भारतकोश
अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)

अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)

Agastya Samhita of Sage Agastya with Commentary

महर्षि अगस्त्य / पं. भवनाथ झा द्वारा

DevanagariSanskritpublished337 पृष्ठ

पृष्ठ 325, कुल 337 में से

संदर्भ में पढ़ें
पृष्ठ 325

(264) अगस्त्य-संहिता इति श्रीमदगस्त्यसंहितायां भविष्यखण्डेऽगस्त्यसुतीक्ष्णसम्वादे श्रीरामन्दाचार्यावतारोपक्रमे श्रीरामनारदसम्प्रश्नोत्तरं नामैकत्रिंशदुत्तरशत तमोऽध्यायः ॥१३१॥ अथ द्वात्रिंशदुत्तरशततमोऽध्यायः व्यतीते द्वापरे पुण्ये श्रीमद्भगवतोज्झिते। कलौ सत्त्वहरे पुंसां प्रवृत्तेऽधर्मवर्धके॥१॥ जनेऽधर्मरुचौ नित्यं शौचाचारविवर्जिते। मोक्षसाधनमार्गेभ्यो विमुखे पशुतां गते॥२॥ मन्दे मन्दमतौ शश्वदल्पभाग्येऽल्पजीवने। तत्रत्ये पापिनिरते महत्सङ्गविवर्जिते॥३॥ प्रवर्धमानानभितो वादैनिर्जित्य नास्तिकान्। आचार्यैर्भागवद्धर्मो वेदवेदान्तपारगैः॥४॥ स्थापितोऽपि महायोगैर्वृद्धिं नैव गमिष्यति। विधातुं सत्यसन्ध! सुरेड्यो निजभाषितम्॥५॥ वीक्ष्य विष्णुः कृपासिन्धुः प्रबुद्धं तादृशं कलिम्। सदृशांश्च जनान् सर्वान् दुर्मतीन् क्लेशसंयुतान्॥६॥ मनःकर्ताऽवताराय स्मृत्वाथो स्वं प्रतिश्रुतम्। खं नभो वेद वेद प्रमिते वर्षे गते कलौ॥७॥ कालिन्दीजाह्नवीसङ्गशोभिते देवपूजिते। तीर्थराजे महापुण्ये प्रयागे तीर्थ उत्तमे॥८॥ गृहे श्रीपुण्यसदनद्विजातेर्भूरिकर्मणः। योगिनो योगयुक्तस्य कान्यकुब्जशिरोमणेः॥९॥ पतिसेवापरा तस्य सुशीला गृहिणी ततः। माघकृष्णस्य सप्तम्यां शुभधर्मप्रवर्तके॥१०॥ सप्तदण्डोद्गते सूर्ये सिद्धयोगयुजि प्रभुः। नक्षत्रे त्वाष्ट्रदैवत्ये कुम्भलग्ने शुभग्रहे॥११॥