भारतकोश
अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)

अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)

Agastya Samhita of Sage Agastya with Commentary

महर्षि अगस्त्य / पं. भवनाथ झा द्वारा

DevanagariSanskritpublished337 पृष्ठ

पृष्ठ 309, कुल 337 में से

संदर्भ में पढ़ें
पृष्ठ 309

(248) अगस्त्य-संहिता इमे यज्ञोपवीते बृहस्पतिदैवते रां (रामाय नमः।) इदं वस्त्रं बृहस्पति दैवतं रां (रामाय नमः।) एतानि गन्धपुष्पधूपदीप्ताम्बूलनैवेद्यानि रां रामाय नमः। ॐ सीते इहागच्छ इह तिष्ठ। तत्रार्घदानमन्त्रः- ॐ सीते देवि नमस्तुभ्यं रामचन्द्रप्रिये सदा। गृहाणार्घ्यं मया दत्तं वरदा भव शोभने।। एषोऽर्घ्यः ॐ सीतायै नमः। एवं पञ्चोपचारैः पूजयेत्। तथैव कौशल्यां पूजयेत्। कौशल्ये इहागच्छ इह तिष्ठ। अर्घ्यदानमन्त्रः- ॐ कौशल्ये प्रणमामि त्वां राममातः सुशोभने। अदिते त्वं गृहाणार्घ्यं वरदा भव सर्वदा।। एषोऽर्घ्यः ॐ कौशल्यायै नमः। एवं पञ्चोपचारैः पूजयेत्। ततः ॐ कैकेयि इहागच्छ इह तिष्ठ। ॐ कैकेयि प्रणमामि त्वां रावणस्यान्तकारिणि। गृहाणार्घ्यं मया दत्तं वरदा भव शोभने।। एषोऽर्घ्यः ॐ कैकेय्यै नमः। एवं चन्दनादिना पूजयेत्। ततः सुमित्रापूजा। ॐ सुमित्रे इहागच्छ इह तिष्ठ। ॐ सुमित्रे त्वां नमस्यामि शेषमातर्नमोऽस्तु ते। गृहाणार्घ्यं मया दत्तं वरदा भव सुन्दरि।। एषोऽर्घ्यः ॐ सुमित्रायै नमः। एवं चन्दनादिना पूजयेत्। ॐ दशरथ इहागच्छ इह तिष्ठ। ॐ अजपुत्र महाबाहो श्रीमद्दशरथ प्रभो। गृहाणार्घ्यं मया दत्तं रामतात नमोऽस्तु ते।। एषोऽर्घ्यः ॐ दशरथाय नमः। एवं पूजयेत्। ॐ भरत इहागच्छ इह तिष्ठ। ॐ दाशरथे त्वां नमस्यामि रामभक्त नृपात्मज। मया समर्पितं तुभ्यमर्घोऽयं प्रतिगृह्यताम्।। एषोऽर्घ्यः ॐ भरताय नमः। ॐ लक्ष्मण इहागच्छ इह तिष्ठ। ॐ लक्ष्मणत्वं महाबाहो इन्द्रजिद्वधकारक। गृहाणार्घ्यं मया दत्तं सुमित्रातनय प्रभो।। एषोऽर्घ्यः ॐ लक्ष्मणाय नमः। एवं पूजयेत्।