भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 10, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 10

अध्या० १।ख० १] ऐतरेयारण्यकम् । ५

तच्च सप्तर्चं सूक्तमिति पूर्वमेवाभिहितम् ।
पुष्टिफलाय सूक्तान्तरं विधत्ते—
विशो विशो वो अतिथिामति पुष्टिकामः, इति ।
एतच्च सूक्तं पञ्चदशर्चम् ।
तस्य पुष्टिहेतुत्वमुपपादयति—
पुष्टिर्वै विशः पुष्टिमान्भवतीति, इति ।
विशो वैश्यास्ते हि वाणिज्येन बहुधनमर्जयन्तः करमपि बहुलं प्रयच्छन्ति । अतो विशां पुष्टित्वम् । अस्मिन्नर्थे लोकप्रसिद्धिवैशब्देनोच्यते । सूक्ते तु विशो विश इति वीप्सया बहुविधानां वैश्यानामभिहितत्वात्तेन सूक्तेनायं यजमानः पुष्टिमान्भवतीत्येतदुपपन्नम् । इतिशब्दो हेत्वर्थः । यस्मात्पुष्टिमान्भवति तस्मात्पुष्टिकामस्तत्सूक्तं कुर्यात् ।
अत्र पूर्वपक्षत्वेन तत्सूक्तं दूषयति—
अतिथिमिति पदं भवति नैतत्कुर्यादित्या-
हुरीश्वरोऽतिथिरेव चरितोः, इति ।
अस्मिन्सूक्ते दारिद्र्यस्य वाचकमतिथिमिति पदं वर्तते । तस्मान्नैतत्सूक्तं कुर्यादित्येवं केचित्पण्डितंमन्या आहुः । तत्रोपपत्तिं च वर्णयन्ति—य एतदाज्यं कुर्यात्सोऽयमतिथिरेव दरिद्र एव भूत्वा याच्ञार्थं परगृहेषु सर्वदा चरितुं प्रभुर्भवतीति ।
अत्र सिद्धान्तत्वेन तस्य सूक्तस्य प्रसङ्गं च विधत्ते—
तदु ह स्माऽऽह कुर्यादेव, इति ।
अतिथिपदतात्पर्याभिज्ञः सिद्धान्ती तदु ह सूक्तमवश्यं कुर्यादित्याह स्म ।
पूर्वपक्षोक्तदूषणशमनार्थमतिथिशब्दतात्पर्यं दर्शयति—
यो वै भवति यः श्रेष्ठतामश्नुते
स वा अतिथिर्भवति, इति ।
अत्रास्तिवाची भूधातुः सन्मार्गवार्तिनं ब्रूते । यस्तु पुमाँन्सन्मार्गवर्ती भवति तस्मिन्नपि सन्मार्गवर्तिसंघे यः पुमानतिशयेन प्राशस्त्यं प्राप्नोति स एवातिथिर्भवति । अतः प्राशस्त्यमत्र शब्दप्रवृत्तिनिमित्तं न तु दारिद्र्यम् ।
एतदेव व्यतिरेकमुखेन(ण) स्पष्टयति—
न वा असन्तमातिथ्यायाऽऽद्रियन्ते, इति ।


विशो विशो०—ऋ० सं० म० ८ सू० ७४ ऋ० १ ।


१ ख. ग. घ. ˚स्तु स पुं˚ । २ ख. ग. घ. ˚मान्मा˚ ।