अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)
Agastya Samhita of Sage Agastya with Commentary
महर्षि अगस्त्य / पं. भवनाथ झा द्वारा
पृष्ठ 322, कुल 337 में से
संदर्भ में पढ़ेंपरिशिष्ट 4 श्रीमदगस्त्यसंहितान्तर्गत श्रीरामानन्दाचार्यजन्मोत्सवकथा अथ एकत्रिंशदुत्तरशततमोऽध्यायः सिंहासने समासीनः सहितः सीतयानुजैः। अतसीकुसुमश्यामो रामो विजयतेऽनिशम्।।1।। स्वाश्रमे संश्रितं शिष्यैः प्रातर्हुतहुताशनम्। बोधयन्तं परं तत्त्वं तमगस्त्यं महामुनिम्।।2।। कृतक्षणः सुतीक्ष्णस्तमुपागम्य कृताञ्जलिः। पश्यन्वनानि रम्याणि विचरंश्च महामुनिः।।3।। भाविनो नॄन् कलौ बुध्वा विषयासक्तचेतसः। अज्ञानाल्पायुषः श्रीमच्छ्रीशांघ्रिविमुखान्भुवि।।4।। संसारार्णवसंमग्नान् कृपालुर्मुर्निसत्तमः। उद्धर्तुकामांस्तांस्तस्मात् पृष्टवान् श्रेय उत्तमम्।।5।। सुतीक्ष्ण उवाच भगवन्! मुनिशार्दूल! सर्वज्ञ! कलशोद्भव! नॄणां श्रेयसि मूढानां श्रेयश्चिन्तय सुव्रत!।।6।। उपायं वद निश्चित्य तेषां श्रेयो यथा भवेत्। परोपकारनिरताः साधवो हि कृपालवः।।7।। अगस्त्य उवाच कुम्भजोऽथनिशम्येत्थं वाचं मुनिसमीरिताम्। अल्पाक्षरमनल्पार्थां धर्मसंप्रश्नभूषिताम्।।8।।