भारतकोश
अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

पृष्ठ 197, कुल 262 में से

संदर्भ में पढ़ें
पृष्ठ 197

अभिज्ञानशकुन्तलम्    पञ्चमोऽङ्कः    183

शकुन्तला-किं णु क्खु अज्जउत्तो भणिस्सदि। (किं नु खलु आर्यपुत्रः भणिष्यति।)
राजा-(साशङ्कमाकुलमाकर्ण्य) अये, किमिदमुपन्यस्तम्।
शकुन्तला-(स्वगतम्) हुं सावलेवो से वअणावक्खेवो। (हं, सावलेपः अस्य वचनावक्षेपः।)
शार्ङ्गरवः-किं नाम किमिदमुपन्यस्तमिति। ननु भवानेव सुतरां लोकवृत्तान्तनिष्णातः।

सतीमपि ज्ञातिकुलैकसंश्रयां
जनोऽन्यथा भर्तृमतीं विशङ्कते।
अतः समीपे परिणेतुरिष्यते
प्रियाप्रिया वा प्रमदा स्वबन्धुभिः॥५–१८॥

राजा-किमत्रभवती मया परिणीतपूर्वा।
शकुन्तला-(आत्मगतम् सविषादम्) हिअअ, संवुत्ता दे आसङ्का। (हृदय, संवृत्ता ते आशङ्का।)
शार्ङ्गरवः-राजन्, किं कृतकार्यद्वेषाद्धर्मं प्रति विमुखतोचिता राज्ञः।
राजा-कुतोऽयम् असत्कल्पनाप्रसङ्गः।
शार्ङ्गरवः-(सक्रोधम्) मूर्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तानाम्॥५–१९॥
राजा-विशेषेणाधिक्षिप्तोऽस्मि।
गौतमी-(शकुन्तलां प्रति) जाद, मा लज्ज। अवणइस्सं दाव दे अवगुण्ठणं। तदो भट्टा तुमं अहिजाणिस्सदि।)
(जात, मा लज्जस्व, अपनेष्यामि तावत्तेऽवगुण्ठनम्। ततः भर्ता त्वाम् अभिज्ञास्यति।)
(इति तथा करोति)


किं नु खल्वार्यपुत्रो भणिष्यति। हूं रोषसूचने। सावले[ति] सावलोपोऽस्य वचनावक्षेपः। किन्नामेति अन्न(र्थ)विशेषणं नाम नाट्यालङ्कारः।। तदुक्तम्–

उक्तस्यार्थस्य यत्तु स्यादुत्कीर्तनम् अनेकधा।
उपालम्भस्वरूपेण तत् स्यादर्थविशेषणम्।।

इति, निष्णातोऽभिज्ञः।। सती०।। (5–18) अन्यथा व्यभिचारिणीम्। परिणेतुर्वल्लभस्य। अत्रभवती श्लाघ्या। हृदय, संवृत्ता ते आशङ्का⁷⁴।
(5–19)।। मूर्च्छन्त्वमी विकाराः कृतानङ्गीकाररूपाः।। जाते, मा लज्जस्व, अपनेष्यामि तावत्तेऽवगुण्ठनम्। ततो भर्ता त्वामभिज्ञास्यति।।


  1. प्रकाशितमैथिलपुस्तके खल्वाशङ्का इति पठ्यते।