अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 234, कुल 262 में से
संदर्भ में पढ़ें॥ सप्तमोऽङ्कः॥
(ततः प्रविशत्याकाशवर्त्मना रथारूढो राजा मातलिश्च)
राजा—मातले, अनुष्ठितनिदेशोऽपि मघवतः सत्क्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये।
मातलिः—आयुष्मन्, उभयत्राप्यसंतोषमवगच्छ। कुतः—
उपकृत्य हरेस्तथा भवाल्लँघु सत्कारमवेक्ष्य मन्यते।
गणयत्यवदानसंमितां भवतः सोऽपि न सत्क्रियामिमाम्॥7-1॥
राजा—मा मैवम्। स खलु मनोरथानामप्यतिदूरवर्ती विसर्जनावासरे सत्कारः। मम हि दिवौकसां समक्षमधार्धासनोपविष्टस्य
अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन।
प्रमृज्य वक्षो हरिचन्दनाङ्कं मन्दारमाला हरिणा पिनद्धा॥7-2॥
मातलिः—किमिव सुरेशादायुष्मान्नार्हति। पश्य—
सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुद्धृत-दानवकण्टकम्।
तव शरैरधुना नतपर्वभिः पुरुषकेसरिणश्च पुरा नखैः॥7-3॥
राजा—अत्र खलु शतक्रतोरेव महिमा। पश्य—
सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः
सम्भावनागुणमवेहि तमीश्वराणाम्।
किं प्राभविष्यदरुणस्तमसां वधाय
तं चेत्सहस्रकिरणो धुरि नाकरिष्यत्॥7-4॥
॥ अथ सप्तमाङ्क-विवरणम्॥
अयुक्तमनुपकारकम्⁸⁸। समर्थयेऽवगच्छामि। उभयत्र स्वविषये इन्द्रविषये च। उप०। (7-1) ।। तवोपकृत्य लघु मन्यते। अवदानमसाधारणं कर्म, तत्तुल्यं न गणयति।। विसर्जनं प्रस्थापनम्। अन्तर्गतति० (7-2)।। तन्माना नोथापनमित्यर्थः। हरिचन्दनेन, चन्दनभेदेन। वक्षः प्रमृज्य उपलिप्य। मयेति मस्तकस्थेनान्वयः। पारिजातमाला पिनद्धा। हरिचन्दनाङ्कमिति क्वचित्।। अथ नतेति० (7-3)।। पक्वता(?) सूचनार्थम्। पुरुषेति नृसिंहस्य।। सिध्यन्ति (7-4)।। कृतकृत्या भवन्ति। नियोज्याः सेवकाः। धुरि रथाग्रे।।
- मातृका 4117 इत्यत्र पठ्यते।