भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 124, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 124

अध्या० २ ख० २] ऐतरेयारण्यकम् । २१९

॰ यः प्राणोऽस्ति स एष एव बिभ्रद्वाजनामकः । वजिधातुर्गत्यर्थः । गतिमत्त्वात्प्रजानां देहो वाजशब्देनोच्यते । अथवा श्रुतौ—"अन्नं वै वाजः" इत्युक्तेरन्नसंबन्धाद्वाजशब्देन प्रजा विवक्षिताः । तं प्रजारूपं वाजमेष प्राणः स्वप्रवेशेन बिभर्ति पोषयतीति बिभ्रद्वाजः । प्रजा वै वाज इत्यादिना भरद्वाजनामनिर्वचनमुक्तम् ।

द्वितीयं गुणं विधत्ते—

तं देवा अब्रुवन्नयं वै नः सर्वेषां वसिष्ठ इति तं
यद्देवा अब्रुवन्नयं वै नः सर्वेषां वसिष्ठ इति तस्मा-
द्वसिष्ठस्तस्माद्वसिष्ठ इत्याचक्षत एतमेव सन्तम्, इति ।

अयमेव प्राणोऽस्माकं सर्वेषां स्वप्रवेशेनात्यन्तं निवासहेतुः सन्चसिष्ठ इति च देवा अब्रुवन् ।

तृतीयं विधत्ते—

स इदं सर्वमभिपागायद्यदिदं किंच स यदिदं
सर्वमभिप्रागाद्यदिदं किंच तस्मात्प्रगाथास्त-
स्मात्प्रगाथा इत्याचक्षत एतमेव सन्तम्, इति ।

स प्राण इदं सर्वं शरीरजातं स्वानुप्रवेशेनाभिप्रागात्सर्वतः प्रगतवांस्तस्मात्प्राणदेवताया मूर्तिविशेषप्रतिपादका ऋग्द्वयात्मकसूक्तरूपा मन्त्रविशेषाः प्रगाथा इत्युच्यन्ते । तन्मन्त्रद्रष्टारो महर्षयोऽपि प्रगाथनामकाः ।

चतुर्थं विधत्ते—

स इदं सर्वमभ्यपवयत यदिदं किंच स यदिदं
सर्वमभ्यपवयत यदिदं किंच तस्मात्पावमान्य-
स्तस्मात्पावमान्य इत्याचक्षत एतमेव सन्तम्, इति ।

लोके क्षुद्रं यत्किंचिदस्ति तत्सर्वं प्राणोऽभ्यपवयतामितः पूतं शुद्धमकरोत्ततस्तन्मूर्तिविशेषप्रतिपादिका ऋचस्तद्द्रष्टारो महर्षयश्च पावमान्य इत्युच्यन्ते ।

पञ्चमं विधत्ते—

सोऽब्रवीदहमिदं सर्वमसानि यच्च क्षुद्रं यच्च महदिति
ते क्षुद्रसूक्ताश्चाभवन्महासूक्ताश्च तस्मात्क्षुद्रसूक्तास्त-
स्मात्क्षुद्रसूक्ता इत्याचक्षत एतमेव सन्तम्, इति ।

लोके क्षुद्रं पिपीलिकादिरूपं यदस्ति महत्त्वं गजाश्वादिरूपं यदस्ति तत्सर्वमहमेव भवानीत्येवं स प्राणदेवः कदाचिदब्रवीत्ततस्तत्प्राणप्रतिपादकमन्त्रसंघाः क्षुद्रसू-


१ ख. ग. ॰त्मक सू॰ । २ क. ख. ग. ॰ष्टारोऽपि म॰ ।