अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)
Agastya Samhita of Sage Agastya with Commentary
महर्षि अगस्त्य / पं. भवनाथ झा द्वारा
पृष्ठ 314, कुल 337 में से
संदर्भ में पढ़ेंपरिशिष्ट 3 (253) ततोऽष्टदलमध्ये पूर्वदले ॐ दशरथ इहागच्छ इह तिष्ठेत्यावाह्य ॐ नानाविधगुणागार गृहाणार्घ्यं नृपोत्तम। रविवंशप्रदीपाय नमो दशरथाय वै॥ एषोऽर्घ्यः दशरथाय नमः। एवं गन्धादिना पूजयेत्। आग्नेयदले कौशल्यामावाहयेत्। ॐ कौशल्ये इहागच्छ इह तिष्ठ। ॐ गृहाणार्घ्यं मया देवि रम्ये दशरथप्रिये। जगदानन्दवन्द्यायै कौशल्यायै नमो नमः॥ एषोऽर्घ्यः कौशल्यायै नमः। इदमनुलेपनम्। इदं सिन्दूरम्। इदमक्षतम्। इत्यादिना पूजयेत्। याम्यदले कैकेयि इहागच्छ इह तिष्ठ। ॐ दृढप्रतिज्ञे कैकेयि मातर्भरतवन्दिते। गृहाणार्घ्यं महादेवि रक्ष मां भक्तवत्सले॥ एषोऽर्घ्यः कैकेय्यै नमः। इदमनुलेपनम्। इदं सिन्दूरम्। इदमक्षतम्। इत्यादिना पूजयेत्। नैर्ऋत्यदले सुमित्रे इहागच्छ इह तिष्ठ। ॐ शुभलक्षणसम्पन्ने लक्ष्मणानन्दकारिणि। सुमित्रं देहि मे देवि सुमित्र्यै वै नमो नमः॥ एषोऽर्घ्यः सुमित्रायै नमः। एवं गन्धादिना पूजयेत्। पश्चिमदले भरत इहागच्छ इह तिष्ठ। ॐ भक्तवत्सल भक्त्यात्म रामभक्तिपरायण। भक्त्या दत्तं गृहाणार्घ्यं भरताय नमो नमः॥ ॐ एषोऽर्घ्यः ॐ भरताय नमः। इदमनुलेपनेम्। एते तिलाः। इदं पुष्पम्। एवं पूजयेत्। ततः वायव्यदले शत्रुघ्न इहागच्छ इह तिष्ठ। ॐ लवणान्तक शत्रुघ्न शत्रुकाननपावक। गृहाणार्घ्यं मया दत्तं प्रसीद कुरु मे शुभम्॥ एषोऽर्घ्यः ॐ शत्रुघ्नाय नमः। एवं गन्धादिना पूजयेत्। उत्तरदले सुग्रीव इहागच्छ इह तिष्ठ। ॐ सुग्रीवाय नमस्तुभ्यं दशग्रीवान्तकप्रिय। गृहाणार्घ्यं महावीर किष्किन्धानायक प्रभो॥ एषोर्घ्यः ॐ सुग्रीवाय नमः।