अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 201, कुल 262 में से
संदर्भ में पढ़ेंअभिज्ञानशकुन्तलम् पञ्चमोऽङ्कः 187
राजा—तापसवृद्धे,
स्त्रीणामशिक्षितपटुत्वममानुषीषु
संदृश्यते किमुत याः प्रतिबोधवत्यः।
प्रागन्तरिक्षगमनात्स्वमपत्यजातम् ,
अन्यद्विजैः परभृताः किल पोषयन्ति॥५–२३॥
शकुन्तला—(सरोषम्) अणज्ज, अत्तणो हिअआणुमाणेण किल सव्वं एदं पेक्खसि। को णाम अण्णो धम्मकञ्चअववदेसिणो तणच्छण्णकूवोवमस्स तुह अणुकारी भविस्सदि। (अनार्य, आत्मनः हृदयानुमानेन किल सर्वमेतत्प्रेक्षसे। कः नामान्यः धर्मकञ्चुकव्यपदेशिनः तृणच्छन्नकूपोपमस्य तवानुकारी भविष्यति।)
राजा—(स्वगतम्) वनवासादविभ्रमः पुनरत्रभवत्याः कोपो लक्ष्यते। तथा हि—
न तिर्यगवलोकितं भवति चक्षुरालोहितं
वचोऽपि परुषाक्षरं न च पदेषु संसज्जते।
हिमार्त इव वेपते सकल एष बिम्बाधरः
स्वभावविनते भ्रुवौ युगपदेव भेदं गते॥५–२४॥
अथवा सन्दिग्धबुद्धिं मामधिगत्यकैतवच्छायया कोपोऽस्याः। तथा ह्यनया—
मय्येव विस्मरणदारुणचित्तवृत्तौ वृत्तं रहः प्रणयमप्रतिपद्यमाने।
भेदाद्भ्रुवोः कुटिलयोरतिलोहिताक्ष्या भग्नं शरासनमिवातिरुषा स्मरस्य॥५–२५॥
(प्रकाशम्) भद्रे, प्रथितं दुःषन्तचरितं प्रजासु। नापीदं दृश्यते।
[ शकुन्तला—
तुह्मे ज्जेव पमाणं जाणध धम्मत्थिदिञ्च लोअस्स।
लज्जाविणिज्जिदाओ जाणन्ति ण किम्पि महिलाओ॥५–२६॥
अर्थान्तरन्यासः। प्रतिवस्तूपमेत्यन्यः। अनार्य्य, आत्मनो हृदयानुमानेन सर्वमेतत् प्रेक्षसे। को नामा नान्यो धर्मकञ्चुकव्यपदेशिनः धर्मानुरुद्धात्मकत्व-प्रकाशिनः। "पावसिनो" इति प्रायः पाठः। तृणच्छन्नकृ(कू)पोपमस्य तवानुकारी भविष्यति। अविद्दु(भ्र)मो विलासशून्यः।। न ति०।। (5-24) तिर्य्यक् कुटिलं न भवतीत्यन्वयः आलोहितमत्यन्तारुणं तव्यास्रवास स्यात् पदेषु सुप्तिङ् रूपेषु संसज्यते स्खलति, न संशय्यते सन्दिग्धं न भवति। ततो गद्गदस्वरादि प्रायो वैदग्धे भवतीति शङ्करः। प्रकाशमप्यर्थं कामिनीभावविलासम् अभिनेतुं तिर्य्यग्वीक्ष्यते ईषदरुणलोचना च स्यात् अपराद्धं सकम्पं करोति ईषदामतां भ्रुवमेकां विभिन्नां करोति इयन्तु न तथेति भावः। मय्येवेति।। (5-25) सुगमम्।। तुस्थे(हो)०।। (5-26)। यूयमेव प्रमाणं जानीथ धर्मस्थितिञ्च लोकस्य, लज्जाविनिर्ज्जिता जानन्ति न किमपि महिलाः। गाथेयं, पुराणपुस्तके न दृश्यते, नातिचारुः।
सुष्ठु इदानीं स्वच्छन्दचारिणी समुपाश्रिता। अर्थादनेन या एतस्य पुरुवंशप्रत्यायनमुखमधुना