भारतकोश
अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

पृष्ठ 200, कुल 262 में से

संदर्भ में पढ़ें
पृष्ठ 200

186 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

राजा- इदं तत्प्रत्युत्पन्नमतित्वं स्त्रीणाम्।

शकुन्तला- एत्थ दाव विहिणा दंसिदं पहुत्तणं। अवरं दे कधइस्सं। (अत्र तावद्विधिना दर्शितं प्रभुत्वम्। अपरं ते कथयिष्यामि।)

राजा- श्रोतव्यमिदानीं संवृत्तम्।

शकुन्तला- णं एक्कदिअसं वेतसलदामण्डवे णलिणीवत्तभाअणगदं उदअं तुह हत्थे संणिहिदं आसि। (नन्वेकदिवसं वेतसलतामण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते सन्निहितम् आसीत्।)

राजा- शृणुमस्तावत्।

शकुन्तला- तक्खणं सो मम पुत्तकिदओ मिअसावओ उवत्थिदो। तदो तए अअं दाव पढमं पिवदु त्ति अणुकम्पिणा उवच्छन्दिदो। ण उण दे अवरिचिदस्स हत्थादो उदअं उवगदो पादूं। पच्छा तस्सिं जेव उदए मए गहिदे किदो तेण पणओ। एत्थन्तरे विहसिअ भणिदं तए। सच्चं सव्वो सगन्धे वीससदि जदो दुवे वि तुम्हे आरण्णकाओ त्ति। (तत्क्षणं सः मम पुत्रकृतकः मृगशावकः उपस्थितः। ततः त्वया अयं तावत् प्रथमं पिबतु इति अनुकम्पिना उपच्छन्दितः। न पुनः ते अपरिचितस्य हस्ताद् उदकमुपगतः पातुम्। पश्चात् तस्मिन्नेव उदके मया गृहीते कृतः तेन प्रणयः। अत्रान्तरे विहस्य भणितं त्वया-सत्यं, सर्वः सगन्धे विश्वसिति, यतः द्वावपि युवामारण्यकौ इति।)

राजा- आभिस्ताभिरात्मकार्यनिर्वर्त्तिनीभिर्मधुराभिरनृतवाग्भिराकृष्यन्ते विषयिणः।

गौतमी- महाराअ, णारिहसि एवं मन्तिदुं। तवोवणसंवड्ढिदो क्खु अअं जणो अणहिण्णो केदवस्स।

(महाराज, नार्हसि एवं मन्त्रयितुम्। तपोवनसंवर्धितः खल्वयं जनः अनभिज्ञः कैतवस्य।)


जाते, न खलु शक्रावतारे शचीतीर्थोदकं वन्दमानायाः प्रभ्रष्टमङ्गुरीयकम्। नः काकौ। अत्र तावद्विधिना दर्शितं प्रभुत्वम्। अपरं कथयिष्यामि।

नन्वेकदिवसे वेतसलतामण्डपे नलिनीपत्रभाजनगतम् उदकं तव हस्ते सन्नि[हि]तमासीत्। तत् क्षणं स मम कृतकपुत्रो मृगशावक उपस्थितः, ततस्त्वया" ऽयन्तावत् प्रथमं पिबत्वि"ति अनुकम्पिना उपच्छन्दितः प्रलोभितः। [न] पुनस्तेऽपचि(रिचि)तस्य हस्तादुदकमुपगतः पातुं। पश्चात् तस्मिन्नेवोदके मया गृहीते कृतस्तेन प्रणयो विश्वासः।

अत्रान्तरे विहस्य त्वया भणितं “सत्यं, कु(स)र्व्वः सगन्धे सदृशे सन्निहिते वाश्वसिते”। गन्धो लेशे तथामोदे गन्धः सम्बन्धमात्रक इति कोषः। यतो द्वावपि युवामारण्यकाविति। महाभाग, नार्हसि एवं मन्त्रयितुं तपोवनसम्वर्द्धितः खल्वयं जनः अनभिज्ञः कैतवस्य।।

स्त्रीणां०।। (5-23) अमानुषीणां ज्ञानशून्यानामर्थात् प्राक् पूर्व्वं जातं समूहं पक्षिभिः

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित) · पृष्ठ 200, कुल 262 में से · BharatKosha