ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 123, कुल 304 में से
संदर्भ में पढ़ें११८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
चतुर्थं विधत्ते— तस्येदं विश्वं मित्रमासीद्यदिदं किंच तद्यदस्येदं विश्वं मित्रमासीद्यदिदं किंच तस्माद्विश्वामित्र- स्तस्माद्विश्वामित्र इत्याचक्षत एतमेव सन्तम्, इति ।
तस्य प्राणदेवस्य भोक्तुरिदं विश्वं भोग्यत्वेन मित्रमासीत् ।
पञ्चमं विधत्ते— तं देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तं यद्देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तस्माद्वाम- देवस्तस्माद्वामदेव इत्याचक्षत एतमेव सन्तम्, इति ।
वागादयो देवाः सर्वे तं प्राणमुद्दिश्य परस्परमब्रुवन् । अयं वै प्राण एव नोऽस्माकं सर्वेषां मध्ये वामो वननीयो भजनीय इति । देवेषु मध्ये वाम इति व्युत्पत्त्या वामदेवनाम संपन्नम् ।
षष्ठं विधत्ते— स इदं सर्वं पाप्मनोऽत्रायत यदिदं किंच स यदिदं सर्वं पाप्मनोऽत्रायत यदिदं किंच तस्माद्- त्रयतस्तस्मात्त्रय इत्याचक्षत एतमेव सन्तम्, इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयाध्याये प्रथमः खण्डः ॥ १ ॥ (९)
यत्किंचिदिदं मनुष्यजातमस्ति तत्सर्वं स प्राणः पाप्मनः सकाशादत्रायत रक्षितवान् । तस्मादत्रायतेत्यत्रिरिति निर्वचनं संपन्नम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके द्वितीयाध्याये प्रथमः खण्डः ॥ १ ॥ (९)
अथ द्वितीयः खण्डः । ( दशमः )
पूर्वत्र शतर्चिंप्रभृतिमुनिस्वरूपलक्षणाः षड्गुणा अभिहिताः, अथ भरद्वाजस्वरू- पत्वादयो दश गुणा उच्यन्ते । तत्र प्रथमं गुणं विधत्ते—
एष उ एव बिभ्रद्वाजः प्रजा वै वाजस्ता एष बिभर्ति यदिबिभर्ति तस्माद्भरद्वाजस्त- स्माद्भरद्वाज इत्याचक्षत एतमेव सन्तम्, इति ।