भारतकोश
अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)

अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)

Agastya Samhita of Sage Agastya with Commentary

महर्षि अगस्त्य / पं. भवनाथ झा द्वारा

DevanagariSanskritpublished337 पृष्ठ

पृष्ठ 313, कुल 337 में से

संदर्भ में पढ़ें
पृष्ठ 313

(252) अगस्त्य-संहिता ॐ मारीचघ्न महाबाहो सङ्ग्रामव्यसन प्रभो। दीपोऽयं गृह्यतां देव त्रैलोक्यध्वान्तनाशनः॥ एष दीपः भगवते श्रीरामचन्द्राय नमः। इदं ताम्बूलं भगवते श्रीरामचन्द्राय नमः। नैवेधं फल पक्वान्नं शर्कराघृतपाचितम्। गृहाण जगतां सर्व्वैर्बन्धुजनैस्सह॥ एतानि नैवेधानि ॐ भगवते श्रीरामचन्द्राय नमः। ॐ नमस्ते पुण्डरीकाक्ष त्राहि मां भवसागरात्। सर्वपापप्रणाशार्थं दण्डवत् प्रणमाम्यहम्॥ इत्यनेन दण्डवत् प्रणामं कुर्य्यात्। ॐ यानि कानि कृतानीह पापानि मम जन्मनि। तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे॥ अनेन मन्त्रेण प्रदक्षिणं कुर्य्यात्। ततः उपविश्य पठेत्। ॐ नमस्ते देव देवेश सुरासुरपते जय। जय कामद भक्तानां जय दाशरथे प्रभो॥ जय सीतापते नाथ जय भग्नेशकार्मुक। जय ब्रह्माण्ड खण्डेश जय रावणमर्द्दन॥ जय बालीकपीशघ्न जय सुग्रीवराज्यद। जय द्विजगणानन्द जय वायुसुतप्रिय॥ इति संकीर्त्य देवेशं प्रणिपत्य पुनः पुनः। सर्वान् कामानवाप्नोति ततो मोक्षमवाप्नुयात्॥ एष पुष्पाञ्जलिः नमो भगवते श्रीरामचन्द्राय नमः। ततः सीतापूजा। ॐ सीते इहागच्छ इह तिष्ठ इत्यावाह्य ॐ दशाननविनाशाय जाता धरणिसंभवा। मैथिली शीलसम्पन्ना पातु नः पतिदेवता॥ एषोऽर्घ्यः ॐ सीतायै नमः। इदमनुलेपनम्। इदं सिन्दूरम्। इदमक्षतम्। इदं पुष्पम्। एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-नैवेद्यानि ॐ सीतायै नमः। ततो लक्ष्मण इहागच्छ इह तिष्ठ इत्यावाह्य ॐ निहतो रावणियेन शक्रजिच्छत्रुघातिना। सः पातु लक्ष्मणो धन्वी सुमित्रानन्दवर्द्धन॥ एषोऽर्घ्यः भगवते श्री लक्ष्मणाय नमः।