अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 196, कुल 262 में से
संदर्भ में पढ़ें| 182 | चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम् |
|---|
राजा- (आत्मगतम्) सर्वथार्थवान्खलु मे राजशब्दः। (प्रकाशम्) अथ भगवान्कुशली कण्वः।
शार्ङ्गरवः- राजन्, स्वाधीनकुशलाः खलु सिद्धिमन्तः। स भवन्तमनामयप्रश्नपूर्वकम् इदमाह।
राजा- किमाज्ञापयति।
शार्ङ्गरवः- यन्मिथः समवायादिमां मदीयां दुहितरं भवानुपयेमे तन्मया प्रीतिमत्ता युवयोरनुज्ञातम्। कुतः-
त्वमर्हतां प्राग्रह्रः स्मृतोऽसि नः
शकुन्तला मूर्तिमतीव सत्क्रिया।
समानयंस्तुल्यगुणं वधूवरं
चिरस्य वाच्यं न गतः प्रजापतिः॥ ५-१६॥
तदिदानीमापन्नसत्त्वेयं गृह्यतां सहधर्मचरणायेति।
गौतमी- भद्दमुह, वत्तुकाम म्हि। ण मे वअणावकासो त्थि कधिदु ति। (भद्रमुख, वक्तुकामास्मि। न मे वचनावकाशोऽस्ति कथयितुमिति।)
राजा- आर्ये, कथ्यताम्।
गौतमी-
णावेक्खिओ गुरुअणो इमीअ ण तुमे वि पुच्छिआ बन्धू।
एक्कक्कमेण वरिए किं भण्णउ एक्कमेक्कस्स॥ ५-१७॥
(नापेक्षितः गुरुजनः अनया न त्वया अपि पृष्टाः बन्धवः।
एकक्रमेण वृते किं भण्यताम् एकम् एकस्य)॥ ५-१७॥
त्वमर्ह० ॥ (5-16) अर्हतां मान्यानां मध्ये त्वं प्राग्रह्रः श्रेष्ठः। नोऽस्माकं स्मृतोऽसि। समानयन् एकीकुर्व्वन् संयोजयन्नित्यर्थः। वधूवरमिति द्वन्द्वे विभाषयैकवद्भावः। वाच्यं वाच्यतां चिरस्येत्यव्ययम्।। सहेति पत्न्या सहधर्माचरणमेव वैदिकम्। यदाह-यत् कर्तव्यं तदनया सहेति। भद्रमुख वक्तुकामास्मि, न च मे वचनावकाशोऽस्ति कथयितुमिति।
नापे⁷²० ॥ (5-17) नापेक्षितो गुरुजनोऽनया त्वयापि न पृष्टो बन्धुः। अन्योऽन्येन वृत्ते किं भणित्वाऽन्योन्यस्य⁷³ ।। एक्कक्कमेणेति अन्योन्यम् इत्यर्थे “एक ककस्ये” त्यप्यन्योऽन्यार्थे।। शङ्करस्तु एकैकस्य चरिते किं भणतु। एकैकस्मिन्निति पठित्वा एकैकस्य एक एकस्मिन् चरिते। अन्योन्यस्य चरिते द्वयोः परस्परविषयकप्रणयकरणे एकोऽस्मद्रूपो जनः किं भणतु। अपि तु वचनावसर एव नास्तीत्याह।।
- नावो इति 4118 इत्यत्र पठ्यते।
- शङ्करेण “एकैकस्य चरिते किं भणतु एक एकस्मिन्” इति पठितम्।