अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)
Agastya Samhita of Sage Agastya with Commentary
महर्षि अगस्त्य / पं. भवनाथ झा द्वारा
पृष्ठ 304, कुल 337 में से
संदर्भ में पढ़ेंमध्ये हस्तचतुष्काढ्यं वेदिकायुक्तमायतम् ।। A.S.26.37a-b ततः संकल्पयेद्देवं राममेव स्मरन्मुने। A.S.-26.38a-b अस्यां रामनवम्यां च रामाराधनतत्परः ।। A.S.-26.39a-b उपोष्याष्टसु यामेषु पूजयित्वा यथाविधि। A.S.-26.39c-d इमां स्वर्णमयीं रामप्रतिमां च प्रयत्नतः। A.S.-26.40a-b श्रीरामप्रीतये दास्ये रामभक्ताय धीमते। A.S.-26.40c-d प्रीतो रामो हरत्वाशु पापानि सुबहूनि मे ।। A.S.-26.41a-b अनेकजन्मसंसिद्धान्यभ्यस्तानि महान्ति च। A.S.-26.41c-d ततः स्वर्णमयीं रामप्रतिमां पलमात्रतः ।। A.S.-26.42a-b निर्मितां द्विभुजां दिव्यां वामाङ्कस्थितजानकीम्। A.S.-26.42c-d बिभ्रतीं दक्षिणकरे ज्ञानमुद्रां महामुने ।। A.S.-26.43a-b वामेनाधःकरेणाराद्देवीमालिङ्ग्य संस्थिताम्। A.S.-26.43c-d सिंहासने राजतेऽत्र पलद्वयविनिर्मिते ।।' A.S.-26.44a-b तथा- ‘अशक्तो यो महाभागः स तु वित्तानुसारतः। A.S.-27.2a-b पलेनार्धतदर्धेन तदर्धार्धेन वा मुने ।। A.S.-27.2c-d सौवर्णं राजतं वापि कारयेद्रघुनन्दम्। A.S.-28.25c-d पार्श्वे भरतशत्रुघ्नौ धृतच्छत्रकरावुभौ ।। A.S.-28.26a-b चापद्वयसमायुक्तं लक्ष्मणं चापि कारयेत्। A.S.-28.26c-d दक्षिणाङ्गे दशरथं पुत्रावेक्षणतत्परम् ।। मातुरङ्कगतं राममिन्द्रनीलसमप्रभम्। A.S.-28.27a-b पञ्चामृतस्नानपूर्वे संपूज्य विधिवत्ततः ।। कौसल्यामन्त्रस्तु- ‘रामस्य जननी चासि रामरूपमिदं जगत्। अतस्त्वां पूजयिष्यामि लोकमातर्नमोऽस्तु ते ।। नमो दशरथायेति पूजयेत् पितरं ततः ।।' अत्र दशावरणपञ्चावरणादिपूजाऽन्यत्र ज्ञेया। 'अशोककुसुमैर्युक्तमर्घ्यं दद्याद्विचक्षणः। दशाननवधार्थाय धर्मसंस्थापनाय च ।। A.S.-28.36a-b राक्षसानां विनाशाय दैत्यानां निधनाय च। A.S.-28.36c-d परित्राणाय साधूनां जातो रामः स्वयं हरिः ।। A.S.-28.37a-b