भारतकोश
अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)

अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)

Agastya Samhita of Sage Agastya with Commentary

महर्षि अगस्त्य / पं. भवनाथ झा द्वारा

DevanagariSanskritpublished337 पृष्ठ

पृष्ठ 312, कुल 337 में से

संदर्भ में पढ़ें
पृष्ठ 312

परिशिष्ट 3 (251) पृष्ठतो लक्ष्मणन्देवं सैच्छत्रं कनकप्रभम्। पार्श्वे भरत शत्रुघ्नौ तालवृन्तकरावुभौ॥ अग्रेऽप्यग्रं हनूमन्तं रामानुग्रहकांक्षितम्। एवं ध्यात्वा प्रतिमां स्वशाखोक्तविधिना संस्थापयेत्। ॐ इन्द्राग्निर्यमश्चैव निर्ऋतोवरुणोऽनिलः। कुबेर ईशो ब्रह्मा च दिक्पालाः स्नापयन्तु ते॥ इत्यनेन स्नापयेत्। ततो यवमादाय ॐ ह्रौं श्रीं महावीर समरवीरपते श्रीरामचन्द्र इहागच्छ इह तिष्ठ इत्यावाह्य स्थापयित्वा फल-पुष्पाम्बुसम्पूर्ण-चूताशोक-तुलसीदल- संयुक्तमुज्ज्वलं शङ्खं गृहीत्वा। दशग्रीवविनाशाय जातोऽसि रघुनन्दन। गृहाणार्घ्यं मया दत्तं प्रसीद परमेश्वर॥ एषोऽर्घ्यः भगवते श्रीरामचन्द्राय नमः। सुगन्धिचन्दनं दिव्यं कर्पूरादिमिश्रितम्। सीतया भार्य्यया सार्द्धं रक्षोघ्नं परिगृह्यताम्॥ इदमनुलेपनं भगवते श्रीरामचन्द्राय नमः। पुष्पमादाय पुष्पन्तु परं दिव्यं पुण्यं सुरभिसंयुतम्। गृहाण परया भक्त्या मया दत्तं जगत्पते॥ इदं पुष्पं भगवते श्रीरामचन्द्राय नमः। ततो यज्ञोपवीतमादाय श्रीरामविबुधाधीश सुरासुरवरप्रद। यज्ञोपवीतं मद्दत्तं परिधत्स्व रघुनन्दन॥ इमे यज्ञोपवीते बृहस्पतिदैवते भगवते श्री रामचन्द्राय नमः। ततो वासोयुगलमादाय ॐवासो युगं गृहाणेश तन्तुसन्तानकल्पितम्। सीतया भार्य्यया सार्द्धं रक्षोघ्नं परिधीयताम्॥ इमे वासोयुगे बृहस्पतिदैवते भगवते श्रीरामचन्द्राय नमः। ॐरामचन्द्र सुरश्रेष्ठ जानक्या भ्रातृभिः सह। पूजितोऽसि मया देव धूपोऽयं प्रतिगृह्यताम्॥ एष धूपः भगवते श्रीरामचन्द्राय नमः।