भारतकोश
अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

पृष्ठ 199, कुल 262 में से

संदर्भ में पढ़ें
पृष्ठ 199

अभिज्ञानशकुन्तलम् पञ्चमोऽङ्कः 185

शारद्वतः-शार्ङ्गरव, विरम त्वमिदानीम्। शकुन्तले, वक्तव्यमुक्तमस्माभिः। सोऽयमत्रभवान् एवमाह। दीयतामस्मै प्रतिवचनम्।

शकुन्तला-(स्वगतम्) इमं अवत्थन्तरं गदे तादिसे अणुराए किं वा सुमराविदेण। अधवा अप्पा दाणिं मे सोधणीओ। भोदु। ववसिस्सं। (प्रकाशम्) अज्जउत्त ......। (इत्यर्धोक्ते) अधवा संसइदो दाणिं एसो समुदाआरो। पोरव, जुत्तं णाम तुह पुरा अस्समपदे सब्भावुत्ताणहिअअं इमं जणं तथा समअपुव्वं सम्भाविअ सम्पदं ईदिसेहिं अक्खरेहिं पच्चाचक्खिदुं। (इदं अवस्थान्तरं गते तादृशे अनुरागे किं वा स्मारितेन। अथवा आत्मेदानीं मे शोधनीयः। भवतु। व्यवसिष्यामि। आर्यपुत्र ......, अथवा संशयितः इदानीमेषः समुदाचारः। पौरव, युक्तं नाम तव पुराश्रमपदे सद्भावोत्तानहृदयमिमं जनं तथा समयपूर्वं सम्भाव्य साम्प्रतमीदृशैः अक्षरैः प्रत्याख्यातुम्।)

राजा-(कर्णौ पिधाय) शान्तं शान्तम्।
व्यपदेशमाविलयितुं समीहसे मां च नाम पातयितुम्।
कूलङ्कषेव सिन्धुः प्रसन्नमोघं तटतरुं च॥५-२२॥

शकुन्तला-भोदु, परमत्थदो जइ परपरिग्गहसङ्किणा तए एदं पउत्तं ता अहिण्णाणेण केणावि तुह सन्देहं अवणइस्सं। (भवतु, परमार्थतः यदि परपरिग्रहशङ्किना त्वया इदं प्रयुक्तं, तद् अभिज्ञानेन केनापि तव सन्देहम्पनेष्यामि।)

राजा-प्रथमः कल्पः।

शकुन्तला-(मुद्रास्थानं परामृश्य) हद्धी हद्धी। अङ्गुलीअअसुण्णा मे अङ्गुली। (हा धिक् हा धिक्। अङ्गुरीयकशून्या मे अङ्गुली।)

(इति सविषादं गौतमीमीक्षते)

गौतमी-जाद, णं दे सक्कावदारे सचीतित्थे उदअं वन्दमाणाए पब्भट्ठं अङ्गुलीअअं। (जात, ननु ते शक्रावतारे शचीतीर्थे उदकं वन्दमानायाः प्रभ्रष्टमङ्गुरीयकम्।)


शङ्करस्तु शोचनीय इति पठित्वा, सदसि तादृशं रहस्यप्रकाशनात् त्रपया शोचनीया भविष्यसीति भावः इत्याह। भवतु व्यवस्यामि रहस्यं वक्तुमिति शेषः। वदिष्यामीति शाङ्करः पाठः।

आर्यपुत्र, प्रथमं संशयित, इदानीमेष समुदाचारः। कलत्रभावस्य सन्दिग्धत्वादित्यर्थः। पौरव, युक्तं नाम तव पुरा आश्रमपदे सद्भावोत्तान हृदयमिमं जनं तथा समयपूर्वं सम्भाव्य सांप्रतमीदृशैरक्षरैः प्रत्याख्यातुम्। वारणे शान्तमव्ययमिति कोषः। ईदृश व्याहारो निवार्य्यतामित्यर्थः।

व्यप०।।(5-22) व्यपदेशः कुलं नाम वा। आविलयितुम् दूषयितुम्, कूत(ल)ङ्कषा तटवारणी सिन्धुर्नदी, ओघं प्रवाहम्। भवतु, परमार्थतो यदि परपरिग्रहशङ्किना त्वया इदं प्रयुक्तम्, तदभिज्ञानं केनापि तव सन्देहम्पनेष्यामि। कल्पः पक्षः, प्रकारो वा। मुद्राङ्गुरीयकम्। हा धिक् अङ्गुरीयशून्यं मेऽङ्गुलम्।