भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 122, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 122

अध्या० २ ख० १] ऐतरेयारण्यकम् । ११७

यच्छतं वर्षाण्यभ्यार्चत्तस्माच्छतर्चिनस्तस्मा-
च्छतर्चिन इत्याचक्षत एतमेव सन्तम्, इति ।

य एष आदित्यो मण्डले तपति स एष पुरुषरूपेणोपासकजीवरूपेणेमं लोकमवलोक्यमानमिममुपासकदेहमभ्यार्चत्स्वप्रवेशेनाभितोऽर्चनीयमकरोत् । पुरुषरूपाभावे हि शवरूपो देहोऽयमपूज्यः स्यात् । न च प्रस्तुतं प्राणं परित्यज्य किमित्यादित्यो वर्ण्यते इति शङ्कनीयम् । यस्मादादित्यरूपेण प्राण एव तच्छरीरमर्चनयोग्यमकरोत् । य एष मण्डलस्थोऽस्माभिर्दृश्यमानस्तपति स एष प्राणो हि । न खल्वादित्यप्राणयोर्भेदोऽस्ति, अध्यात्ममधिदैवं चेत्येवं स्थानभेदमात्रम् । अत एव—“आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णीते ” [ प्रश्नो० ३ । ८] इति श्रुत्यन्तरे पठ्यते । एक एव पदार्थो देहं प्रवर्तयितुमन्तः स्थितो दृष्टिमनुग्रहीतुं बहिः स्थित इत्येतावदेव द्वयोर्वैषम्यम् । स प्राणस्तं मनुष्यदेहं शतसंख्याकान्संवत्सरान्पूजनीयमकरोत् । तस्मात्कारणात्पुरुषायुषो मनुष्याणामायूंषि शतसंख्याकाः संवत्सरा भवन्ति । यस्मादयं प्राणस्तं मनुष्यदेहं वर्षशतमर्चितवांस्तस्मात्तथैव व्युत्पत्त्या प्राणस्यावतारभूताः प्रथममण्डलद्रष्टारो मुनयः शतर्चिसंज्ञकाः संपन्नाः । यस्मात्प्राणनिष्पादितार्चनीयवशाच्छतर्चिनामका मुनयस्तस्मात्तदुपासका एतमेव प्राणरूपं सन्तं शतर्चिनामका मुनय इत्याचक्षते । प्राणस्य तन्मुनिरूपत्वं ध्यायेदित्यर्थः ।

द्वितीयं गुणं विधत्ते—

स इदं सर्वं मध्यतो दधे यदिदं किंच स यदिदं
सर्वं मध्यतो दधे यदिदं किंच तस्मान्माध्यमास्त-
स्मान्माध्यमा इत्याचक्षत एतमेव सन्तम् , इति ।

प्राणदेवो यत्किंचिद्देहजातमस्ति तदिदं सर्वं स्वयं मध्यतोऽवस्थाय धारितवांस्तस्मात्प्राणावतारविशेषाः केचिदृषयो माध्यमनामकाः संपन्नाः । तद्रूपत्वं प्राणस्य ध्यायेत् ।

तृतीयं गुणं विधत्ते—

प्राणो वै गृत्सोऽपानो मदः स यत्प्राणो गृत्सोऽपानो मदस्तस्मा-
द्गृत्समदस्तस्माद्गृत्समद इत्याचक्षत एतमेव सन्तम् , इति ।

यः प्राणोऽस्ति स एव स्वापकाले वागादीनां निगरणाद्गृत्स इत्युच्यते । अपानश्च रेतोविसर्गकारकमदहेतुत्वान्मद इत्युच्यते । तदुभयावतारो मुनिर्गृत्समदनामकः ।


१ क. ख. ॰स्माथे(दे)तथैव । २ क. घ. ङ. ॰ता अर्चं॰ । ३ क. ख. ग. ॰र्चनव॰ । ४ ख. ॰स्मादु॰ । घ. ङ. ॰स्मादेतदु॰ । ५ ग. प्राणपुरुषं ।