पृष्ठ 311(250) अगस्त्य-संहिता
ततोऽत्र पूजयेत् पुष्पाक्षतैः ॐ वज्राय नमः, ॐ शक्त्यै नमः, ॐ
दण्डाय नमः, ॐ शङ्खाय नमः, ॐ पाशाय नमः, ॐ गदाय नमः, ॐ शूलाय
नमः, ॐ चक्राय नमः, ॐ पद्माय नमः, ॐ अङ्कुशाय नमः। ततः
सूर्यादिनवग्रहाः इति।
अथ घृतदीपम्।
नमोऽस्यां रात्रौ चैत्रशुक्लरामनवम्यां सकलपापविनिर्म्मुक्तिपूर्व्वक-ज्योतिष्मद्
विमानकरणक-विष्णुलोकगमनकामनयामुं घृतदीपं श्रीरामचन्द्रायहन्ददे॥
प्राणप्रतिष्ठामन्त्रः। ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्टं
यज्ञग् समिमं दधातु। विश्वेदेवास इह मादयन्तामों प्रतिष्ठ।।। श्रीरामचन्द्र
साङ्ग-सायुध-सवाहन-सपरिवार इह सुप्रतिष्ठितो भव। इति
छन्दोगानां प्राणप्रतिष्ठामन्त्रः ॐ वाङ्मनः प्राणापानौ व्यान चक्षुः श्रोत्रं
शर्म्मवर्म्मभूतिः प्रतिष्ठा ॐ श्रीरामचन्द्र साङ्ग-सायुध-सवाहन-सपरिवार इह
सुप्रतिष्ठितो भव॥
पुष्पाञ्जलिं गृहीत्वोपविश्य-
नमो नमस्ते देवेश सुरासुरपते जय।
जय कामद भक्तानां जय दाशरथे प्रभो।।
जय सीतापते नाथ जय भग्नेशकार्मुक।
जब ब्रह्माण्डखण्डेश जय रावणमर्द्दन।।
जय बालिकपीशघ्न जय सुग्रीवराज्यद।
जय द्विजगणानन्द जय वायुसुतप्रिय।।
इति संकीर्त्य देवेशं प्रणिपत्य पुनः पुनः।
सर्वान् कामानवाप्नोति ततो मोक्षमवाप्नुयात्।।
एष पुष्पाञ्जलिः नमो भगवते श्रीरामचन्द्राय नमः।।
।। श्रीरामचन्द्राय नमः।।
अथ रामनवमीपूजाविधिः
मृण्मयीं प्रतिमां विधाय ॐ रामोऽसीति नाम कृत्वा ॐ
मनोजूतिरित्य़ादिमन्त्रेण प्रतिष्ठां कृत्वा रामं ध्यायेत्-
कोमलाङ्गं विशालाक्षमिन्द्रनीलसमप्रभम्।
दक्षिणांशे दशरथं पुत्रावेक्षणतत्परम्।।