अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)
Agastya Samhita of Sage Agastya with Commentary
महर्षि अगस्त्य / पं. भवनाथ झा द्वारा
पृष्ठ 324, कुल 337 में से
संदर्भ में पढ़ेंपरिशिष्ट 4 (263) मुनिवर्य! महाभाग! जगतां हितकारक! मया जगद्धितायैव पुरैतदवंधारितम्।।24।। दिव्ये हि भारते वर्षे तीर्थराजे सुविश्रुते। प्रयागे पुण्यसदने भवद्भिर्नित्यसूरिभिः।।25।। सार्द्धमेवावतीर्याहं प्रणेष्ये मोक्षसाधनम्। दृढसंसारबन्धस्य शातनं भक्तिवर्द्धनम्।।26।। सुबोधं सुकरं सर्वैर्धर्ममार्गं सुखावहम्। वेदवेदान्तसच्छास्त्रसारभूतं सदाश्रयम्।।27।। तत्र तत्रावतीर्णास्तु भवन्तो वीतकल्मषाः। मदुक्तस्योपदेष्टारः प्राणिभ्यो तत्परायणाः।।28।। भविष्यन्ति महात्मानो जगदुद्धारहेतवः। सुशीला धर्मनिरता जगतामुपकारकाः।।29।। ये ग्रहीष्यन्ति सन्मार्गं प्राणिनो भक्तितत्पराः। स्यादनायासतो मोक्षस्तेषामत्र न संशयः।।30।। वाणीपीयूषमास्वाद्य क्षणमासीद्धरेर्मुनिः। मग्नः सुखसुधांभोधौ विनीतो गतसंशयः।।31।। निशम्य तद्वाक्यममोघमद्भुतं हिरण्यगर्भाङ्गसमुद्भवो मुनिः । प्रहृष्टरोमावलिभूषिताकृतिः कृती कृतज्ञः कृतकृत्य ईशितुः।।32।। दृढव्रतस्याथ विनम्रकन्धरः स्मरन् सुरेशस्य विभोः प्रतिश्रुतम्। प्रणम्य तं देववरं रमापतिं महाविभूतेर्नि■रगात्ततः सुधीः।।33।। सुवादयन् दिव्ययशोऽथवल्लकीं हरेः स्वरब्रह्मविभूषितानसौ। गायंश्च लोके विचचार सर्वतः सुरासुरेन्द्रैरभिपूजितो मुनिः।।34।। मुनीश्वरे देवऋषौ विनिर्गते सुरैरपीड्यो जगतामधीश्वरः। रेमे रमेशो रमया स्मिताननः प्रभूतभूतैर्निजदिव्यधामनि ।।35।।