अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)
Agastya Samhita of Sage Agastya with Commentary
महर्षि अगस्त्य / पं. भवनाथ झा द्वारा
पृष्ठ 305, कुल 337 में से
संदर्भ में पढ़ें(244) अगस्त्य-संहिता गृहाणार्घ्यं मया दत्तं भ्रातृभिः सहितोऽनघ।| A.S.-28.37c-d पुष्पाञ्जलिं पुनर्दत्त्वा यामे यामे प्रपूजयेत्।। दिवैवं विधिवत्कृत्वा रात्रौ जागरणं ततः। ततः प्रातः समुत्थाय स्नानसन्ध्यादिकाः क्रियाः।। A.S.-26.51a-b समाप्य विधिवद्रामं पूजयेद्विधिवन्मुने। A.S.-26.51c-d ततो होमं प्रकुर्वीत मूलमन्त्रेण मन्त्रवित्।। A.S.-26.52a-b पूर्वोक्तपद्मकुण्डे वा स्थण्डिले वा समाहितः। A.S.-26.52c-d लौकिकाग्नौ विधानेन शतमष्टोत्तरं ततः।। A.S.-26.53a-b साज्येन पायसेनेव स्मरन् राममनन्यधीः। A.S.-26.53c-d ततो भक्त्या सुसंतोष्य आचार्यं पूजयेन्मुने।। A.S.-26.54a-b ततो रामं स्मरन् दद्यादेवं मन्त्रमुदीरयेत्। A.S.-26.55c-d “इमां स्वर्णमयीं रामप्रतिमां समलंकृताम्।। A.S.-26.56a-b चित्रवस्त्रयुगच्छन्नां रामोऽहं राघवाय ते। A.S.-26.56c-d श्रीरामप्रीतये दास्ये तुष्टो भवतु राघवः।।” A.S.-26.57a-b इति दत्त्वा विधानेन दद्याद्वै दक्षिणां भुवम्। A.S.-26.58c-d ब्रह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः।।” A.S.-26.60c-d इति।