भारतकोश
अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

पृष्ठ 241, कुल 262 में से

संदर्भ में पढ़ें
पृष्ठ 241

अभिज्ञानशकुन्तलम् सप्तमोऽङ्कः 227

तापसी-(उभौ विलोक्य) अच्छरीयं अच्छरीयं। (आश्चर्यम् आश्चर्यम्।)
राजा-आर्ये, किमिव।
तापसी-इमस्स बालअस्स असंबद्धे वि भद्दुमुहे संवादिणी आकिदि त्ति विम्हिद म्हि। अवि अ वामसीलो वि भविअ अवरिचिदस्स ण दे पडिलोमो संवृत्तो।
(अस्य बालकस्य असंबद्धे अपि भद्रमुखे संवादिनी आकृतिः इति। विस्मितास्मि। अपि च वामशीलः अपि भूत्वा अपरिचितस्य न ते प्रतिलोमः संवृत्तः।)
राजा-(बालकमुल्लापयन्) आर्ये, न चेन्मुनिकुमारकोऽयं तत्कोऽस्य व्यपदेशः।
तापसी-पोरवो त्ति। (पौरवः इति)
राजा-(स्वगतम्) कथमेकान्वयोऽयमस्माकम्। अतः खलु सम्भाव्यते। (प्रकाशम्) अस्त्येतत्कुलव्रतं पौरवाणाम्।

भवनेषु सुधासितेषु पूर्वं क्षितिरक्षार्थमुशन्ति ये निवासम्।
विहितैकयतिव्रतानि पश्चात्तरुमूलानि गृहीभवन्ति तेषाम्॥7-20॥

कथं पुनरात्मगत्या मानुषाणामेष विषयः।
तापसी-जधा भद्दुमुहो भणादि। अच्छरासम्बन्धेण उण इमस्स बालअस्स जणणी देवगुरुणो तवोवणे पसूदा। (यथा भद्रमुखः भणति। अप्सरःसंबन्धेन पुनः अस्य बालकस्य जननी देवगुरोः तपोवने प्रसूता।)
राजा-(आत्मगतम्) हन्त, द्वितीयमिदमाश्वासनजनम्। (प्रकाशम्) अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी।
तापसी-को तस्स धम्मददारपरिच्चाइणो णामं कित्तइस्यदि। (को तस्य धर्मदारपरित्यागिनः नाम कीर्तयिष्यति।)
राजा-(स्वगतम्) कथमियं कथा मामेव लक्षीकरोति। यदि तावदस्य शिशोर्नामतो मातरं पृच्छेयम्। (विचिन्त्य) अथवा अनार्यः परदारव्यवहारः।


अपि च, बालश्रील्पे(शीलो)पि भूत्वापरिचितस्य न ते प्रतिलोमः संवृत्तः। अपरिचितस्य ते वचनेन प्रकृतिस्थोऽयं संवृत्त इति पाठान्तरे।
उल्लापयन् चालयन् व्यपदिश्यते परिचीयतेऽनेनेति व्यपदेशो वंशादिः। पौरव इति।
भवने०।। (7-20) ।। उशन्ति इच्छन्ति कुर्वन्तीत्यर्थः। नियतमद्वितीयं मुनिव्रतं येषु। यथा भद्रमुखी भणति। अप्सरः सम्बन्धेन पुनरस्य जननी देवगुरोस्तपोवने प्रसूता।।
हन्त हर्षे। कस्तस्य धर्मदारपरित्यागिनो नाम कीर्तयिष्यति। परिभाषणं निर्वहणाङ्गमिदम्। तदुक्तम् वदन्ति परिभाषणं परिवादकृतं वाक्यमिति।
सर्वदमन पश्य, शकुन्तलावण्यम्। अथ च शकुन्तलावर्णं रूपम्। कुत्र सा मे आर्या माता।

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित) · पृष्ठ 241, कुल 262 में से · BharatKosha