भारतकोश
अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

पृष्ठ 222, कुल 262 में से

संदर्भ में पढ़ें
पृष्ठ 222

208 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

विदूषकः—तिण्णि आइदीओ दीसन्ति। सव्वाओ ज्जेव दंसणीआओ। ता कदमा तत्थभोदी सउन्तला। (तिस्रः आकृतयः दृश्यन्ते। सर्वैव दर्शनीयाः। तत् कतमा तत्रभवती शकुन्तला।)

मिश्रकेशी—अणहिण्णो एस तवस्सी सहीए रूवस्स। मोहचक्खुणो इअं ण गदा से पच्चक्खदं। (अनभिज्ञः एषः तपस्वी सख्याः रूपस्य। मोघचक्षुषः इयं न गतास्य प्रत्यक्षताम्।)

राजा—त्वं तावकतमां तर्कयसि।

विदूषकः—(निर्वर्ण्य) तक्केमि जा एसा अवसेअसिणिद्धपल्लवं असोअलदिअं संसिदा सिढिलकेसबन्धुव्वम्मन्तकुसुमेण बद्धसेदबिन्दुणा वअणेण विसेसणमिदसाहाहिं बाहालदिआहिं ऊससिदणीविणा वसणेण ईसिपरिसन्ता विअ आलिहिदा सा तत्थभोदी सउन्तला सेसाओ सहीओ त्ति। (तर्कयामि या एषा अवसेकस्निग्धपल्लवाम् अशोकलतिकां संश्रिता शिथिलकेशबन्धोद्द्मत्कुसुमेन बद्धस्वेदबिन्दुना वदनेन विशेषनमितशाखाभ्यां बाहुलतिकाभ्याम् उच्छ्वसितनीविना वसनेन ईषत्परिश्रान्तेवालिखिता सा तत्रभवती शकुन्तला, शेषे सख्यौ इति।)

राजा—निपुणो भवान्। अस्त्यत्र ममापि भावचिह्नम्।

स्विन्नाङ्गुलीनिवेशारेखा प्रान्तेषु दृश्यते मलिना।
अश्रु च कपोलपतितं लक्ष्यमिदं वर्णकोच्छ्वासात्॥6-19॥

चतुरिके, अर्धलिखितमेतद्विनोदस्थानमस्माभिः। तद्गच्छ। वर्तिकास्तावद् आनय।

चेटी—अज्ज माधव्व। अवलम्बसु चित्तफलं जाव गच्छामि। (आर्य माधव्य, अवलम्बस्व चित्रफलकं यावत् गच्छामि।)

राजा—अहमेवैनमवलम्बे। (इति यथोक्तं करोति, चेटी निष्क्रान्ता)

विदूषकः—भो। किं एत्थ अवरं आलिहिदव्वं। (भोः किमत्रापरमालिखितव्यम्।)


भोस्तिस्र आकृतयो दृश्यन्ते। सर्वा एव दर्शनीयाः। तत्कतमा तत्रभवती शकुन्तला। अनभिज्ञ एव तपस्वी सख्या रूपस्य। मोघचक्षुषोऽस्य इयं न गता प्रत्यक्षताम्। मोघत्वं शकुन्तलारूपादर्शनात्। निर्वर्ण्य दृष्ट्वा, तर्कयामि यैषा शिथिलकेशोद्गमत्कुसुमेन बद्धस्वेदबिन्दुना वदनेन विशेष-नमितं शाखाभ्यां बाहुलतिकाभ्यां उच्छ्वसित-नीविना वसनेनावसेकस्निग्धपल्लवामशोककलतिकां संश्रिता ईषत् परिश्रान्तेवालिखिता सा तत्रभवती, शेषे सख्याविति।

स्विन्नेति०।। (6-19) प्रान्तभागे मलिना रेखा दृश्यते। अश्रु सात्त्विकम्। वर्णको हरितालादिः। उच्छ्वास उन्नत-तनुम्⁸³।। आर्य माधव्य अवलम्बस्व चित्रफलकं यावद् गच्छामि। भोः किमत्रापरमभिलिखितव्यम्। यो यः प्रियसख्या अभिमतप्रदेशस्तमालिखितुकाम इति तर्कयामि।


  1. मैथिलीयपाठे (पुस्तके) - उन्नतत्वम्।