भारतकोश
अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)

अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)

Agastya Samhita of Sage Agastya with Commentary

महर्षि अगस्त्य / पं. भवनाथ झा द्वारा

DevanagariSanskritpublished337 पृष्ठ

पृष्ठ 308, कुल 337 में से

संदर्भ में पढ़ें
पृष्ठ 308

(247)

परिशिष्ट 3 'अगस्त्य-संहिता' से उद्धृत रामनवमी-व्रत-कथा पाण्डुलिपि 'अ' में लिखित रामनवमीपूजा विधि अथ रामनवमीपूजाविधिः। सुवर्णप्रतिमां कारयित्वा मृण्मयीं वा प्रातः कृतनित्यक्रियः आचम्य पूर्व्ववत् ताम्रपात्रमादाय उदङ्मुख उत्तिष्ठन् ॐ भगवन् सूर्य्य भगवत्यो देवता यूयमत्र साक्षिण्योऽद्यादिप्रतिवत्सरं चैत्रशुक्लनवम्यां श्रीरामनवमीव्रतमहमाचरिष्यामीति निवेद्य कुशत्रय-तिल-जलान्यादाय सङ्कल्पङ्कुर्य्यात्। ॐ कुलकोटिसमुद्धरणपूर्व्वक-विष्णुलोकमहितत्त्व-कामनया अद्यादि-प्रतिवत्सरं चैत्रशुक्लनवम्यां भगवन्तं ससीतलक्ष्मणराममहं पूजयिष्ये। ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्टं यज्ञꣳसमिमं दधातु। विश्वेदेवास इह मादयन्तामों प्रतिष्ठ। । ३ॐ ससीतरामलक्ष्मण इह सुप्रतिष्ठितो भव। इति प्राणप्रतिष्ठां कुर्यात्। ततो दूर्वादलश्यामं पद्मपत्राक्षं पीतवाससम् द्विभुजं धनुर्द्धरं कवचिनं ध्यात्वा रां रामाय नम इति स्नपनं ॐ भूर्भुवःस्वर्भगवन् राम इहागच्छ इह तिष्ठेत्यावाह्य स्नापयित्वा ॐ सीतापते नमस्तुभ्यं रावणस्यान्तकारक। गृहाणार्घ्यं मया दत्तं कौशल्यानन्दवर्द्धन।। एषोर्घ्यः रां रामाय नमः। इदमनुलेपनं ३। एते तिलाः। एते यवाः रां रामाय नमः। पुष्पाण्यादाय सीतापते नमस्तुभ्यं रावणस्यान्तकारक। गृहाण कुसुमं देव कौशल्यानन्दवर्द्धन।। एतानि पुष्पाणि रां रामाय नमः।