रियमुखाद् अङ्गुरीयकदर्शनं यावत्।)

कञ्चुकी—तेन हि स्वल्पं कथयितव्यम्। यदैवाङ्गुरीयकदर्शनादनुस्मृतं देवेन सत्यमूढपूर्वा रहसि मया तत्रभवती शकुन्तला मोहात्प्रत्यादिष्टेति तदैव पश्चात्तापमनुगतो देवः।

रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते
शय्योपान्तविवर्तनैर्गमयत्युन्निद्र एव क्षपाः।
दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा
गोत्रेषु स्खलितस्तदा च भवति व्रीडाविलक्षश्चिरम्॥६–५॥


आर्य कतिचिद्दिवसान्(नि)? .......... मित्रावसुना राष्ट्रियेण भर्तुः पादमूलं प्रेषितयोरावयोरिह प्रमदवने चित्रकर्म अर्पयितुम्। राजश्यालस्तु राष्ट्रिय इत्यमरः। स(श)ङ्करस्तु कतिचिद्दिवसान् प्रेषिताभ्याम् आवाभ्यामिह वने चित्रकर्म्मसम्पादयितुमिति पठति। अतो न श्रुतपूर्व एष वृत्तान्त आवाभ्याम्।। आर्य्य, कौतूहलमावयोरद्य तेन जनेन न श्रोतव्यं यद्यावयोः श्रोतुमर्हतीत्यर्थः। तत् कथयत्वार्य्यः, किं निमित्तं भर्त्रा वसन्तोत्सवो निषिद्धः। ननूत्सवप्रिया राजानो भवन्ति। तद्गुरुणां(णा) कारणेनात्र भवितव्यम्। बहुलीकृतं प्रसिद्धं शकुन्तलानिराकरणरूपं कौलीनं परीवादः। श्रुतं राष्ट्रियमुखादङ्गुरीयदर्शनं यावत्। मोहादज्ञानात्।

रम्यं०।। (6-5) पद्मादिदर्शने दुःखलोभात् यथा पुरा सेवित इत्यर्थः। प्रकृतिभिः सचिवैः। दक्षिणे नायकभेदः, तद्भावो दाक्षिण्यम्। तदुक्तम्–यो गौरवं भयं प्रेम सम्भाव–पूर्व्वयोरिति। न

200 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

मिश्रकेशी—पिअं मे पिअं। (प्रियं मे प्रियम्।)
कञ्चुकी—अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः।
उभे—जुज्जदि। (युज्यते।)
(नेपथ्ये) एदु एदु भवं। (एत्वेतु भवान्।)
कञ्चुकी—(कर्णं दत्त्वा) अये। इत एवाभिवर्तते देवः। तद्गच्छतम्। स्वकर्मानुष्ठीयताम्।
(इत्युभे निष्क्रान्ते)
(ततः प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः प्रतीहारी च।)
कञ्चुकी—(राजानं विलोक्य) अहो, सर्वास्ववस्थासु रमणीयकमाकृतिविशेषाणाम्। तथा ह्येवं वैमनस्यपरीतोऽपि प्रियदर्शनो देवः। य एषः—

प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठे श्लथं
बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः।
चिन्ताजागरणप्रताम्रनयनस्तेजोगुणैरात्मन :
संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ॥६-६॥

मिश्रकेशी—(राजानमवलोक्य) ठाणे क्खु पच्चादेसविमाणिदा वि इमस्स कारणादो सउन्तला किलम्मदि। (स्थाने खलु प्रत्यादेशविमानिताप्यस्य कारणात् शकुन्तला क्लाम्यति।
राजा—(ध्यानमन्दं परिक्रम्य)

प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम्।
अनुशयदुःखायेदं हतहृदयं संप्रति विबुद्धम्॥६-७॥

मिश्रकेशी—ईदिसाइं से तवस्सिणीए भाअधेआइं। (ईदृशान्यस्याः तपस्विन्याः भागधेयानि।)
विदूषकः—(स्वगतम्) भूओ वि लङ्घिदो एसो सउन्तलावादेण। ण आणे कधं चिकित्छिदव्वो भविस्सदित्ति। (भूयोऽपि लङ्घितः एषः शकुन्तलावातेन। न जाने कथं चिकित्सितव्यः भविष्यतीति।)


मुद्गत्यस्य चित्तोऽपि स ज्ञेयो दक्षिणे यथेति ।। अन्तःपुरेभ्योऽन्तःपुरस्त्रीभ्यः गोत्रेषु नामसु व्रीडेति लज्जानिष्क्रियः। प्रियं मे प्रियं प्रभवतो जायमानात्। युज्यते। एतु एतु भवान्।

प्रत्या०।। (6-6) श्लथं कार्श्यम्। एकमद्वितीयं प्रशस्तं वा। श्वासेति। श्वासविरक्ताधरः प्रतान्तं क्षीणं प्रताम्रेति शङ्करः। संस्कारार्थं टङ्केन घृष्टः मणेरिव स्थानम्। खलु प्रत्यादेशविमानितापि एतस्मात् कारणाच्छकुन्तला का(क्ला)म्यति।।

प्रथ०।। (6-7) अवशयः पश्चात्तापः। सदृशानि तस्यास्तपस्विन्या भागधेयानि। हूं क्रोधे। भूयोऽपि लङ्घित एष शकुन्तलावातेन। न जाने कथं चिकित्सितव्यः प्रतिकर्तव्यो भविष्यति। अन्तःपुरोद्यानं प्रमदवनं, विनोदो विहारः। वेत्रवतीति प्रतिहारीनाम। अमात्ये ख्यातो। यदैव आज्ञापयति। पार्ववतायन्ने(ने)ति कञ्चुकीसंज्ञा।